________________
३८२
दान-व्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः, अन्यस्त्वन्यथेति, एवं शेषौ ८ । क्षेत्रं धान्याद्युत्पत्तिस्थानम् ९ । पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी पात्रे दान-श्रुतादीनां निक्षेपकः, अन्यो विपरीतः, अन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपः, अन्यस्तु दानादावप्रवृत्तिक इति १० । जनयिता मेघो यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृष्ट्यैव सफलतां नयतीति ११ । एवं मातापितरावपीति प्रसिद्धम्, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२ ।
विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी १ । यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी २ । यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्वः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३ आत्मनो वा सर्वः ४, अथवा आत्मनो देशेन क्षेत्रतः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वः ७, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः सर्वत्र ८, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतः सर्वत्रे ९ त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी चेति ३ । चतुर्थः सुज्ञान इति १३ । राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योग-क्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिः, यस्तूभयत्र स उभयाधिपतिः, अथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट इति १४ ।
पुक्खलेत्यादि, एगेणं वासेणं ति एकया वृष्ट्या भावयतीति उदकस्नेहवतीं करोति, धान्यादिनिष्पादनसमर्था मिति यावत्, भुवमिति गम्यते । जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम् अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति १५। अत्रान्तरे मेघानुसारेण पुरुषा: पुष्कलावतसमानादय: पुरुषाधिकारत्वात् अभ्यूह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं य: करोत्यसावाद्यमेघसमान:, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीय-तृतीयमेघसमानौ, असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकुर्वन् वा चतुर्थमेघसमान इति ।