________________
३५८
जिभिंदियत्थे, फासिंदियत्थे ।
चउहिं ठाणेहिं जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तंजहा-गतिअभावेणं, णिरुवग्गहताते, लुक्खताते, लोगाणुभावेणं।
[टी०] चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योन्यं प्रदेशत: समतामाह- चत्तारीत्यादि कण्ठ्यम्, नवरं प्रदेशाग्रेण प्रदेशपरिमाणेनेति तुल्याः समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात् । लोयागासे त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभि: सहाऽतुल्यताप्रसक्तेर्लोकग्रहणम् । एगजीवे त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति ।
पूर्वं पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह - चउण्हमित्यादि कण्ठ्यम्, किन्तु नो पस्सं ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् सुपस्सं ति पाठः, तत्र न सुखदृश्यं न चक्षुःप्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमेवेत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं वा अदृश्यमिति चतुर्णामित्युक्तम्, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति ।
पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाहचत्तारि इंदियेत्यादि स्पष्टम्, किन्तु इन्द्रियैरर्यन्ते अधिगम्यन्त इतीन्द्रियार्थाः शब्दादयः, पुट्ठ त्ति स्पृष्टा: इन्द्रियसम्बद्धा वेएंति त्ति वेद्यन्ते आत्मना ज्ञायन्ते, नयन-मनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च- पुढे सुणेइ सद्दे त्ति वचनात् ।
अनन्तरं जीव-पुद्गलयोरिन्द्रियद्वारेण ग्राहक-ग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म चिन्तयन्नाह- चउहीत्यादि व्यक्तम्, परमन्येषां गतिरेव नास्तीति जीवा य पुग्गला येत्युक्तम्, नो संचाएंति न शक्नुवन्ति, नालम्, बहिय त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायै गमनाय, गन्तुमित्यर्थः । गत्यभावेन लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालम्, कर्मपुद्गलानां