________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३६५
पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो ॥ त्ति । अत्तउवन्नासम्मि य तलायभेयम्मि पिंगलो थवई । अणिमिसगेण्हणभिक्खुग दुरुवणीए उदाहरणं ॥ [दशवै० नि० ८१-८३] इति । उक्त आहरणतद्दोषः, अधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव परोपन्यस्तसाधनं वस्त्विति उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकः, अथवा तदेव परोपन्यस्तं वस्तु तद्वस्तु, तदेव तद्वस्तुकम्, तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जल-स्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत- यानि पुनर्मध्ये तेषां का वार्तेति ? एतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयः, ज्ञातत्वं चास्य ज्ञाननिमित्तत्वात्, [इत्यादि] विस्तरो वृत्तौ ।
तथा तयन्नवत्थुए त्ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहिन जल-स्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, न च तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति ।
तथा पडिनिभे त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभः, यथा कोऽपि प्रतिजानीने यदुत यो मामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदं करोटकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्