Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपाल
न
नमस्कार प्रभावेन क्षेत्रपालाद्य गमनम्
॥२०॥
दिपालेभ्यो बलिदत्ता, तं दृष्ट्वा भयभीतो धवलो मदनापृष्ठस्थितो भणति, रक्षत ! शरणागतं वराकं मां स्वसेवक, तदा जल्पति
चक्रेश्वरी-रे धृष्ट ! दुष्ट ! पापिष्ट ? अनिष्टकृत ! मुक्तोऽसि जीवन् एतयोः शरणगमनात्, द्वे अपि विस्मृतमानसे मदने विनयप्रणते | देवीपदयोः, तदा भणिता ते, सप्रसादमेतादृशं वाक्यं भो वत्से ? त्वद्वल्लभो गुरुऋद्धिसमेतो मासान्तरे निश्चयेन मिलिष्यति मा खेदं कुरुत इति ते समाश्वास्य तत्कण्ठे सर्वतुककुसुमसजमारोप्य कण्ठे समालिङ्गय चुम्बित्वा मस्तके च गता स्वस्थानं चक्रेश्वरी परमेश्वरी । यदुक्तं चरित्रे
“एम भणेवि णु चक्कहरि, परिमल गुणह विसाल । मयणकंठहिँ पेक्खवइ, सुरतरु कुसुमह माल ॥ १ ॥ तुमहिं दुह न देपास, मालहतणे प्रमाण । एम भणेवि णु चक्कहरि देवी गई नियठाण ॥२॥
जल्पन्ति ते त्रयोपि सत्पुरुषाः सकलबुद्धिनिपुणा धीरा धवलं प्रति, दृष्टं ! प्रत्यक्षेण दुर्बुद्धिदायकविपाककिंपाकतरोः फलं? एतत् सतीशरणप्रभावाद् यदि च्छुटितोऽसि, यदि पुनरेवं चिन्तयसि तदाऽनर्थफलं लप्स्यसे इति शिक्षितः,आर्या-यः पररमणीरमणैकलालसो भवति कुग्रहग्रस्तः । यदि सोऽपि पुरुषरूपस्तति श्वानः खराश्चान्ये ॥ १ ॥ ये पररमणीरूपालोकनमात्रेण स्खलितशीलधना | नन्त्यत्र परत्र सुयशः, सौख्यं धिग् जीवितं तेषां ॥ २॥ यतः,परदारे परकाव्ये, यः स्वीकारं करोति मन्दमतिः । ज्ञेयो लङ्कापुरुषः स्यादेव स मस्तकविहीनः ॥ ३ ॥ इत्यादि शिक्षा दत्वा सौख्यन स्थिता गमयन्ति दिवसाँस्ते सुबुद्धिपुरुषाः।
जलधौ वहमानानां प्रवहणानां कतिपयदिना जाताः । ततः पुनरपि धवलश्चिन्तयति हृदये- अद्याप्यऽस्ति
6॥२०॥
Jain Educational
For Private Personal use only
dinelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96