SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५४ जवादिगुणैः पूर्वं पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्वं पश्चात् खलुङ्को गलिरविनीत इति, अन्यः पूर्वं खलुङ्कः पश्चादाकीर्णो गुणवानिति, चतुर्थः पूर्वं पश्चादपि खलुङ्क एवेति । आकीर्णो गुणवान् आकीर्णतया गुणवत्तया विनय-वेगादिभिरित्यर्थः, I वहति प्रवर्त्तते, विहरतीति पाठान्तरम्, आकीर्णोऽन्यः, आरोहदोषेण खलुङ्कतया गलितया वहति, अन्यस्तु खलुङ्कः आरोहकगुणात् आकीर्णतया वहति, चतुर्थः प्रतीत:, सूत्रद्वयेऽपि पुरुषा दार्ष्टान्तिका योज्याः, सूत्रे तु क्वचिन्त्रोक्ताः, विचित्रत्वात् सूत्रगतेरिति, जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्द्विकसंयोगैर्दशैव प्रकन्थक- दृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति दश दाष्टन्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः पराभिभव इति । [सू० ३२९] चत्तारि पुरिसजाता पन्नत्ता, तंजहा - सीहत्ताते णाममेगे निक्खते सीहत्ताते विहरइ, सीहत्ताते नाममेगे निक्खंते सियालत्ताए विहरइ, सियालत्ताए नाममेगे निक्खंते सीहत्ताए विहरड़, सियालत्ताए नाममेगे निक्खंते सियालत्ताए विहरइ । [ टी०] सिंहतया ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति । शृगालतया दीनवृत्त्येति । [सू० ३३०] चत्तारि लोगे समा पन्नत्ता, तंजहा - अप्पतिट्ठाणे नरए, जंबूदीवे दीवे, पालते जाणविमाणे, सव्वट्टसिद्धे महाविमाणे १ । चत्तारि लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा - सीमंतए नरए, समयक्खेत्ते, उडुविमाणे, ईसीपब्भारा पुढवी २ । [ टी०] पूर्वं पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ता, अधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह— चत्तारीत्यादि सूत्रद्वयं सुगमम्, किन्तु अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां स च योजनलक्षम् । पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानञ्च यानाय वा गमनाय विमानं यानविमानम्, न तु शाश्वतमिति । सर्वार्थसिद्धं विमानं [पञ्चानामनुत्तरविमानानां मध्यममिति] । चत्वारो लोके समा भवन्ति, कथमित्याह - सपक्खिं सपडिदिसिं ति समानाः
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy