Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 382
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ३६५ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो ॥ त्ति । अत्तउवन्नासम्मि य तलायभेयम्मि पिंगलो थवई । अणिमिसगेण्हणभिक्खुग दुरुवणीए उदाहरणं ॥ [दशवै० नि० ८१-८३] इति । उक्त आहरणतद्दोषः, अधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव परोपन्यस्तसाधनं वस्त्विति उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकः, अथवा तदेव परोपन्यस्तं वस्तु तद्वस्तु, तदेव तद्वस्तुकम्, तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जल-स्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत- यानि पुनर्मध्ये तेषां का वार्तेति ? एतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयः, ज्ञातत्वं चास्य ज्ञाननिमित्तत्वात्, [इत्यादि] विस्तरो वृत्तौ । तथा तयन्नवत्थुए त्ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहिन जल-स्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, न च तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति । तथा पडिनिभे त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभः, यथा कोऽपि प्रतिजानीने यदुत यो मामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदं करोटकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432