Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
उत्ताणहिदए, उत्ताणे णाममेगे गंभीरहिदए ह्व [= ४], २ ।
चत्तारि उदगा पन्नत्ता, तंजहा - उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी [ ४ ], ३ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजा - उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह्व [= ४], ४ ।
चत्तारि उदही पन्नत्ता, तंजहा - उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगे गंभीरोदही ह्व [ = ४], ५ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजाउत्ताणे णाममेगे उत्ताणहियए ह्व [ ४ ], ६ ।
चत्तारि उदही पन्नत्ता, तंजहा - उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह्व [ ४ ], ७ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - उत्ताणे णाममेगे उत्ताणोभासी ह्व [= ४], ८ ।
[टी०] एते च कामा: तुच्छ गम्भीरयोर्बाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारीत्यादीनि व्यक्तानि, किन्तु उदकानि जलानि प्रज्ञप्तानि, तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः, पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदकं जलम्, उत्ताणोदये त्ति व्यस्तोऽयं निर्देश: प्राकृतशैलीवशात् समस्त इवावभासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बध्यमानत्वात्, साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति १ । तथोत्तानं तथैव, गम्भीरमुदकं गडुलत्वादनुपलभ्यमानस्वरूपम् २, तथा गम्भीरम् अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् ३, तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति ४ । पुरुषस्तु उत्तान: अगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्त गुह्यधरणासमर्थचित्तत्वादित्येकः । अन्य उत्तान: कारणवशाद्दर्शितविकृतचेष्टत्वात् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् । तृतीयस्तु गम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृताकारतया, उत्तानहृदयस्तथैव । चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् १।
३९३

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432