Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 372
________________ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । पक्षाः पार्श्वा दिशो यस्मिन् तत् सपक्षम्, इहेकार: प्राकृतत्वेन, तथा समाना: प्रतिदिशो विदिशो यस्मिंस्तत् सप्रतिदिक्, तद् यथा भवत्येवं समा भवन्तीति, सदृशा: पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथु - सङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति । समय: कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः । उडुविमानं सौधर्मे प्रथमप्रस्ट एवेति । ईषद् अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः उच्छ्रयादिलक्षणो यस्यां सेषत्प्राग्भारा । ३५५ [सू० ३३१] उडलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा- पुढविकाइया, आउ [काइया], वणस्सति [काइया], उराला तसा पाणा । अहेलोगे णं चत्तारि बिसरीरा पन्नत्ता, तंजहा एवं चेव । एवं तिरियलोए वि ४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते । चत्तारि सेज्जपडिमाओ पन्नत्ताओ १। चत्तारि वत्थपडिमाओ पन्नत्ताओ २ । चत्तारि पातपडिमाओ पन्नत्ताओ ३। चत्तारि ठाणपडिमाओ पन्नत्ताओ ४ | [टी०] ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह - उड्डेत्यादि, शरीरे येषां ते द्विशरीरा:, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् । ओराला तस उदाराः स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात् । तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तं चविगला लभेज्ज विरइं ण हु किंचि लभेज्ज सुहुमतसा [ बृहत्सं० २९७ ] इति । लोकसम्बन्धायाते अधोलोक-तिर्यग्लोकयोरतिदेशसूत्रे गतार्थे इति । तिर्यग्लोकाधिकारात् तत्संभवं संयतादिपुरुषं भेदैराह - चत्तारीत्यादि, हिया लज्जया सत्त्वं परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स ह्रीसत्त्वः । तथा हिया हसिष्यन्ति

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432