Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
३७७ आघवइत्तेति आख्यायकः प्रज्ञापकः प्रवचनस्य एकः कश्चिन्न च प्रविभावयिता प्रभावकः शासनस्य उदारक्रिया-प्रतिभादिरहितत्वात्, प्रविभाजयिता वा प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति । आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापगतः संविग्नः संविग्नपाक्षिको वा, इत्येकः, द्वितीयो यथाच्छन्दः, तृतीयः साधुः, चतुर्थो गृहस्थादिरिति ।
पूर्वसूत्रे साधुलक्षणपुरुषस्याख्यायकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्याद् वृक्षविभूषामाह- चउब्विहेत्यादि, अथवा पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया स्यात्तामाह- चउव्विहेत्यादि पातनयैवोक्तार्थम्, नवरं प्रवालतयेति नवाङ्कुरतयेत्यर्थः । - [सू० ३४५] चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-किरियावादी, अकिरियावादी, अण्णाणियवादी, वेणइयवादी । ___णेरइयाणं चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा-किरियावादी जाव वेणतियवादी, एवमसुरकुमाराण वि जाव थणितकुमाराणं, एवं विगलिंदियवजं जाव वेमाणियाणं ।
[टी०] एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह-चत्तारीत्यादि। वादिनः तीर्थिकाः, समवसरन्ति अवतरन्त्येष्विति समवसरणानि विविधमतमीलकाः, तेषां समवसरणानि वादिसमवसरणानि, क्रियां 'जीवाजीवादिरर्थोऽस्ती'त्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः, तेषां यत् समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः, त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकम्, तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतभेदसङ्ख्या चेयम्
असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ [सूत्र० नि० ११९] इति विस्तरो वृत्तौ ।

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432