SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३० परिभोगव्रतलक्षणे, विरमणानि अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि नमस्कारसहितादीनि, पोषधः पर्वदिनमष्टम्यादि, तत्रोपवसनम् अभक्तार्थः पोषधोपवास:, एतेषां द्वन्द्वस्तान् प्रतिपद्यते अभ्युपगच्छति तत्रापि च से तस्यैक आश्वास: प्रज्ञप्त: १, यत्रापि च सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे दिग्वतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशः अवस्थानमवतारो विषयो यस्य तद्देशावकाशम्, तदेव देशावकाशिकं दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सक्षेपकरणलक्षणं सर्वव्रतसक्षेपकरणलक्षणं वा अनुपालयति प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वास: प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या, परिपूर्णमिति अहोरात्रं यावत् आहार-शरीरसत्कारत्याग-ब्रह्मचर्याऽव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीर-कषायादीति संलेखना तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना, तस्याः झूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया झूसिय त्ति जुष्टः सेवितः, अथवा क्षपितः क्षपितदेहो यः स तथा, तथा भक्त-पाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं मरणकालम् अनवकाङ्कन् तत्रानुत्सुक इत्यर्थः, विहरति तिष्ठति । उदितश्चासौ उन्नतकुल-बल-समृद्धि-निरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धम् १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाच्चेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, स हि पूर्ध्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितः अतथाविधकारण-कुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्ति
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy