________________
३६१
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति ।
एवं भावोपायः, यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति । तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानाम् अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थं चण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि-काचिद् बृहत्कुमारिका वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता, तत: कदाचित् विवाहिता सती पतिमापृच्छ्य रात्रावारामपतिपार्श्वे गच्छन्ती चौर-राक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोका: ! पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईष्यालुप्रभृतय: पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इति कृत्वा तं बन्धयामासेति, अत्रापि गाथेएमेव चउविगप्पो होइ उवाओ वि तत्थ दव्वम्मि । धाउव्वाओ पढमो णंगलकुलिएहिं खेत्तं तु ॥ कालो वि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए णट्टिय वड्डकुमारिं परिकहिंसु ॥ [दशवै० नि० ६१-६२] इति । ठवणाकम्मे त्ति स्थापनं प्रतिष्ठापनं स्थापना, तस्या: कर्म करणं स्थापनाकर्म, येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत् स्थापनाकर्मेति भावः, तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यम्, तत्र ह्युक्तम्- अस्ति काचित् पुष्करिणी कर्दमप्रचुरजला, तन्मध्यदेशे महत्पुण्डरीकम्, तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषा: सकर्दममार्गः प्रवेष्टमारब्धाः, ते चाकृततदुद्धरणा एव पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एवामोघवचनतया तदुद्धृतवानिति ज्ञातम्,