Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपालकृ.
।
श्रीपाल
नवपद स्तुति:
॥४०॥
॥ ५९ ॥ भक्ष्याऽभक्ष्यं तथा, पेयापेयं चाकृत्यकृत्ययोः । गम्यागम्यं तथा ज्ञेयहेयोपादेयतादिकम् ॥६०॥ यद्विना ज्ञायते नैव सर्व सर्वज्ञशासनम् । ज्ञानादनु अहिंसाद्याचरणं ज्ञानमुच्यते ॥ ६१ ॥ क्रियामूलं हि श्रद्धानं, ज्ञानमास्तिक्यकारणम् । अर्हदादिपदाः पूज्या, ज्ञानेनैवान्यथा युगे ॥६२ ॥ अनभिनिवेशोऽवितथपवादनं तथ्यदर्शनं गुणतः । अश्रान्तिरक्षयत्वं ज्ञानस्य ते गुणाः पञ्च ॥ ६३ ॥ स्वपरप्रकाशकं यद्दीपकल्पं हि कथ्यते । भुवनोपकृतिकृत् ज्ञानं, यथा चन्द्रार्कतोयदाः ॥ ६४ ॥ मतिश्रुताऽवधिज्ञानमनःपर्यायकेवलम् । पञ्चधा मूलतः प्रोक्तपेकपञ्चाशदुत्तरम् ॥ ६५ ॥ स्यादष्टाविंशतिचतुर्दशषट्कद्वयैककम् । भेदं मत्यादिकं ज्ञेयं, साध्यं तद्विनयेन हि ॥ ६६ ॥ अन्त्यं ज्ञानत्रयं लोके, वचोभिरुपकर्तृकम् । मतिश्रुतं तु सर्वेषां, कुरुते हितमन्वहम् ॥६७॥ द्वादशाङ्गमयं वर्णरूपं श्रुतमिहोदितम् । दुष्षमायामपि पुनः, कल्पद्रुवदभीष्टदम् ॥ ६८॥ वर्णनीयोदिताः पूज्याः , प्रष्टव्या दक्षसाक्षिणः । यत्प्रसादाजिनास्तुल्ये, नृत्वेऽवि सम्भवन्त्यमी ॥ ६९ ॥ यत्प्रसादादिमे लोकविचारा जिनभाषिताः । साक्षादिव विलोक्यन्ते, धर्मकर्मक्रियाञ्जनैः ॥७०॥ रिक्तीकरोत्यष्टकापचयं यनिरुक्तितः । चारित्रं तन्जिनैः प्रोक्तं, ज्ञानदर्शनसंयुतम् ॥ ७१ ॥ विनियोगस्तथा ऋद्धिः, सिद्धिः पुष्टिश्च सर्वतः । क्षयश्चाविरतेरेवं, चारित्रस्य गुणा अमी ॥ ७२ ॥ द्विभेदं सर्वसावधविरतियतिनां तथा । सामायिकादिभेदेन, स्याजन्माधि पञ्चधा ॥ ७३ ॥ आसंसारं भवेदष्टवारं सद्दर्शनान्वितम् । शुद्ध भावक्रियोपेतमशुद्या तदनन्तशः ॥ ७४ ॥ गृहिणां देशतः तत्स्यात्, द्वादशवतभेदतः । क्षेत्रपल्योपमासङ्ख्यभागमानमितं भवे ॥ ७५॥ त्यक्त्वा षट्खण्डनाथत्वं, यदङ्गीक्रियते मुदा । चक्रवत्यादिभिः शश्वत् , संसारोच्छेदकांक्षिाभिः ॥ ७६ ॥ यत्प्रसादादपूज्योऽपि, पूज्यते सजनैः पुनः । वन्यते यदवन्योऽपि, पापः पापाद्विमुच्यते ॥ ७७॥ यत्प्रासादाद्वराकोऽपि, याति शेख.
॥४०॥
Jain Education
For Private & Personal Use Only
Jhelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96