Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 386
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं, शेषं वृत्तौ । ३६९ [सू० ३३७] चउव्विहे संखाणे पन्नत्ते, तंजहा - पडिकम्मं ववहारे, रज्जू, रासी । [ टी०] अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाहचउव्विहेत्यादि, सङ्ख्यायते गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धम्, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिक -पञ्चराशिकादीति । , [सू० ३३८] अहेलोगे णं चत्तारि अंधगारं करेंति, तंजहा - णरगा, णेरड्या, पावाइं कम्माई, असुभा पोग्गला १। तिरियलोगे णं चत्तारि उज्जतं करेंति, तंजहा - चंदा, सूरा, मणी, जोती २ | उड्डलोगे णं चत्तारि उज्जोतं करेंति, तंजहा- देवा, देवीओ, विमाणा, आभरणा ३। ॥ चउट्ठाणस्स ततिओ उद्देसओ समत्तो ॥ [ टी०] रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोयोतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह - अहे इत्यादि सुगमानि, किन्तु अधोलोके उक्तलक्षणे चत्वारि वस्तूनीति गम्यते, नरका नारकावासाः, नैरयिका नारकाः, एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्म्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः तमिश्रभावेन परिणता इति । मणि त्ति मणयः चन्द्रकान्ताद्याः, जोइ त्ति ज्योतिरग्निरिति । I ॥ चतुः स्थानके तृतीयोद्देशकः समाप्तः ॥

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432