________________
३६०
दुःखाय ब्रह्मदत्तस्येवेति ।
तथा तस्य आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र - यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयन - नासावर्जितत्वकलङ्कादिनेति ।
तथा तस्यैव आहरणस्य सम्बन्धी साक्षात् प्रसङ्गसम्पन्नो वा दोषस्तद्दोष:, स चासौ धर्मे धर्म्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति ।
तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय य: प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति, यथा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह- आकाशवदेवाऽभोक्तेत्यपि प्राप्तमित्यादि वृत्तौ ।
अवायेति अपायः अनर्थः, स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति ।
तथा उवाए त्ति उपाय:, उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री, स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्द्धेव ।
तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिषूपायः, उपायेनैव वा सुवर्णादौ प्रवर्त्तितव्यम्, तथाविधधातुवादसिद्धादिवदिति । एवं क्षेत्रोपायः क्षेत्रपरिकर्म्मणोपायः, यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा ।
एवं कालोपायः कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव,