Book Title: Shripal Charitram Sanskrit Kavyam Author(s): Gyanvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ वर्णवस्सर्वदा ध्येयाः, शमयतव्य ज्ञान सर्वगुणावचारित्र गावेऽन्नीकर्तव्यं तमक वि दिहाशेषसुनवरभापितधमें रहसन्तपद्विधभेदं भन्या । तच्चारित्रं गात्रेऽक्षा जीवाजीवपदार्थमानरूपम् । चेतोभवन ॥३॥ पश्चाचारपवित्रा, विशुद्धसिद्धान्तदेशनोयुक्ताः। जगदुपकारप्रवणाः, ध्येया हरिताः सदाचार्याः ॥ ४॥ सद्वादशाङ्गपाठनपठनपरा नीलवर्णरम्यतराः । सद्ध्यानलीनमनसश्चोपाध्यायाः सदा ध्येयाः ॥ ५ ॥ शान्ता दान्ता निरारम्भा, ये स्थिताः कर्मभूमिषु । साधवस्सर्वदा ध्येयाः, श्यामा विगतकल्मषाः ॥ ६॥ सर्वज्ञभाषितागमप्रकटिततत्त्वार्थवासनारूपम् । चेतोभवने सततं दर्शनरत्नं वरं स्थाप्यम् ॥ ७॥ शिक्षयितव्यं ज्ञानं सर्वगुणाधाररत्ननिधिरूपम् । जीवाजीवपदार्थप्रकाशतत्त्वावबोधज्ञम् ॥ ८ ॥ त्यागोऽशुभक्रियायाः शुभक्रियायां च योऽप्रमादः स्यात् । तच्चारित्रं गात्रेऽङ्गीकर्त्तव्यं महोदयदम् ॥९॥ घनकर्ममर्मतिमिरप्रहरणभानुमभं शमोपेतम् । बाह्याभ्यन्तरषड्विधभेदं भव्यास्तपस्तपत ॥ १० ॥ एतन्नवकं विधिनाऽऽराधयितव्यं सदा शिवार्थिजनैः । जिनवरभाषितधम् रहस्यमूलं सदा शक्त्या ॥११॥ अस्य श्रीसिद्धचक्रमित्याख्यातं जिनागमे नाम । श्रीपालभूपवदिहाशेषसुखं प्राप्नुयात्तूर्णम् ॥ १२ ॥ इत्यादि देशनां श्रुत्वा मगधेशः पृच्छति-स्वामिन् ! कोऽसौ श्रीपालो ? यस्याख्यानं व्याख्यातं, तन्निशम्य गौतमो भगवान पाह-शृणु निदर्शनं सुन्दरं परमाश्चर्यकरं, तद्यथा-इहैव भरतक्षेत्रे दक्षिणार्द्धमध्यखण्डे सर्द्धिकृतनिवासो विहितदुष्कालाद्युपद्रवप्रवासो, मालवो नाम देशोऽस्ति-स च कीदृग् ? पदे पदे यत्र सुगुप्तिगुप्ता, योगप्रवेशा इव सन्निवेशाः । पदे पदे यत्र सहम्हिनीका, भूपालगेहा इव तुझशैलाः॥१॥ पदे पदे यत्र रसाकुलाच, वहन्ति वेश्या इव निर्झरिण्यः । पदे पदे यत्र खगबजाट्या, वैताढ्यभूमीव सुकाननालिः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 96