________________
३३८
अट्ठकरे त्ति अर्थान् हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशत: करोतीत्यर्थकरः मन्त्री नैमित्तिको वा, स चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा
पुट्ठापुट्ठो पढमो [व्यवहारभा० ४५६८] इत्यादि । गण त्ति गणस्य साधुसमुदायस्याऽर्थान् प्रयोजनादीनि करोतीति गणार्थकरः आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात्, एवं त्रयोऽन्ये, उक्तं च
आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ । बीओ न जाइ माणं दोन्नि वि तइओ न उ चउत्थो ॥ [व्यवहारभा० ४५७०] इति । अथवा- नो माणकरो त्ति गच्छार्थकरोऽहमिति न माद्यतीति ।
अनन्तरं गणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह– गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, [गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादि-धर्मकथि-नैमित्तिक-विद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरः, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा।]
गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथम:, यस्तु मानान्न गच्छति स द्वितीय:, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति ।। ___ रूपं साधुनेपथ्यं जहाति त्यजति कारणवशात् न धर्मं चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्मं न रूपं निह्नववत्, उभयमपि उत्प्रव्रजितवत्, नोभयं सुसाधुवत् ।
धर्मं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादाम्, इह कैश्चिदाचार्य: तीर्थकरानुपदेशेन संस्थिति: कृता यथा-नास्माभिर्महाकल्पाद्यतिशय-श्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाति स धर्मं त्यजति न गणस्थितिम्, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवम्-सर्वेभ्यो योग्येभ्य: श्रुतं दातव्यमिति प्रथमः,