________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परार्थप्रधानत्वान्नात्मनः, अपर उभयस्याप्युभयार्थप्रधानत्वाद्, इतरो नोभयस्याप्युभयार्थशून्यत्वादिति । आत्मनः प्रत्ययं प्रतीतिं करोति न परस्येत्याद्यपि व्याख्येयमिति ।
पत्तियं पवेसेमि त्ति प्रीतिकं प्रत्ययं वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् ।
पत्राणि पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुषाणां लोकोत्तराणां लौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २, अर्थदानादिना महोपकारकत्वात् ३, अनुवर्त्तना - ऽपायसंरक्षणादिना सततोपसेव्यत्वाच्च ४ क्रमेण द्रष्टव्येति ।
३२९
भारं धान्यमुक्तोल्यादिकं वहमानस्य देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद् एकस्मात् स्कन्धादंसमिति स्कन्धान्तरं संहरति नयति भारमिति प्रक्रमः तत्रावसरे, अपिचेति उत्तराश्वासापेक्षया समुच्चये, से तस्य वोढुरिति १, परिष्ठापयति व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणम्, अतोऽन्यत्र वाऽऽयतने वासमुपैतीति रात्रौ वसति ३, यावती यत्परिमाणा कथा मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा, तया, यावज्जीवमित्यर्थः, तिष्ठति वसति इत्ययं दृष्टान्तः ४ । एवमेवेत्यादि दाष्टन्तिकः, श्रमणान् साधूनुपास्ते इति श्रमणोपासकः श्रावकस्तस्य सावद्यव्यापारभाराक्रान्तस्य आश्वासाः तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि स्वास्थ्यानि 'इदं मे परलोकभीतस्य त्राणम्' इत्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भ-परिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति ।
यत्रावसरे शीलानि समाधानविशेषाः ब्रह्मचर्यविशेषा वा, व्रतानि स्थूलप्राणातिपातविरमणादीनि, अन्यत्र तु शीलानि अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि, तदिह न व्याख्यातम्, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते दिव्रतोपभोग