Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 380
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ३६३ तथा पृच्छा प्रश्नः किं कथं केन कृतमित्यादि, सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहिकिल कोणिकः श्रेणिकराजपुत्र: श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त ! चक्रवर्त्तिनोऽपरित्यक्तकामा मृता: क्वोत्पद्यन्ते?, भगवताऽभिहितम् सप्तमनरकपृथिव्याम्, ततोऽसौ बभाण- अहं क्वोत्पत्स्ये ?, स्वामिनोक्तम्- षष्ठ्याम्, स उवाच- अहं किं न सप्तम्याम् ? स्वामिना जगदे– सप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ– किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे- तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः किरिमालकयक्षेण गुहाद्वारे व्यापादित: षष्ठी गत इति । __तथा निस्सावयणे त्ति निश्रया वचनं निश्रावचनम्, अयमर्थ:-कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनम्, तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनम्, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिद् ब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि- किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं 'चिरसंश्लिष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम ! मा त्वमधतिं कार्षीः' इत्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च पुच्छाए कोणिए खलु निस्सावयणम्मि गोयमस्सामि । [दशवै० नि० ७८] त्ति ॥ व्याख्यातं तद्देशोदाहरणम्, तद्दोषोदाहरणमथ व्याख्यायते, तच्च चतुर्द्धा, तत्र अहम्मजुत्ते त्ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तम्, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्त-चाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानत: सर्वे व्यापादिता इति, आहरणतद्दोषता चास्या

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432