________________
३८४
अणुसोय त्ति अनुश्रोतसा चरतीत्यनुश्रोतश्चारी नद्यादिप्रवाहगामी, एवमन्ये त्रयः २२, एवं भिक्षाक: साधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमः, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयः, यस्तु क्षेत्रान्तेषु भिक्षते स तृतीय:, क्षेत्रमध्ये चतुर्थः २३ ।
मधुसिक्थं मदनम्, तस्य गोलो वृत्तपिण्डो मधुसिक्थगोल:, एवमन्येऽपि, नवरं जतु लाक्षा, दारु-मृत्तिके प्रसिद्धे इति २४, यथैते गोला मृदु- कठिन - कठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदु-दृढ - दृढतर- दृढतमसत्त्वा भवन्ति ते मधुसिक्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५ ।
अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः क्रमेण गुरु- गुरुतर - गुरुतमाऽत्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्त्युपार्जितकर्म्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृ - मातृ - पुत्र - कलत्रगतस्नेहभारतो वेति २७ । हिरण्यादिगोलेषु क्रमेणाल्पगुण-गुणाधिक-गुणाधिकतर -गुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २९ ।
पत्राणि पर्णानि, तद्वत् प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असि: खड्ग:, स एव पत्रमसिपत्रम्, करपत्रं क्रकचं येन दारु छिद्यते, क्षुर: छुरः, स एव पत्रं क्षुरपत्रम्, कदम्बचीरिकेति शस्त्रविशेष इति ३०, तत्र द्राक् छेदकत्वादसेर्य: पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरुं छिनत्ति स करपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधर्म्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थ: अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्र - मन्द - मन्दतर - मन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१ ।
कम्बादिभिरातान-वितानभावेन निष्पाद्यते यः स कटः, कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र सुंबकडे त्ति तृणविशेषनिष्पन्नः, विदलकडे ति