________________
३८७
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । चउव्विधे संवासे पन्नत्ते, तंजहा-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ६।
[टी०] अनन्तरं पुरुषभेदा उक्ता:, अधुना तद्व्यापारविशेषं तद्वेदसम्पाद्यमभिधित्सुः सूत्रसप्तकमाह- चउव्विहे संवासेत्ति सुगमम्, नवरं स्त्रिया सह संवसनं शयनं संवास:, द्यौः स्वर्गः, तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो व्यन्तरविशेषः । चतुर्भङ्गिकासूत्राणि
| देव ३ | असुर २ | राक्षस १ | मनुष्य | देवासुरेत्येवमादिसंयोगत: षड् भवन्ति । ।
| देवी | असुरी | राक्षसी | नारी [सू० ३५४] चउव्विहे अवद्धंसे पन्नत्ते, तंजहा-आसुरे, आभिओगे, संमोहे, देवकिब्बिसे ।
चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तंजहा-कोधसीलताते, पाहुडसीलताते, संसत्ततवोकम्मेणं, निमित्ताजीवताते । __ चउहिं ठाणेहिं जीवा आभिओग्गत्ताते कम्मं पगरेंति, तंजहा-अत्तुक्कोसेणं, परपरिवातेणं, भूतिकम्मेणं, कोउयकरणेणं ।
चउहि ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तंजहा-उम्मग्गदेसणाए मग्गंतराएणं, कामासंसपओगेणं, भिज्झानियाणकरणेणं ।। __ चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति, तंजहा-अरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणमवन्नं वदमाणे, चाउवन्नस्स संघस्स अवन्नं वदमाणे ।
[टी०] पुरुषक्रियाधिकारादेवापध्वंससूत्रम्, तत्रापध्वंसनमपध्वंस: चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनित आसुरः, येषु वाऽनुष्ठानेषु वर्त्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोग:, सम्मोहभावनाजनित: साम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनित: कान्दोऽपध्वंस: