________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
१, परतिगिच्छए नाममेगे ह्व [ = ४] ।
[टी०] विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह- चउव्विहेत्यादि सुगमम्, केवलं वातो निदानमस्येति वातिकः, एवं सर्वत्र, नवरं सन्निपातः संयोगो द्वयोस्त्रयाणां वेति, वातादिस्वरूपं चैतत्–
तत्र रूक्ष १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ श्चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो २ ष्णं ३ लघु ४ विश्रं ५ सरं ६ द्रवम् ७ ॥ फो गुरु १ र्हिमः २ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो द्व्यादिमीलकः ॥ [
]
वातादीनां कार्याणि पुनरिमानि
पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोषाः कर्माणि वायोः प्रवदन्ति तज्ज्ञा : ॥ परिस्रवस्वेदविदाहरागा वैगन्ध्यसङ्क्लेदविपाककोपाः । प्रलापमूर्च्छाभ्रमिपीतभावाः पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः ।
३७३
उत्सेधसम्पातचिरक्रियाश्च कफस्य कर्माणि वदन्ति तज्ज्ञाः ॥ [
] इति ।
अनन्तरं व्याधिरुक्तः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाहचउव्विहेत्यादि कण्ठ्यम्, नवरं चिकित्सा रोगप्रतीकारः, तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि–
भिषग् १ द्रव्याण्यु २ पस्थाता ३ रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्द्दिष्टम्, प्रत्येकं तच्चतुर्गुणम् ॥ दक्षो १ विज्ञातशास्त्रार्थो २ दृष्टकर्म्मा ३ शुचि ४ भिषक् । बहुकल्पं ९ बहुगुणम् २ सम्पन्नं ३ योग्यमौषधम् ४ ॥ अनुरक्तः १ शुचि २ र्दक्षो ३ बुद्धिमान् ४ परिचारकः । आढ्यो १ रोगी भिषग्वश्यो २ ज्ञापकः ३ सत्त्ववानपि ४ ॥ [ इयं द्रव्यरोगचिकित्सा, मोहभावरोगचिकित्सा त्वेवम्, - निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उब्भा । वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं ॥ [ निशीथ० ५७४ ] ति,
] इति ।