________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३३७ वियोजयिता मोक्ता, अन्यस्तु वियोजयिता न प्रयोजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योक्त्रयन्तं प्रयुक्ते य: स योक्त्रापयिता, वियोक्त्रयत: प्रयोक्ता तु वियोकत्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्तयितेति, यानसूत्रवत् हय-गजसूत्राणीति ।
जुग्गारिय त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः, क्वचित्तु जुग्गायरिय त्ति पाठ:, तत्रापि युग्याचर्येति । पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्तत्वात् तच्चर्याया एवोद्देशोक्तं चातुर्विध्यमवसेयमिति । भावयुग्यपक्षे तु युग्यमिव युग्यं संयमयोगभरवोढा साधुरेव पथियाय्यप्रमत्तः, उत्पथयायी लिङ्गावशेषः, उभययायी प्रमत्तः, चतुर्थ: सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात् । अथवा पथ्युत्पथयो: स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमय-परसमयबोधापेक्षयेयं चतुर्भङ्गी नेयेति । ___ एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत्, द्वितीयं बकुलस्येव, तृतीयं जातेरिव, चतुर्थं बदर्यादेरिवेति । पुरुषो रूपसम्पन्नो रूपवान् सुविहितरूपयुक्तो वेति जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिका: कार्याः सुगमाश्चेति ।
आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरम्, मुद्दिय त्ति मृद्वीका द्राक्षा तद्वत् सैव वा मधुरं मृद्वीकामधुरम्, क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्-बहु-बहुतर-बहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहु-बहुतर-बहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति । ___ आत्मवैयावृत्यकरोऽलसो विसम्भोगिको वा, परवैयावृत्यकरः स्वार्थनिरपेक्ष:, स्व-परवैयावृत्यकर: स्थविरकल्पिक: कोऽपि, उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति। करोत्येवैको वैयावृत्यं नि:स्पृहत्वात् १, प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २, अन्य: करोति प्रतीच्छति च स्थविरविशेष: ३, उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४।