Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600131/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 20NMAH ARMA BIGGC KALAIMERIALLAHRAIGARETILAADARAMAR I KAARATRIKAZKDamIImmanasi श्रेष्ठ–देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ५६. श्रीमन्नयविमलमूरिअपरनामश्रीज्ञानविमलसूरिविरचितम् श्रीश्रीपालचरित्रं संस्कृतकाव्यम्. r ormonorma प्रथमसँस्कारे प्रतयः १०००.] पण्यम् १४ आणकाः। [मोहमयीपत्तने. Torrnmrrrrrrr भगवन्महावीरस्य २४४७. नृपविक्रमस्य १९७७. इसुकाईस्टस्य १९२१. liarrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrre 1962ODO09620DO0GGCOD Jan Education International Page #2 -------------------------------------------------------------------------- ________________ अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायत्ताः स्थापिताः All Rights reserved by Trustees of the Fund. प्रख्यातिकारकः-शाह नगीनभाई घेलाभाई जह्वेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई, ४२६ जह्वेरी बाजार इत्यनेन 'मुम्बईवैभव' मुद्रणास्पदे सेंढहर्टपथे सर्वन्टर ओव इंडिया सोसायटी प्रासादे चिंतामण सखाराम देवळे द्वारा मुद्रापितं प्रकाशितं च. in Educatan! For Private & Personel Use Only Panelibrary.org Page #3 -------------------------------------------------------------------------- ________________ Jain Education अंक. २० आनंदकाव्यमहोदधिः मौक्तिक. २. ३० आनंदकाव्यमहोदधिः मौक्तिक, ४ . आनंदकाव्यमहोदधिः मौक्तिक. १. आनंदकाव्यमहोदधिः मौक्तिक. ६. ३२ ४३ ४४ श्री पिण्डनिर्युक्तिः ४८ ५० नाम. .... श्रीश्राद्धप्रतिक्रमणसूत्रम् श्रीमद्जीवाजीवाभिगमोपाङ्गम् अस्याः संस्थाया विक्रेतव्यानि पुस्तकानि . **** .... .... .... ... **** मूल्यम् . 0-80-0 ०-१२-० 0-2 0-0 ०-१२० १-८-० २-०-० ३-४-० अंक. ११ ५२ ५३ १४ १५ १६ ५७ नाम. श्रीसेनप्रश्नः श्रीमज्जम्बूद्वीपप्रज्ञप्ति: पूर्वार्धम् श्री आवश्यक वृत्तिटीप्पणकम् श्रीमज्जम्बूद्वीपप्रज्ञप्तिः उत्तरार्धम् .... देवसिराई प्रतिक्रमणम् श्रीश्रीपाल चरित्रम श्रीसूक्तमुक्तावली .... .... .... .... .... .... 2... .... **** .... .... .... मूल्यम् - १-०-० ४-०-० १-१२-० २-०-० ०-३-० ०-१४-० .... [ प्रेसमां ] प्रापणस्थानम् - शाह मानचंद बेलचंद, गोपीपुरा, बडेखांचकला - सुरत. Felibrary.org Page #4 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जहवेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिक शुक्लैकादश्यां, सूर्यपूरे पौषकृष्णतृतीयायाम , मुम्बय्याम, The Late Sheth Devchand Lalbhai Javeri. Died 13th January 1906 A.D. Bombay, Born 1853 A.D. Surn'. 10000-1-21. Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ Jain Education श्रेष्ठिदेवचन्द्र लालभाई - जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीनयविमल अपर नामज्ञानविमलसूरिकृतम् श्रीश्रीपाल चरित्रम्. श्री पार्श्वपरमेश्वराय नमः । ऐं नमः । सकल कुशलवल्लीसेचने नव्यदेवो भवतु भवभृतां स श्रेयसे पार्श्वदेवः । शठकमठविमुक्तैर्वारिपूरैः समीरै- रधिकमिह यदीयो दिद्युते ध्यानदीपः ॥ १ ॥ श्रीपार्श्वनाथपादाब्ज - मानम्याशु प्रमोदतः । तन्यते सिद्धचक्रस्य, माहात्म्यं किञ्चिदुत्तमम् ॥ २ ॥ अस्त्यत्र जम्बूद्वीपे दक्षिणभरतार्द्धमध्यखण्डे बहुधनधान्यसमृद्धो मगधनामा जनपदः, तत्र वैभारसारपरिकरितपरिसरं राजगृहं नाम पुरमासीत्, तत्र जगत्रयविख्यात कीर्तिर्विरजिनपदकमलाविहितभक्तिः श्रेणिको नाम राजास्ति, तस्य प्रथमा पत्नी जगज्जनिता helibrary.org Page #8 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् श्रीपाल चरित्रम् ॥१॥ नन्दा सुनन्दानाम्नी आसीत, यस्याः पुत्रः पुण्यपवित्रः अभयकुमारश्चतुर्बुद्धिकलितगात्रः, पुनश्चान्या चेटकराज्ञः सुता चिल्लणा नाम देवी | आसीत् , यस्याः पुत्रः अशोकचन्द्रः कोणीकेत्यपरनामा परमधामा जातः, अन्येऽपि हल्लविहल्लादय एकादश पुत्रा जाताः, अन्या अपि धारणीप्रमुखा अनेका राज्यः सन्ति, तासामपि मेघकुमाराद्याः पितृमातृभक्ता जिनधर्मासक्ता बहवः पुत्रा अभूवन , इत्याद्यनेकलक्ष्मीविलासपाज्यं राज्यं पालयति स्म । अथान्येास्तत्र सुरासुरेन्द्रमहितो विहितजगद्धितः चतुर्दशसहस्रमुनिपरिकरितः श्रीवर्द्धमानतीर्थङ्करः | समवसृतो मगधदेशे राजगृहपुरपरिसरे पुनः प्रेषयामास, प्रथमामिन्द्रभूतिनामानं गणधरं राजगृहे लोकानामनुकम्पया लाभहेतवे प्रथमतः, गौतमस्वाम्यपि एवं भगवदनुज्ञा प्राप्य राजगृहोद्यानं स्वपरि (वारपरि) करितः प्राप्तः, तदागमनं श्रुत्वा सकललोकसमेतः स्वऋद्धिसंयुतः तूर्ण तदुद्याने आयातो राजा, पश्चाभिगमनं कृत्वा त्रिप्रदक्षिणां दत्त्वा चरणकजे भृङ्गीभूय यथोचितस्थाने उपविष्टः । भगवतापि सजलदानुकारिवाण्याऽऽर्जवजनमनोहारिण्या धर्मदेशना प्रारब्धा, भो ! महानुभावा आर्यक्षेत्रकुलगुरुसामग्रीकं मानुषं जन्म दुर्लभं लब्ध्वा गुर्वषायवर्जितं पञ्चविधमपि प्रमादं त्यक्त्वा सद्धर्मविषये उद्यमः कर्त्तव्यः, स धर्मश्चतुर्दा प्रोक्तः-दानशीलतपोभावभेदात् , तेषां मध्ये भावं विना दानं काशकुसुमवत् विफलं शीलमपि ईक्षुपुष्पवत् तपश्चापि बोध (भवौध) विस्तारकारणं, तस्माद्भावो विशुद्धः कार्यः, भावोऽपि विशुद्धमनोगम्यः, मनश्चापि निरालम्ब अतिदुर्जयं भवेत्, ततो मनोनियमनाथ सालम्बनं ध्यानं ध्यातव्यं, तत्रालम्बनानि शास्त्रे बहुविधानि भवन्ति, ध्यानेष्वपि नवपदध्यानमुत्तमं प्रोक्तं, तत्र-अहसिद्धाचार्योपाध्यायाः साधवश्च सम्यक्त्वम् । ज्ञानं चरणं च तपो, ध्यातव्यं ध्यानमिति नवकम् ॥ १॥ तत्रान्तिोऽष्टादशदोषविमुक्ता विशुद्धतत्त्वमयाः । हृत्कमलकर्णिकायां, ध्यातव्या नित्यमतिविशदाः ॥२॥ पश्चदशभेदयुक्ताः, समस्तघनकर्मबन्धनविमुक्ताः। सिद्धाश्चानन्तचतुष्टययुक्ताः सर्वदा ध्येयाः प्रमादं त्यक्त्वालालमपि ईवपुष्पा भवत्, ततो मनासिद्धाचार्यो कु लगुरुसामग्रीकं मानुषं जन्म दली तेषां मध्ये भावं विना दामाद त्यक्त्वा सद्धर्मविषये उद्यमः क Jain Educaton Internama For Private & Personel Use Only Page #9 -------------------------------------------------------------------------- ________________ वर्णवस्सर्वदा ध्येयाः, शमयतव्य ज्ञान सर्वगुणावचारित्र गावेऽन्नीकर्तव्यं तमक वि दिहाशेषसुनवरभापितधमें रहसन्तपद्विधभेदं भन्या । तच्चारित्रं गात्रेऽक्षा जीवाजीवपदार्थमानरूपम् । चेतोभवन ॥