________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३३१ दुर्भगत्व-दुर्गतत्वादिना उदितश्च समृद्धि-कीर्ति-सुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्त-नीचेर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डालकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्प्रकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति ३, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्ति-समृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ।। भरहेत्यादि तु उदाहरणसूत्रं भावितार्थ-मेवेति ।
[सू० ३१६] चत्तारि जुम्मा पन्नत्ता, तंजहा-कडजुम्मे, तेयोए, दावरजुम्मे, कलिओए । नेरतिताणं चत्तारि जुम्मा पन्नत्ता, तंजहा-कडजुम्मे तेओए दावरजुम्मे, कलितोए । एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आ[काइयाणं] तेउकाइयाणं] वाउ[काइयाणं] वणस्सति[काइयाणं] बेंदिताणं तेंदियाणं चउरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जधा नेरतिताणं ।
[टी०] य एवं विचित्रभावैश्चिन्त्यन्ते जीवाः सर्व एव चतुर्पु राशिष्ववतरन्तीति तान् दर्शयन्नाह– चत्तारि जुम्मेत्यादि, जुम्म त्ति राशिविशेषः, यो हि राशिश्चतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स त्र्योजः, द्विपर्यवसितो द्वापरयुग्मः, एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयं च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते
द्वात्रिंशत् सहस्राणि कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥ [ ] इति । उक्तराशीन्नारकादिषु निरूपयन्नाह– नेरइएत्यादि सुगमम्, नवरं नारकादयश्चतुर्द्धाऽपि