Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३३० परिभोगव्रतलक्षणे, विरमणानि अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि नमस्कारसहितादीनि, पोषधः पर्वदिनमष्टम्यादि, तत्रोपवसनम् अभक्तार्थः पोषधोपवास:, एतेषां द्वन्द्वस्तान् प्रतिपद्यते अभ्युपगच्छति तत्रापि च से तस्यैक आश्वास: प्रज्ञप्त: १, यत्रापि च सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे दिग्वतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशः अवस्थानमवतारो विषयो यस्य तद्देशावकाशम्, तदेव देशावकाशिकं दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सक्षेपकरणलक्षणं सर्वव्रतसक्षेपकरणलक्षणं वा अनुपालयति प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वास: प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या, परिपूर्णमिति अहोरात्रं यावत् आहार-शरीरसत्कारत्याग-ब्रह्मचर्याऽव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीर-कषायादीति संलेखना तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना, तस्याः झूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया झूसिय त्ति जुष्टः सेवितः, अथवा क्षपितः क्षपितदेहो यः स तथा, तथा भक्त-पाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं मरणकालम् अनवकाङ्कन् तत्रानुत्सुक इत्यर्थः, विहरति तिष्ठति ।
उदितश्चासौ उन्नतकुल-बल-समृद्धि-निरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धम् १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाच्चेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, स हि पूर्ध्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितः अतथाविधकारण-कुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्ति

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432