________________
३८३
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । करण्डको वस्त्राभरणादिस्थानं जनप्रतीत:, श्वपाककरण्डकः चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकोपकरणवर्धादिचर्मांशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्ड कस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककरण्डकः, स च विशिष्टमणि-सुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात् सारतम इति १६, एवमाचार्यो य: षट्प्रज्ञक-गाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथम: अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीय: परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमय-परसमयज्ञ: क्रियादिगुणयुक्तश्च स तृतीय: सारतरत्वात्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्प: स चतुर्थः सारतमत्वात् सुधर्मादिवदिति १७ ।
सालो नामैकः सालाभिधानवृक्षजातियुक्तत्वात्, सालस्यैव पर्याया धर्मा बहलच्छायत्वा-ऽऽसेव्यत्वादयो यस्य स: सालपर्याय इत्येकः, सालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वा-ऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्याय: अबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थ: १८, आचार्यस्तु साल इव सालः, यथा हि साल: जातिमानेवमाचार्योऽपि य: सत्कुल: सद्गुरुकुलश्च स साल एवोच्यते, तथा सालपर्याय: सालधा, यथा हि साल: सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयश:प्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव, एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीय:, एवमितरावपीति १९, तथा सालस्तथैव, साल एव परिवारः परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुल-श्रुतादिभिरुत्तमत्वात्, सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवारः एरण्डकल्पनिर्गुणसाधुपरिकरत्वात्, एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञान:। उक्तचतुर्भङ्ग्या एव भावनार्थं सालदुमेत्यादि गाथाचतुष्कं व्यक्तम्, नवरं मङ्गुलम् असुन्दरम् २१ ।