________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३६७ त्ति यापयति वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायां कालयापनां कृतवतीति यापकः, ___ इह वृद्धैर्व्याख्यातम्– प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति विस्तरो वृत्तौ। ___ तथा थावए त्ति स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तं चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापको हेतुः, ___तथा वंसए त्ति व्यंसयति परं व्यामोहयति शकटतित्तिरीग्राहकधूर्त्तवद् यः स व्यंसक इति, तथाहि- कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा शकटतित्तिरी कथं लभ्यते ?, स च किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत् तर्पणालोडिकयेति सक्त्वालोडनेन, जलाद्यालोडितसक्तुभिरित्यर्थः, ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकटं जग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति दत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति।। ___ तथा लूसए त्ति लूषयति मुष्णाति व्यसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिकः, यथा धूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्तः- तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या देह्यस्मै सक्तूनालोड्येति, तां च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि मदीयेयम्, तर्पणमिति सक्तूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति ।
अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति गमयति प्रमेयमर्थं स वा हीयते अधिगम्यते अनेनेति हेतुः, प्रमेयस्य प्रमितौ कारणम्, प्रमाणमित्यर्थः, चतुर्विधः स्वरूपादिभेदात्, तत्र पच्चक्खे त्ति अश्नाति अश्नुते व्याप्नोत्यानित्यक्षः आत्मा, तं