________________
उपनयश्चायमत्र-कर्दमस्थानीया विषया:, पुण्डरीकं राजादिभव्यपुरुषः, चत्वारः पुरुषा: परतीर्थिकाः, पञ्चमः पुरुषः साधुः, अमोघवचनं धर्मदेशना, पुष्करिणी संसार:, तदुद्धारो निर्वाणमिति।
पडुप्पन्नविणासि त्ति प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गान्धर्विकाख्यानकस्यावगन्तव्येति। ___ अथाहरणतद्देशो व्याख्यायते, स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः सद्गुणोत्कीर्तनेनोपबृंहणम्, सा विधेयेति यत्रोपदिश्यते साऽनुशास्ति:, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाऽऽराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च
आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए ॥ साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंतेववूहेजा ॥ [दशवै० नि० ७३-७४] त्ति । इह च तथाविधवैयावृत्यकरणादिनाप्युपनय: सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनय: कृत इत्याहरणतद्देशतेति।
तथा उपालम्भनम् उपालम्भो भङ्ग्यन्तरेणानुशासनमेव स यत्राभिधीयते स उपालम्भो यथा क्वचिदपराधवृत्तयो विनेया उपालम्भनीया:, यथा महावीरसमवसरणे सविमानागतचन्द्रा-ऽऽदित्योद्द्योतेन कालविभागमजानती मृगावतिसाध्वी स्थिता, तद्गमनेऽति
कालोऽयमिति सम्भ्रान्तार्यचन्दनासमीपे गता, तया चोपालब्धा अयुक्तमिदं भवादृशीनामुत्तमकुलजातानामित्यादि ।