________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
पक्षाः पार्श्वा दिशो यस्मिन् तत् सपक्षम्, इहेकार: प्राकृतत्वेन, तथा समाना: प्रतिदिशो विदिशो यस्मिंस्तत् सप्रतिदिक्, तद् यथा भवत्येवं समा भवन्तीति, सदृशा: पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथु - सङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति । समय: कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः । उडुविमानं सौधर्मे प्रथमप्रस्ट एवेति । ईषद् अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः उच्छ्रयादिलक्षणो यस्यां सेषत्प्राग्भारा ।
३५५
[सू० ३३१] उडलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा- पुढविकाइया, आउ [काइया], वणस्सति [काइया], उराला तसा पाणा । अहेलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा एवं चेव । एवं तिरियलोए वि ४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते ।
चत्तारि सेज्जपडिमाओ पन्नत्ताओ १। चत्तारि वत्थपडिमाओ पन्नत्ताओ २ । चत्तारि पातपडिमाओ पन्नत्ताओ ३। चत्तारि ठाणपडिमाओ पन्नत्ताओ ४ | [टी०] ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह - उड्डेत्यादि, शरीरे येषां ते द्विशरीरा:, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् । ओराला तस उदाराः स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात् । तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तं चविगला लभेज्ज विरइं ण हु किंचि लभेज्ज सुहुमतसा [ बृहत्सं० २९७ ] इति । लोकसम्बन्धायाते अधोलोक-तिर्यग्लोकयोरतिदेशसूत्रे गतार्थे इति ।
तिर्यग्लोकाधिकारात् तत्संभवं संयतादिपुरुषं भेदैराह - चत्तारीत्यादि, हिया लज्जया सत्त्वं परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स ह्रीसत्त्वः । तथा हिया हसिष्यन्ति