Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 404
________________ ३८७ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । चउव्विधे संवासे पन्नत्ते, तंजहा-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ६। [टी०] अनन्तरं पुरुषभेदा उक्ता:, अधुना तद्व्यापारविशेषं तद्वेदसम्पाद्यमभिधित्सुः सूत्रसप्तकमाह- चउव्विहे संवासेत्ति सुगमम्, नवरं स्त्रिया सह संवसनं शयनं संवास:, द्यौः स्वर्गः, तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो व्यन्तरविशेषः । चतुर्भङ्गिकासूत्राणि | देव ३ | असुर २ | राक्षस १ | मनुष्य | देवासुरेत्येवमादिसंयोगत: षड् भवन्ति । । | देवी | असुरी | राक्षसी | नारी [सू० ३५४] चउव्विहे अवद्धंसे पन्नत्ते, तंजहा-आसुरे, आभिओगे, संमोहे, देवकिब्बिसे । चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तंजहा-कोधसीलताते, पाहुडसीलताते, संसत्ततवोकम्मेणं, निमित्ताजीवताते । __ चउहिं ठाणेहिं जीवा आभिओग्गत्ताते कम्मं पगरेंति, तंजहा-अत्तुक्कोसेणं, परपरिवातेणं, भूतिकम्मेणं, कोउयकरणेणं । चउहि ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तंजहा-उम्मग्गदेसणाए मग्गंतराएणं, कामासंसपओगेणं, भिज्झानियाणकरणेणं ।। __ चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति, तंजहा-अरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणमवन्नं वदमाणे, चाउवन्नस्स संघस्स अवन्नं वदमाणे । [टी०] पुरुषक्रियाधिकारादेवापध्वंससूत्रम्, तत्रापध्वंसनमपध्वंस: चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनित आसुरः, येषु वाऽनुष्ठानेषु वर्त्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोग:, सम्मोहभावनाजनित: साम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनित: कान्दोऽपध्वंस:

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432