________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३५९ तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति ।
[सू० ३३५] चउव्विहे णाते पन्नत्ते, तंजहा-आहरणे, आहरणतद्देसे, आहरणतद्दोसे, उवन्नासोवणते १ ।
आहरणे चउव्विहे पन्नत्ते, तंजहा-अवाते, उवाते, ठवणाकम्मे, पडुप्पन्नविणासी, २ ।
आहरणतद्देसे चउव्विहे पन्नत्ते, तंजहा-अणुसिट्ठी, उवालंभे, पुच्छा, निस्सावयणे ३ । ___ आहरणतद्दोसे चउव्विहे पन्नत्ते, तंजहा-अधम्मजुत्ते, पडिलोमे, अत्तोवणीते, दुरोवणीते ४ ।
उवन्नासोवणए चउव्विहे पन्नत्ते, तंजहा-तव्वत्थुते, तदन्नवत्थुते, पडिणिभे, हेतू ५ । __ [टी०] अनन्तरोक्ता अर्था उक्तवन्निदर्शनत: प्राय: प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री । तत्र ज्ञायते अस्मिन् सति दार्टान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं दृष्टान्त:, साधनसद्भावे साध्यस्यावश्यंभाव: साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणः, [यदाह
साध्येनानुगमो हेतो: साध्याभावे च नास्तिता । ख्याप्यते] यत्र दृष्टान्त: स साधर्म्यतरो द्विधा ॥ [प्रमाणसमु० ४।२] इति ।
अथवा आख्यानकरूपं ज्ञातम्, तच्च चरित-कल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दु:खाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि
जह तुन्भे तह अम्हे तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥ [उत्तरा० नि० ३०७] इति । ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति, तत्र आ अभिविधिना ह्रियते प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणम्, यत्र समुदित एव दार्टान्तिकोऽर्थः उपनीयते यथा पापं