________________
३५७
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । तेयए, कम्मए १। चत्तारि सरीरगा कम्मुम्मीसगा पन्नत्ता, तंजहा-ओरालिए, वेउव्विए, आहारए, तेयए २॥
[टी०] अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं चत्तारीत्यादि व्यक्तम्, किन्तु जीवेन स्पृष्टानि व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, कम्मुम्मीसग त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि, यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः ।
[सू० ३३३] चउहिं अत्थिकाएहिं लोगे फुडे पन्नत्ते, तंजहा-धम्मत्थिकाएणं, अधम्मत्थिकाएणं, जीवत्थिकाएणं, पोग्गलत्थिकाएणं । चउहिं बादरकातेहिं उववजमाणेहिं लोगे फुडे पन्नत्ते, तंजहा-पुढविकाइएहिं आउ[काइएहिं] वाउ[काइएहिं], वणस्सइकाइएहिं ।
[टी०] शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं चउहीत्यादि गतार्थम्, केवलं फुडे त्ति स्पृष्टः प्रतिप्रदेशं व्याप्त:, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्पादात् बादरतैजसानां तु सर्वलोकादुवृत्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या वोत्पद्यमानानां द्वयोरूर्ध्वकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच्च चउहिं बादरकाएहिं इत्युक्तम्, बादरा हि पृथिव्यम्बु-वायु-वनस्पतय: सर्वतो लोकादुवृत्य पृथिव्यादि-घनोदध्यादि-घनवातवलयादि-घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्ख्येयभागमेव स्पृशन्तीति, उक्तं च प्रज्ञापनासूत्रे- एत्थ णं बादरपुढविकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, इत्यादि।
[सू० ३३४] चत्तारि पएसग्गेणं तुल्ला पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए, लोगागासे, एगजीवे । ___ चउण्हमेगं सरीरं नो सुपस्सं भवइ, तंजहा-पुढविकाइयाणं, आउ[काइयाणं] तेऊ[काइयाणं], वणस्सइकाइयाणं ।
चत्तारि इंदियत्था पुट्ठा वेदेति, तंजहा-सोतिंदियत्थे, घाणिंदियत्थे,