________________
३३६ पियधम्मे नो दढधम्मे ।
[टी०] अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि सुगमानि च, नवरम् असुरादीनां चतम्रो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवानाम्, मनुष्य-पञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्-वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतस्र इति । उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह- चत्तारीत्यादि, कण्ठ्यश्चायम्, नवरं यानं शकटादि, तद् युक्तं बलीवदिभिः, पुनर्युक्तं सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकम्, अन्यत् युक्तं तथैवाऽयुक्तं तूक्तविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः, पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धन-धर्मानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथम: साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि । नवरं युक्तं गोभिः, युक्तपरिणतं तु अयुक्तं सत् सामग्र्या युक्ततया परिणतमिति, पुरुष: पूर्ववत्। युक्तरूपं सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति । पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूप: उचितवेष: सुविहितनेपथ्यो वेति । तथा युक्तं तथैव, युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता उचिता शोभा यस्य स तथेति ।
युग्यं वाहनमश्वादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद् युक्तमारोहणसामग्र्या पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह– एवं जहेत्यादि, प्रतिपक्षो दार्टान्तिकस्तथैव, कोऽसावित्याह- पुरिसजाय त्ति पुरुषजातानि, एवं परिणत-रूप-शोभसूत्रचतुर्भङ्गिका: सप्रतिपक्षा वाच्या:, यावच्छोभसूत्रचतुर्भङ्गी यथा ‘अजुत्ते नामं एगे अजुत्तसोभे', एतदेवाह- जाव सोभे त्ति सारथि सूत्रं, यथा सारथिः शाकटिकः, योजयिता शकटे गवादीनाम्, न