Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 378
________________ ३६१ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति । एवं भावोपायः, यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति । तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानाम् अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थं चण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि-काचिद् बृहत्कुमारिका वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता, तत: कदाचित् विवाहिता सती पतिमापृच्छ्य रात्रावारामपतिपार्श्वे गच्छन्ती चौर-राक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोका: ! पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईष्यालुप्रभृतय: पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इति कृत्वा तं बन्धयामासेति, अत्रापि गाथेएमेव चउविगप्पो होइ उवाओ वि तत्थ दव्वम्मि । धाउव्वाओ पढमो णंगलकुलिएहिं खेत्तं तु ॥ कालो वि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए णट्टिय वड्डकुमारिं परिकहिंसु ॥ [दशवै० नि० ६१-६२] इति । ठवणाकम्मे त्ति स्थापनं प्रतिष्ठापनं स्थापना, तस्या: कर्म करणं स्थापनाकर्म, येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत् स्थापनाकर्मेति भावः, तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यम्, तत्र ह्युक्तम्- अस्ति काचित् पुष्करिणी कर्दमप्रचुरजला, तन्मध्यदेशे महत्पुण्डरीकम्, तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषा: सकर्दममार्गः प्रवेष्टमारब्धाः, ते चाकृततदुद्धरणा एव पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एवामोघवचनतया तदुद्धृतवानिति ज्ञातम्,

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432