________________
३६४
धर्म्मयुक्तत्वात् तथाविधश्रोतुरधर्म्मबुद्धिजनकत्वाच्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति ।
पडिलोमे त्ति प्रतिकूलम्, यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थं तदपहृताभयकुमारश्चकारेति, तद्दोषता चास्य श्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात्, अथवा घुष्टप्रतिवादिना द्वावेव राशी जीवश्चाऽजीवश्चेत्युक्ते तत्प्रतिघातार्थं कश्चिदाह- तृतीयोऽप्यस्ति नोजीवाख्यो गृहकोकिलादिच्छिन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति ।
अत्तोवणीए त्ति आत्मैवोपनीतः तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतम्, तथाहि— कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधानः स्थपतिरवोचत्भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्त:, स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणम्यथा सर्व्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह - अन्यधर्म्मस्थिता हन्तव्या विष्णुनेव दानवा [ इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्म्मान्तरस्थितपुरुषाणामिति,] तद्दोषता तु प्रतीतैवास्येति ।
दुरुवणी त्ति दुष्टमुपनीतं निगमितं योजितमस्मिन्निति दुरुपनीतं परिव्राजकवाक्यवद्, यथा हि किल कश्चित् परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तम्
कन्थाऽऽचार्याऽघना ते ननु शफरिवधे जालमश्नासि मत्स्यान् ?,
ते मे मद्यपदंशाः पिबसि ननु ? युतो वेश्यया, यासि वेश्याम् ? । दत्त्वाऽरीणां गलेsहिं क्व नु तव रिपवो ? येषु सन्धिं छिनद्म,
चौरस्त्वम् ? द्यूतहेतोः कितव इति कथम् ? येन दासीसुतोऽस्मि ॥ [ ] इत्येवं प्रकृतसाध्यानुपयोगि स्वमतदूषणावहं वा यत्तद्दान्तिकेन सह साधर्म्याभावाद्
दुरुपनीतमित्यादि, अत्र गाथाः
पढमं अहम्मत्तं पडिलोमं अत्तणो उवन्नासो । दुरुवणियं च चउत्थं अहम्मजुत्तम्मि नलदामो ॥