________________
३६६
तुझ पिया मज्झ पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देहि ॥ [ दशवै० नि० ८६ ] इति ।
प्रतिनिभता चास्य सर्वस्मिन्नप्युक्ते 'श्रुतपूर्वमेवेदं मम' इत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय ‘तव पिता मम पितुर्द्धारयति लक्षम्' इत्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति ।
तथा हेउ त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तः - अहो किं यवाः क्रीयन्ते त्वया ?, स त्वाह- येन मुधैव न लभ्यन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ?, यस्मादकृततपसां नरकादी गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति । इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः, अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति ।
[सू०३३६] हेऊ चउव्विहे पन्नत्ते, तंजहा -जावते, थावते, वंसते, लूसते
१।
अहवा हेऊ चउव्विहे पन्नत्ते, तंजहा - पच्चक्खे, अणुमाणे, ओवम्मे, आगमे २
अहवा हेऊ चउव्विहे पन्नत्ते, तंजहा - अत्थि तं अत्थि सो हेऊ, अस्थि तं णत्थि सो हेऊ, णत्थि तं अत्थि सो हेऊ, णत्थि तं णत्थि सो हेऊ ३ ।
[टी०] अथ ज्ञातानन्तरं ज्ञातवद्धेतोः साध्यसिद्ध्यङ्गत्वात् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाह, व्यक्तं चैतत्, नवरं हिनोति गमयति ज्ञेयमिति हेतुः अन्यथाऽनुपपत्तिलक्षणः, उक्तं च
अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितम् ।
तदप्रसिद्धि-सन्देह-विपर्यासैस्तदाभता । [ न्याया० २२] इति ।
प्रागुक्तश्च हेतु: पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रम्, अयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाच्चतुर्द्धा, तत्र जावए