३॥ पश्चाचारपवित्रा, विशुद्धसिद्धान्तदेशनोयुक्ताः। जगदुपकारप्रवणाः, ध्येया हरिताः सदाचार्याः ॥ ४॥ सद्वादशाङ्गपाठनपठनपरा नीलवर्णरम्यतराः । सद्ध्यानलीनमनसश्चोपाध्यायाः सदा ध्येयाः ॥ ५ ॥ शान्ता दान्ता निरारम्भा, ये स्थिताः कर्मभूमिषु । साधवस्सर्वदा ध्येयाः, श्यामा विगतकल्मषाः ॥ ६॥ सर्वज्ञभाषितागमप्रकटिततत्त्वार्थवासनारूपम् । चेतोभवने सततं दर्शनरत्नं वरं स्थाप्यम् ॥ ७॥ शिक्षयितव्यं ज्ञानं सर्वगुणाधाररत्ननिधिरूपम् । जीवाजीवपदार्थप्रकाशतत्त्वावबोधज्ञम् ॥ ८ ॥ त्यागोऽशुभक्रियायाः शुभक्रियायां च योऽप्रमादः स्यात् । तच्चारित्रं गात्रेऽङ्गीकर्त्तव्यं महोदयदम् ॥९॥ घनकर्ममर्मतिमिरप्रहरणभानुमभं शमोपेतम् । बाह्याभ्यन्तरषड्विधभेदं भव्यास्तपस्तपत ॥ १० ॥ एतन्नवकं विधिनाऽऽराधयितव्यं सदा शिवार्थिजनैः । जिनवरभाषितधम् रहस्यमूलं सदा शक्त्या ॥११॥ अस्य श्रीसिद्धचक्रमित्याख्यातं जिनागमे नाम । श्रीपालभूपवदिहाशेषसुखं प्राप्नुयात्तूर्णम् ॥ १२ ॥ इत्यादि देशनां श्रुत्वा मगधेशः पृच्छति-स्वामिन् ! कोऽसौ श्रीपालो ? यस्याख्यानं व्याख्यातं, तन्निशम्य गौतमो भगवान पाह-शृणु निदर्शनं सुन्दरं परमाश्चर्यकरं, तद्यथा-इहैव भरतक्षेत्रे दक्षिणार्द्धमध्यखण्डे सर्द्धिकृतनिवासो विहितदुष्कालाद्युपद्रवप्रवासो, मालवो नाम देशोऽस्ति-स च कीदृग् ? पदे पदे यत्र सुगुप्तिगुप्ता, योगप्रवेशा इव सन्निवेशाः । पदे पदे यत्र सहम्हिनीका, भूपालगेहा इव तुझशैलाः॥१॥ पदे पदे यत्र रसाकुलाच, वहन्ति वेश्या इव निर्झरिण्यः । पदे पदे यत्र खगबजाट्या, वैताढ्यभूमीव सुकाननालिः ॥२॥ Page #10 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् चरित्रम् ॥ २ ॥ पदे पदेऽनेकवयस्समेतं, पुरवजं यत्र सरोवदिष्टं । श्रीपाल पदे पदे यत्र सगोरसाणि, सुगोकुलानीव वशामुखानि ॥३॥ तत्राकृतप्रवेशे, दुर्भिक्षाद्यैश्च मालवे देशे । उज्जयिनीनामपुरी, समस्ति शस्तालकाधिक्या ॥१॥ गृहे गृहे यत्र लसन्ति गौर्यो, महेश्वराश्चापि पदे पदे श्रियः । अनेकरम्भाः सकुचा बने बने, पदे पदेऽस्यां पुरुषोत्तमाश्च ॥२॥ अनेकशो यत्र बुधाः कवीशाः, गृहे गृहे प्रीतिरतिप्रतिष्ठाः । श्रीनन्दनाश्चापि पितामहाश्च, पदे पदे सन्ति सुपनाथाः॥३॥ तत्रास्ति नामतो गुणतश्च प्रजापालो नाम राजा, स च काहग् ?-यस्य प्रतापतपनः, सोमो भीमश्च शिष्टदुष्टेषु । परविषयाक्रमणकला-मभ्यस्यति संततं विजयी ।।१।। तस्यावरोधे स्वदेहशोभापहृतसुरसुन्दरीरूपगचे सौभाग्यसुन्दरीरूपसुन्दरीनान्यौ द्वे पत्न्यौ स्तः, तयोः प्रथमा माहेश्वरधर्मवासितकुलोत्पन्नत्वात् मिथ्यादृष्टिरित्याख्याता, द्वितीया श्रावककुलोत्पन्नवात् सम्यक्त्वदृष्टिरित्याख्याता, क्रमेण परस्परं सापत्न्येऽपि प्रीतिकलिते राज्ञा समं नवनवरसतत्परे द्वे अपि आपन्नसत्त्वे जाते, क्रमेण द्वे अपि सुते जनितवत्यौ, वोपन कारापितं, अथ क्रमेण राज्ञा सौभाग्यसुन्दरीनन्दनानाम सुरसुन्दरीति कृतं, रूपसुन्दरीनन्दनानाम मदनसुन्दरीति प्रदत्तं, समये ते समर्पिते अध्यापकाय । तत्र सुरसुन्दरी | शिवभक्तशिवभूतिअध्यापकपार्थे लिखितगणितलक्षणच्छन्दोऽलङ्कारकाव्यतर्कज्योतिःपुराणभारततिनाटयवैद्यकविद्यामन्त्रतन्त्रप्रहे | लिकाचित्रकर्माद्यनेककुटलविटलकरलाघवादिशास्त्राणि चमत्कारजनकानि शिक्षितवती, यतः “सा कावि कला तं किंपि कोसलं तं च नत्थि विनाणं । जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं ॥