Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 401
________________ ३८४ अणुसोय त्ति अनुश्रोतसा चरतीत्यनुश्रोतश्चारी नद्यादिप्रवाहगामी, एवमन्ये त्रयः २२, एवं भिक्षाक: साधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमः, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, यस्तु क्षेत्रान्तेषु भिक्षते स तृतीय:, क्षेत्रमध्ये चतुर्थः २३ । मधुसिक्थं मदनम्, तस्य गोलो वृत्तपिण्डो मधुसिक्थगोल:, एवमन्येऽपि, नवरं जतु लाक्षा, दारु-मृत्तिके प्रसिद्धे इति २४, यथैते गोला मृदु- कठिन - कठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदु-दृढ - दृढतर- दृढतमसत्त्वा भवन्ति ते मधुसिक्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५ । अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः क्रमेण गुरु- गुरुतर - गुरुतमाऽत्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्त्युपार्जितकर्म्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृ - मातृ - पुत्र - कलत्रगतस्नेहभारतो वेति २७ । हिरण्यादिगोलेषु क्रमेणाल्पगुण-गुणाधिक-गुणाधिकतर -गुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २९ । पत्राणि पर्णानि, तद्वत् प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असि: खड्ग:, स एव पत्रमसिपत्रम्, करपत्रं क्रकचं येन दारु छिद्यते, क्षुर: छुरः, स एव पत्रं क्षुरपत्रम्, कदम्बचीरिकेति शस्त्रविशेष इति ३०, तत्र द्राक् छेदकत्वादसेर्य: पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरुं छिनत्ति स करपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधर्म्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थ: अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्र - मन्द - मन्दतर - मन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१ । कम्बादिभिरातान-वितानभावेन निष्पाद्यते यः स कटः, कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र सुंबकडे त्ति तृणविशेषनिष्पन्नः, विदलकडे ति

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432