Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 354
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ३३७ वियोजयिता मोक्ता, अन्यस्तु वियोजयिता न प्रयोजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योक्त्रयन्तं प्रयुक्ते य: स योक्त्रापयिता, वियोक्त्रयत: प्रयोक्ता तु वियोकत्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्तयितेति, यानसूत्रवत् हय-गजसूत्राणीति । जुग्गारिय त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः, क्वचित्तु जुग्गायरिय त्ति पाठ:, तत्रापि युग्याचर्येति । पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात् तच्चर्याया एवोद्देशोक्तं चातुर्विध्यमवसेयमिति । भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधुरेव पथियाय्यप्रमत्तः, उत्पथयायी लिङ्गावशेषः, उभययायी प्रमत्तः, चतुर्थ: सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात् । अथवा पथ्युत्पथयो: स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमय-परसमयबोधापेक्षयेयं चतुर्भङ्गी नेयेति । ___ एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत्, द्वितीयं बकुलस्येव, तृतीयं जातेरिव, चतुर्थं बदर्यादेरिवेति । पुरुषो रूपसम्पन्नो रूपवान् सुविहितरूपयुक्तो वेति जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिका: कार्याः सुगमाश्चेति । आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरम्, मुद्दिय त्ति मृद्वीका द्राक्षा तद्वत् सैव वा मधुरं मृद्वीकामधुरम्, क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्-बहु-बहुतर-बहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहु-बहुतर-बहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति । ___ आत्मवैयावृत्यकरोऽलसो विसम्भोगिको वा, परवैयावृत्यकरः स्वार्थनिरपेक्ष:, स्व-परवैयावृत्यकर: स्थविरकल्पिक: कोऽपि, उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति। करोत्येवैको वैयावृत्यं नि:स्पृहत्वात् १, प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २, अन्य: करोति प्रतीच्छति च स्थविरविशेष: ३, उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432