Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 58
________________ त्रैलोक्य सुन्दरी स्वयंवरः ॥२५॥ म्भीर्यगुणा नरेश!॥२॥ अथ तदनुरूपगुणगणकलितललितवरमलभमानेन तज्जनकेन प्रारब्धोऽस्ति विशालस्थलमुक्ताफलमणिकाञ्चन | श्रीपाल निम्मितस्तम्भस्थितशालभञ्जिकावलोकनक्षुभितजननिकरः प्रवरः स्वयंवरणमण्डपः, तत्र चतुष्पार्थेषु कौतूहलपरिकलिता स्वर्गिविमाना dचरित्रम् वलिरिव मञ्चश्रेणिविरचिता, तत्संनिधाने च निमन्त्रितराजन्यगौरवकृते तृणधान्यादयस्तथा राशीकृता यथा गिरय इव संलक्ष्यन्ते, आषाढशुक्ल द्वितीयादिने तस्याः पाणिग्रहणमहोत्सवोऽस्ति, स द्वितीयादिवसोऽपि प्रत्यूष भविष्यति, अतस्त्रिंशद्योजनानामन्तरं तस्य नगरस्य, तद्योग्यं नररत्नं च त्वमेवासि, तत्कथं विधेयापारः सफलो भविष्यति? इत्याश्चर्य, अतः स्वस्त्यस्तु भवते । इति पान्थवचो निशम्य हृष्टचित्तस्तस्मै स्वतुरङ्गं काञ्चनाभरणग्रैवेयकं च पारितोषिकं दत्त्वा विसृष्टः, स्वयमपि निजावासे समागतः, चिन्तयति । पश्चिमनिशायां-तत्र गत्वा पश्यामि स्वयंवरमण्डपमिति विचार्य दिव्यहारप्रभावेण कुब्जरूपं विधाय गतस्तन्नगरं, प्राप्तः स्वयंवरमण्डपं, तत्र प्रविशन्नपि दौवारिकेण कुरूप इतिकृत्वा रुद्धस्तस्यानयमाभरणग्रैवेयकादिकं दत्तं, तुष्टो दौवारिको, धीरललितः कोऽप्यं दृश्यते इत्युक्त्वा प्रवेशितः प्राप्तो मूलमण्डपं स्तम्भस्थितपञ्चालिकापाचे सुखेन तस्थौ कृतकृत्रिमरूपः कुब्जः, अथ तं उच्चपृष्ठिदेशं चिपिटनासं सङ्कचितोदरं खरदन्तुरं कपिलचिकुरं प्रलम्बो_मिलिताधरोष्ठगलल्लालवदनं पिङ्गलनयनं विलोक्य वदन्ति लोकाः-भो रूपपाश ! किमर्थमिहागमनं ?, स वक्ति-यः सर्वेषामर्थः स ममापि, ततः करतालिकाप्रदानपूर्वकं हसित्वा वदन्ति सर्वेऽपिएतादृशो यदि राजकन्यां न वरिष्यन्ते तदा सा सुभगा कथं भविष्यतीति ? इति यावता वार्तयन्ति तावता अनेकच्छे कविवेकिनरोद्वाह्यशिविकारूढा अच्छोदाच्छक्षीरोदकवसनं वसाना विमलमुक्ताभरणा करकलितललितविमलमाला सा वाला मूलमण्डपे समागता नैसर्गिकस्वर्गिसुन्दरं कुमारं विलोकयति, तं दृष्ट्वा चिन्तयति चित्ते " धन्या कृतपुण्याऽई, शिष्टं दिष्टं ममाद्य सञ्जातं । ईप्सितजलधि ॥२५॥ inelibrary.org in Eduaan For Private Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96