________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
२९९ कारणवशाद् दक्षिणावर्त्तः अनुकूलप्रवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया, कारणवशात् वामावर्त्तः अननुकूलवृत्तिरिति, एवं चतुर्थोऽपीति ९, धूमशिखा वामा वामपार्श्ववृत्तितया अननुकूलस्वभावतया वा वामत एवावर्त्तते या तथा वलनात् सा वामावर्ता १०, स्त्री पुरुषवद् व्याख्येया ११, कम्बुदृष्टान्ते सत्यपि धूमशिखादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति । एवमग्निशिखापि १२-१३। वातमण्डलिका मण्डलेनोर्ध्वप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति, उक्तं च
चवला मइलणशीला सिणेहपरिपूरिया वि तावेइ । दीवयसिह व्व महिला लद्धप्पसरा भयं देइ ॥ [ ] इति, १४-१५।
वनखण्डस्तु शिखावत्, नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ।
[सू० २९०] चउहिं ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति, तंजहा-पंथं पुच्छमाणे वा १, पंथं देसमाणे वा २, असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा ३, दवावेमाणे वा ४।
[टी०] अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह– चउहीत्यादि स्फुटम्, किन्त्वालपन् ईषत् प्रथमतया वा जल्पन् संलपन् मिथो भाषणेन नातिक्रामति न लङ्घयति निर्ग्रन्थाचारम, एगो एगित्थिए सद्धिं नेव चिट्टे न संलवे [उत्तरा० १।२६] विशेषत: साध्व्या, इत्येवंरूपम्, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति । तत्र मार्ग पृच्छन्, प्रश्ननीयसाधर्मिकगृहस्थपुरुषादीनामभावे- हे आर्ये ! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण, मार्ग वा तस्या देशयन्- धर्मशीले ! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्- धर्मशीले ! गृहाणेदमशनादीत्येवम्, तथा अशनादि दापयन्आर्ये! दापयाम्येतत्तुभ्यम् आगच्छेह गृहादावित्यादिविधिनेति । [सू० २९१] तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा-तमे ति