Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३९२
भिलाष:, भयसंज्ञा भयमोहनीयसम्पाद्यो जीवपरिणामः, मैथुनसंज्ञा वेदोदयजनितो मैथुनाभिलाष:, परिग्रहसंज्ञा चारित्रमोहोदयजनित: परिग्रहाभिलाष इति।
अवमकोष्ठतया रिक्तोदरतया, मत्या आहारकथाश्रवणादिजनितया, तदर्थोपयोगेन सततमाहारचिन्तयेति ।
हीनसत्त्वतया सत्त्वाभावेन, मति: भयवा श्रवण-भीषणदर्शनादिजनिता बुद्धिः, तया, तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति ।
चिते उपचिते मांस-शोणिते यस्य स तथा, तद्भावस्तत्ता, तया चितमांसशोणिततया, मत्या सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेन मैथुनलक्षणार्थानुचिन्तनेनेति ।
अविमुक्ततया सपरिग्रहतया, मत्या सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या, तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति ।
[सू० ३५७] चउव्विहा कामा पन्नत्ता, तंजहा-सिंगारा, कलुणा, बीभच्छा, रोद्दा । सिंगारा कामा देवाणं, कलुणा कामा मणुयाणं, बीभच्छा कामा तिरिक्खजोणियाणं, रोद्दा कामा जेरइयाणं ।
[टी०] संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तं च, किन्तु कामाः शब्दादयः, शृङ्गारा देवानाम् ऐकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारः। मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्र-शोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्, करुणो हि रस: शोकस्वभाव:, करुण: शोकप्रकृति: [काव्यालं० १५।३] इति वचनादिति । तिरश्चां बीभत्सा जुगुप्सास्पदत्वात्, बीभत्सरसो हि जुगुप्सात्मकः। नैरयिकाणां रौद्रा दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात्, रौद्ररसो हि क्रोधरूपः ।
[सू० ३५८] चत्तारि उदगा पन्नता, तंजहा-उत्ताणे णाममेगे उत्ताणोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उत्ताणोदए, गंभीरे णाममेगे गंभीरोदए १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उत्ताणे नाममेगे

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432