१॥" सा सविशेष गीतादिषु निपुणा वीणाविनोदलीना सुरसुन्दरी ||॥२॥ विदग्धा जाता, क्रमेण तारुण्यं प्राप्ता, यादृशो गुरुर्भवति तादृशः शिष्ये गुणयोगो जायते इति कारणादेव मिथ्यादृष्टिगुरुप्रसङ्गात् सा मिथ्या- | Join Education in IMI For Private Personal Use Only Ad orary.org Page #11 -------------------------------------------------------------------------- ________________ | त्वमोहिता उत्कृष्टदर्पा जाता, अथ मदनसुन्दर्यपि एताः कला लीलामात्रेण शिक्षिताः, विमलप्रज्ञाप्रकर्षेण विनयादिगुणेन च जिनमत| निपुणसुबुद्धिनामाऽध्यापकपार्थे जैनमततत्त्वं तथा शिक्षिता, यथा एकादिपदार्थान् जानाति, एको जीवश्चेतनालक्षणः सत्तारूपः, निश्चयव्यवहारनयभेदाद् द्विविधः, कालत्रिकं अतीतानागतवर्तमानरूपं, गतिचतुष्कं नरकतिर्यग्नृदेवगतिरूपं, पश्चास्तिकायात्मकं धर्माधर्माऽऽकाशजीवपुद्गलभेदात्, द्रव्यषट्कं पूर्वोक्तपश्चकं कालद्रव्ययुतं, नयसप्तकं नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुमूत्र ४ शब्द५ समभिरूढ ६ एवंभूताचं, कर्माष्टकं ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ गोत्र ७ अन्तराय८ आत्मकं, तत्त्वनवकं जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षस्वरूपं, दशविधयतिधर्मस्वरूपं क्षान्तिमार्दवाजवमुक्तितपासंयमसत्यशौचाऽsकिञ्चन्य ब्रह्मस्वरूपं, प्रतिमैकादशकं दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तारम्भत्यागपोद्दिष्टवर्जकश्रमणभूतात्मकं, गृहिद्वादशवतरूपं स्थूलमाणातिपातमृषास्तेयाऽब्रह्मेच्छापरिग्रहप्रमाणदिग्विरतिभोगोपभोगानर्थदण्डसामायिकदेशावगाशिकपौषधा| तिथिसंविभागलक्षणं, त्रयोदशप्रमादस्थानकं आलस्यमोहावज्ञास्तब्धक्रोधप्रमादकृपणताऽऽमयशोकाज्ञानव्याक्षेपकौतूहल कामस्वरूपं, गुणस्थानचतुर्दशकं मिथ्यात्वसास्वादन मिश्राविरतिसम्यग्दृष्टिदेशविरतिप्रमत्तसंयताप्रमत्तसंयमनिवृत्त्यनिवृत्तिसूक्ष्मसम्परायोपशान्त| मोहक्षीणमोहसयोग्ययोगिगुणस्थानकरूपं, सिद्धपञ्चदशभेदकं जिनाजिनतीर्थातीर्थगृहिअन्यस्वलिङ्गस्त्रीनरक्लीवप्रत्येकबुद्धस्वयम्बु दबुद्धबोधितैकानेकसिद्धिरूपं, कषायषोडशकं सज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिचतुष्क क्रोधादिचतुष्केन गुणितं | पोडशकं, संयमसप्तदशकं प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहाद्विरमणं चक्षुरसनाघ्राणश्रोत्रस्पर्शनेन्द्रियनिग्रहः क्रोधमानमायालोभकषायचतुष्कजयः मनोवचःकायदण्डत्रिकविरमणमिति संयमसप्तदशकं, अष्टादशकं पापस्थानकानां हिंसाऽलीकस्ते. For Private Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ ज्ञानवि ० कृतम् ॥ ३ ॥ Jain Education याऽशीलद्रव्योपकरणादिमूर्च्छाक्रोधमानमायालो भमेमद्वेषक लहाभ्याख्यानपैशुन्यरत्यरतिपरनिन्दामायामृषामिध्यात्वरूपाणां इत्याद्यकविचाराचारकुशलत्वं प्राप्ता, अन्येष्वपि विचारेषु निजनामस्मरणवत् विशारदत्वेन शारदा जाता, कर्मणामपि मूलोत्तरप्रकृतीर्जानाति, कर्म्मस्थितिं शृणोति, बन्धोदयोदीरणासत्तारूपं कर्मविपाकमपि वेत्तीत्यादिसकलागमनिपुणा सम्यक्त्वगुणकलिता लज्जादिकुलगुणयुक्ता मदनसुन्दरी तारुण्यं प्राप्ता । अथान्येद्युरास्थानसभास्थितेन राज्ञा अध्यापकसहिते द्वे अपि कन्ये आकारिते, विनयावनते स्वरूपलावण्यचङ्गिमचमत्कृतसकलसमे पार्श्वयोः स्थापिते, हर्षप्रकर्षपूरितमानसेन नृपतिना तयोर्बुद्धिपरीक्षणार्थं एकेन पण्डितेन पृष्टं - किं जीवियस्स चिन्धं, का भज्जा होइ मयणरायस्स । का पुप्फाण पहाणा, परिणीया किं करइ वाला ॥ १ ॥ तया प्रोक्तं 4 'सासरइ जाय' तच्छ्रुत्वा चमत्कारकृतेन नृपेण एकं समस्यापदं समर्पितं, 'पुण्येनैतच्च लभ्यते ' तदा तत्कालमति चञ्चलया स्वगर्व्वग्रथिलया सुरसुन्दर्या प्रोक्तम् - तात पूरयाम्यहं समस्यां यथा - धनयौवनवैदग्ध्यमरोगित्वं वपुष्यपि । मनोवल्लभयोगत्वं, पुण्येनैतच्च लभ्यते ।। १ ।। तन्निशम्य तुष्टो नृपः प्रशंसति-साधु साधु भणितं, साधुरस्या उपाध्यायः येनेदृशी शिक्षापिता, पर्षदपि सत्यमिदम् सत्यमिदमिति भणति । ततो राज्ञा मदना आदिष्टा - त्वमपि पूरय समस्यां, आदिवर्णरहितो जगज्जीवनं मध्यरहितो संहारकोऽन्त्यरहितः सर्वेषां इष्टः, मदनयोक्तं- तन्मया नयने दृष्टं, तदा सभ्यपण्डितेन प्रोक्तं- “स्त्रीयुग्मनरयुग्मोत्थः, कृष्णोऽन्तर्बहिरुज्ज्वलः । देवानामपि यो देवः, सर्वनिर्वाहसाधकः ॥ १ ॥ समुद्रोऽपि जलाद्भीतो, गतक्रमो बहुभ्रमी । सर्वभाष्यपि मौनी च, साक्षरोऽपि जडात्मकः २ ॥ तच्छ्रुत्वा मदनयोक्तं-लेखः, चमत्कृतश्रोतृलोकं पुना राज्ञाऽऽदिष्टं एतत् 'पुण्येनैतच्च लभ्यते ' इति समस्यां पूरय, सापि जिनवचनरता | स्वभावसादृश्यं पदं पूरयति, यथा- विवेको विनयश्चोपशान्तत्वं च सुशीलता । महानन्दपदप्राप्तिः, पुण्येनैतच्च लभ्यते ॥ १ ॥ इति श्रुत्वा तदु श्रीपाल चरित्रम् • ॥ ३ ॥ Page #13 -------------------------------------------------------------------------- ________________ पाध्यायं तन्मातरं मध्यस्थसज्जनजनं च विना नृपादयोन्ये सर्वेऽप्यमालवो जाताः, यतः कुदृष्टिना सुदृष्टिवाक्यं हर्ष न जनयति । इतश्च | कुरुजङ्गलदेशे शवपुरी नाम पुरी अस्ति, तस्या नाम पूर्व अहिच्छत्रेति भण्यते, तत्र वैरिकालो दमितारिनाम्ना गुणेन च महीपालोऽस्ति, स प्रतिवर्ष उज्जयिन्यां नृपसेवार्थ याति, अथान्यदा तत्पुत्रोऽरिमर्दनो नाम तारुण्यं प्राप्तः, स पितुःस्थाने तत्सेवार्थ उज्जयिनी माप्तः, तं दिव्यरूपधरं निरीक्ष्य तीक्ष्णकटाक्षविक्षेपेण ताडयन्तीति सुरसुन्दरी पित्रा दृष्टा, भणिता च वत्स!कीदृशस्तव वरो रोचते?, ततस्तया धृष्टया मुक्तलोकलज्जया भणितं-तात ! त्वत्प्रसादात् यदि समीहितं वरं लभे तदाऽयं तरुणः कलाकुशलो रूपलावण्ययुक्त एतादृशो वरो भवतु, ततस्तुष्टेन नृनाथेन तन्मनो ज्ञात्वा वत्से ! एषोऽरिदमनस्तव वरो भवत्विति गदितं, सकलसभ्यैरपि प्रशंसितं-एष शोभन: संयोगो, यथा पूगतरूणां नागवल्लीयोगः शरमत्यश्चयोरिव निशानिशाकरयोरिवेति । अथ मदनसुन्दयपि राज्ञा पृष्टा, वत्से ! तवापि कीग् वरः समीहितस्तत्कथय सत्वरमितिश्रुत्वा साऽपि जिनवचनविचारसञ्जनितचारुचातुर्यविवेकलज्जासज्जिताङ्गी अधोमुखी किमपि यावन्न जल्पति, तावन्नरेन्द्रेण पुनः पृष्टा, तदेषद्धसित्वा जल्पिता-तात ! किमिदमसमञ्जसं पृच्छथ !, यतः कुलबालिका इति न कथयन्ति, एष वरो भवतु, यः पित्रा प्रदत्तः स एव प्रमाणीकर्त्तव्यः, केवलं लोकव्यवहारेण मातरपितरावपि वरप्रत्ययार्थे निमि| तमात्रमेव, यत्पूर्वनिबद्धः स एव भवति, येन यादृशं, शुभा शुभंकर्म समुपार्जितं भविष्यति, तत्तादृशं दोरिकाबद्धमिव सम्प द्यते, कुकुलेष्वपि दत्ता बहुपुण्या सुखिता भवति, या हीनपुण्या सा सुकुलेष्वपि दत्ता दुःखिता भवति, तस्मात्तात ! तुभ्यं एता| दृशो गर्वो न युज्यते पल्लोके प्रसादाप्रसादौ मत्कृतौ स्तः, यः पुण्यंबलवान् तस्य त्वमपि प्रसीदास, यः पुण्यरहितस्तस्य || न प्रसीदसि, भवितव्यतास्वभावद्रव्यकालादयोऽपि प्रायः पूर्वोपार्जिजतकानुगताः फलं ददति, इत्यादि यथार्थवचनं श्रुत्वा राजा Jain Educat For Private & Personel Use Only amjainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् चरित्रम्. ॥४॥ मितो भणति-रे मुखरिके! असम्बद्धभाषिके मत्प्रसादेन मनोजें खाद्यादिकं स्वाधमाना वस्त्रालङ्कारादि परिदधाना सती इमं भणसि, इति श्रुत्वा मदना भाषते-तात! त्वद्नेहेऽपि सुकृतवशेनोत्पन्ना सुखानि भुजे, जीवानां पूर्व कृतं सुकृतं सुखकारणं दुष्कृतं दुःखकारणं, यतो बुद्धिबलसमृद्धैः सुरासुरनरवरैरपि कर्मपरिणामो न स्खल्यते इति श्रुत्वा रुष्टोराजा भणति-अहो ! एषा अल्पपुण्या दुर्विदग्धा मत्कृतं गुणं | किमपि नो मन्यते? तदा सभालोको भणति-स्वामिन् ! मुग्धमतिरियं किं जानाति?, त्वमेव रुष्टः कृतान्तः तुष्टःकल्पतरुरिव जनानां सुख| दुःखकर्ता न अन्यः कोऽपि, इति श्रुत्वा पुनर्मदना भणति-धिर धिगिमान् धनलवार्थिनो जनान्, यतो जानन्तोऽप्यमी मुखप्रियं परिणामे | अप्रियमलोकं जल्पन्ति, यदि तात ! त्वत्प्रसादादेव सेवकलोकाः सुखिनो भवन्ति, तदा एके सुखिनः एके दुःखिनः इदं कथं स्यात?, तस्मात् यो युष्माकं रोचते स एव वरो भवतु,यदि ममास्ति पुण्यं तदा निर्गुणोऽपि सुगुणो भविष्यति,यदि नास्ति पुण्यं तदासुन्दरोऽप्यसुन्दरो भविष्यति, सर्व कर्मवशादेव सम्पद्यते, ततो गाढतरं राजा रुष्टः, दुर्विदग्धया एतया अहं वचनमात्रेणैव वैरीकृतः। ततो विकटभकुटीभीषणवदनं राजानं विलोक्य दक्षो मन्त्री भणति-स्वामिन!इदानीं राजपाटिकायाःसमयोऽस्ति, तन्निशम्य रोषाग्निना धगधगायमानो नरनाथोऽपि तुरगरत्नमारुह्य सामन्तमन्त्रीसहितो राजपाटिकायां निर्गतो, यावता पुराद्धहिनिर्गच्छति तावता पुरतः साडम्बरमागच्छन्तं जनवृन्दमपश्यत्, विस्मितेन राज्ञा ज्ञातवृत्तान्तो मन्त्री पृष्टः-किमिदं?,देव! शृणुत कथयाम्येतजनवृन्दपरमार्थम्, स्वामिन सुरूपा नववयसः शोण्डीराः दुष्टकुष्ठाभिभूताः सप्तशतीमिता:पुरुषा एकत्र संमिलिताः सन्ति, तेषां मध्ये उदम्बरव्याधिग्रस्ताङ्गएको बालो मिलितस्तैः स परिगृहीत उम्बरराजेतिकृतनामा वरवेसररत्नमारूढो वृद्धोऽस्ति तस्य छत्रधारकस्त्वग्दोषी नाम गतनाशश्चामरधारकः घिणिघिणिशब्दोऽग्रगः | गतकों घण्टावादकः मण्डली अङ्गरक्षकः दर्षितगात्रो बीटकदायकः गलिताङ्गुलिर्नामा मन्त्री केऽपि वामनाः केपि मूचितवातकाः I ॥ ५ ॥ Jain Educa t ional AMAJainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ Jain Education In श्वेतमण्डला विकराल गात्रास्तस्य सेवकाः, एवं कुष्ठिकसमुदायेन परिवृतो महीपीठे भ्रमन् राजकुलेषु दानशुल्कं गृह्णन् एषः अत्र आगच्छति, तस्मादिमं मार्ग मुक्त्वा अन्यं पन्थानं गच्छत इति मन्त्रीवचः श्रुत्वा राजा अन्यां दिशं याति तावता कुष्ठिपेटकमपि त्वरितं तामेव दिशं वलितं राज्ञा भणितं-भो मन्त्रिन् ! अग्रे गत्वा इमान् निवारय मुखमार्गितं शुल्कं ददत येनैषां दर्शनं न सुखदं, इति राज्ञो वचनं श्रुत्वा मन्त्री यावत् तत् करोति तावता तस्य गलिताङ्गुलीमन्त्री द्रुतं नृपपुरत आगम्यैवं भणितुमारब्धः-स्वामिन्नस्माकं प्रभुरुम्बरनामराजा सर्वत्र सर्व्वैर्गुरुदानमानैर्मान्यते, ततोऽस्माकं धनकनकचीवरादिवस्तुभिः किमपि नो कार्य, एतत्मसादाद्वयं सुखिनः स्मः परं नाथ ! अस्मन्मनश्चिन्तितो विकल्पञ्चैकोऽस्ति यद्यस्माकं राजा राज्ञी लभते तदा सुन्दरं, ततो नराधिप । प्रसादं कृत्वा एकां कन्यां देहि, अपरदानेन पर्याप्तमिति श्रुत्वा मन्त्री भणितः - अहो अयुक्तमिदं मार्गितं दुष्टकुष्ठक्लिष्टस्य कः स्वकां कन्यां जानन् ददाति, तदा गलिताङ्गुलिना भणितं देव ! अस्माभिरेतत् श्रुतम् खलु मालवराजा यस्य कस्यापि प्रार्थनाभङ्गं न करोतीति त्वदीया कीर्त्तिः सर्वत्र विख्याताऽस्ति सा निर्मला कीर्त्तिरद्य हीयते, अतः कापि कुलप्रसूता कन्या दीयतमिति, तनिशम्य राज्ञा चिन्तितं- इतो व्याघ्र इतस्तटी इतः कूप इतो दंदेशकः इतचिता इतो गर्त्ता इति न्यायो जातः इति विचिन्त्य राज्ञा भणितं भोः कुष्ठिमन्त्रिन् ! त्वत्स्वामिनेऽहमेकां कन्यां दास्यामि, कः पुमानियन्मात्रेण कार्येण कीर्ति हारयति, इत्युक्त्वा कोपानलज्वलितनिर्मलविवेकचन्दनपादपो भूपश्चिन्तयति - अरिभूतां निजसुतां एतस्य दास्यामि इति विचार्य सहसा वलित्वा निजावासमागत्य राज्ञा मदनसुन्दरी भणिता अद्यापि यदि मत्मसादात्सर्वसम्पद्यते इति वदसि तदा त्वां वरमुत्तमं परिणाययिष्यामि, भूरिधनं च ददामि यदि पुनर्निजकर्मणैव सर्वे भवतीति १ सर्प, nelibrary.org Page #16 -------------------------------------------------------------------------- ________________ ज्ञानवि० श्रीपाल चरित्रम् कृतम् वदसि, तदा त्वत्कर्मणा एषः कुष्ठीनृपः समानीतः स एव वरो भवतु नान्यः कोऽपि विकल्पलेशः इति श्रुत्वा विहस्य साऽवदत् नाथ ! मम कर्मणा यः समानीतःस दरिद्रोऽपीन्द्र एव,ततः कोपान्धेन राज्ञा स उदम्बरराजा समाहूय भणितः-भो कुष्ठिन! अस्याः कर्मवादिन्यास्त्वं वरो भवेतिश्रुत्वा कुष्ठिनोक्तं-किमयुक्तं भाषसे ?, को जानन् कनकरत्नमालां काककण्ठे बनाति, पूर्व त्वहं पुराकृतमशुभं भुञ्जे पुनरेतादृशमवयं करोमि, अस्या जन्मफलं भस्मसात्करोमि, यदि ददासि तदा विलासिदासीतनयां मदनुरूपां देहि, नो चेत्तव कल्याणं भवतु, तदा नृपो वक्ति-भो उदम्बर ! एषामन्नंदिनी मत्कृतं शुभाशुभं नो मनुते, निजकर्मकृतमेव फलं मनुते, तेन कर्मणा | आनीतस्त्वमेवास्या वरो नास्मदीयः कोऽपि दोषः, तत् श्रुत्वा झटिति उत्थाय मदनया उम्बरकरो गृहीतः, सामन्तमन्त्रिअन्तःपुरनाग| रिकार्यमाणापि शरदिन्दुकरवदुज्ज्वलवदना मदना एष एव प्रमाणमिति भणितवती, तद्वयतिकरं निशम्येतो मातृपक्षो रूपसुन्दरीमाता तत्परिवारश्च सर्वेऽपि विलपति-कीदृगयुक्तमाचरितं, तथापि नापसृतः निजकोपात् नृपः मानित्वात्, मदनापि सत्त्वात् न चलति, तां