________________
३५६
मामुत्तमकुलजातं जना इति लज्जया मनस्येव, न काये रोमहर्ष-कम्पादिभयलिङ्गोपदर्शनात्, सत्त्वं यस्य स ह्रीमनःसत्त्व: । चलम् अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्व: । एतद्विपर्ययात् स्थिरसत्त्व इति।।
स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति तद्दर्शनाय सूत्रचतुष्टयमिदम्- चत्तारि सेज त्ति सुगमम्, नवरं शय्यते यस्यां सा शय्या संस्तारकः, तस्या: प्रतिमा अभिग्रहा: शय्याप्रतिमाः, तत्रोद्दिष्टं फलकादीनामन्यतमत् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतम्रोऽपि कल्पन्त इति ।
वस्त्रप्रतिमा वस्त्रग्रहणविषये प्रतिज्ञा:, कार्पासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी।
पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये १, तथा प्रेक्षितम् २, तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वि-त्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी।
स्थानं कायोत्सर्गाद्यर्थ आश्रयः, तत्र प्रतिमा: स्थानप्रतिमा:, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाऽऽकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चन-प्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चन-प्रसारणमेव नावलम्बन-पादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपि न विधत्ते । ।
[सू० ३३२] चत्तारि सरीरगा जीवफुडा पन्नत्ता, तंजहा-वेउव्विए, आहारए,