________________
३६८
प्रति यद्वर्त्तते ज्ञानं तत् प्रत्यक्षं निश्चयतोऽवधि-मनःपर्याय-केवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत् प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य
अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ [न्याया० ४] ग्रहणापेक्षयेति भावः ।
अणुमाणे त्ति अन्विति लिङ्गदर्शन-सम्बन्धानुस्मरणयोः पश्चान्मानं ज्ञानमनुमानम्, एतल्लक्षणमिदम्साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवद् ॥ [न्याया० ५] इति, तथा उपमानमुपमा, सैवौपम्यम्, अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तं च
गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥ तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्त्तत्ते । पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥ [ ] इति,
आगमे त्ति आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तं च
दृष्टेष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥
आप्तोपज्ञमनुल्लयमदृष्टेष्टविरोधकम् ।। तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ॥ [न्याया० ८-९] इति ।
अथवे त्ति इहाऽन्यथानुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति विद्यते तदिति लिङ्गभूतं धूमादिवस्तु इति कृत्वा, अस्ति स: अग्न्यादिकः साध्योऽर्थ इत्येवं हेतुरिति अनुमानम् । तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । तथा नास्ति तद् वृक्षत्वादिकमिति नास्ति शिशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति,