________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३६३ तथा पृच्छा प्रश्नः किं कथं केन कृतमित्यादि, सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहिकिल कोणिकः श्रेणिकराजपुत्र: श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त ! चक्रवर्त्तिनोऽपरित्यक्तकामा मृता: क्वोत्पद्यन्ते?, भगवताऽभिहितम् सप्तमनरकपृथिव्याम्, ततोऽसौ बभाण- अहं क्वोत्पत्स्ये ?, स्वामिनोक्तम्- षष्ठ्याम्, स उवाच- अहं किं न सप्तम्याम् ? स्वामिना जगदे– सप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ– किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे- तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः किरिमालकयक्षेण गुहाद्वारे व्यापादित: षष्ठी गत इति । __तथा निस्सावयणे त्ति निश्रया वचनं निश्रावचनम्, अयमर्थ:-कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनम्, तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनम्, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिद् ब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि- किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं 'चिरसंश्लिष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम ! मा त्वमधतिं कार्षीः' इत्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च
पुच्छाए कोणिए खलु निस्सावयणम्मि गोयमस्सामि । [दशवै० नि० ७८] त्ति ॥ व्याख्यातं तद्देशोदाहरणम्, तद्दोषोदाहरणमथ व्याख्यायते, तच्च चतुर्द्धा, तत्र अहम्मजुत्ते त्ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तम्, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्त-चाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानत: सर्वे व्यापादिता इति, आहरणतद्दोषता चास्या