वेसरिकायामारोप्य उदम्बरो निजस्थानं प्रयातः, नागरिकलोकोऽसमञ्जसं दृष्ट्वा जल्पति-केपि राजानं धिक्कारयन्ति केऽपि दुर्विनीतामिमां, केऽपि जननी केऽप्युपाध्यायं, केऽपि जैनधर्म, तथापि विकसितकुवलयानना मदना तेनोदुम्बरेण सह यान्ती मनस्यपि विषादं न करोति, अथो हर्षभरनिर्भराङ्गणोम्बरपरिवारेण स्वप्रभाविवाहकृत्यादि विहितं । इतश्च राज्ञा सुरसुन्दर्या विवाहार्थ उपाध्यायः पृष्टः स भणति-राजन्नद्यैव दिनशुद्धिः, शोभनं लग्नं तु तदा गतं यदा मदनया कुष्ठिकरो गृहीतः, राजा भणति-ज्ञातो लग्रस्य परमार्थः, अधुनाsप्येनां परिणाययिष्यामि, राजादेशात् तत्क्षणमेव मन्त्रिभिर्विविधसामग्री मेलिता, उद्वाहमहकृत्यं प्रारब्धं, तत् कीदृशं ?-उच्छ्रिततोरणमिद्धपताक, वादिततूरगम्भीरनिनादम् । नृत्यति वारवधूजनवृन्द, जयजयशब्दमुदीरितबन्दि ॥१॥ कल्पितचीनांशुकसवितानं, Jain Educator internationa For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ धृतवरभक्षसुभोजनशालम् । दापितधवलसुवासिनीवर्ण, वृद्धपुरन्धिनिदर्शितमार्गम् ॥२॥ मार्गणजनतादापितदानं, स्वजनजनैर्विहितादरमानम् । मर्दलगुन्दलहर्षितलोकं, स्वजनमनोजनितप्रमदौघम् ॥ ३ ॥ कारितसुरसुन्दरिशृङ्गारं, शृङ्गारितरिपुदमाकुमारम् । करमोचनदापितकरितुरगं, जनितजनकजननीस्वकदर्पम् ॥ ४ ॥ एवं विहितोद्वाहो रिपुदमनो लब्धहयगजसनाथः । सुरसुन्दरीसमेतो निर्गच्छति पुरवराद्यावत् ॥ ५॥ अनुरूपोऽयं योगो, भणति जनश्चानयोरियं धन्या । केऽपि नृपं जनयित्रीं स्तुवन्ति तनयां च शिवधर्मम् ॥६॥ सुरसुन्द- मानं मदनाया हीलनां च संवीक्ष्य । श्लाघां शैवे जैने निन्दा कुर्वन्ति मूढजनाः ॥ ७ ॥ इत्यादिव्यतिकरे जाते तदसमञ्जसमीक्षमाणः सहस्रकरोऽपि दुःखदुःखित इवास्ताचलं प्राप्तः । इतश्च मदनापि रात्रौ उम्बरेण भणिता-भद्रे! शृणु मदीयां प्रवृत्ति, राज्ञा इदमयुक्तं कृतं, तथापि किमपि न गतं विनष्टं च नापि, अद्यापि त्वं किमपि नररत्नं गवेषयित्वा तत्र गच्छ, येन त्वद्रूपलावण्यादिगुणा विफला नो भवन्ति, इह कुष्टिपेटकस्य मध्ये तवापि वपुःकान्तिर्यथावस्थितस्वरूपा न स्थास्यति, प्रायः कुसङ्गात् कुसङ्गतिरेव जायते; ममापि कुष्ठत्वं सङ्गादेव जातमितिश्रुत्वा नयनांशुनीरकलुषवदनया पतिपदमणमननिवेशितोत्तमाङ्गया मदनया भणितं-स्वामिन्सर्वमेतद्वचनं मन्मनोदुःखकारकं जायते, प्रथमं तु अनन्तानन्तपापराशिबद्धं महिलाजन्म प्राप्यते, तदपि शीलेन विना कुथितकाजीकनीरवदसारं विधीयते, यदुक्तम्-"सील चिय महिलाणं, विभूसणं सीलमेव सव्वस्सं । सीलं जीवियसरिसं, सीलाओ न सुंदरं किंपि ॥१॥ ततः स्वामिनाजीवितं त्वच्चरणमेव शरणं, नान्यो विकल्पो, यद्भाव्यं तदेव भवतु, इति निश्चयं विज्ञाय तच्छीलदृढसत्त्वप्रेक्षणार्थमिव सहसा सहस्रकिरणोऽप्युदयाचलचूलिकांप्राप्तः, स उम्बरराजापि तत्समेतः | A प्रत्यूषसमये श्रीरुषभदेवभवनं त्वरितं गतः, अतिबहलविपुलप्रमोदपुलकिताङ्गेन स्वामी नमस्कृतः, जिनमतनिपुणा मदनाऽपि स्तोतुं Jain Educat i onal For Private Personal Use Only SU jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ ज्ञानवि० श्रीपाल चरित्रम् कृतम् ॥६॥ प्रवृत्ता-नमो युगादिदेवाय, नमो भवनभास्वते । भाक्तिनिर्भरवन्दारुहन्दारकनताहये ॥१॥ नमश्चन्द्रकरवातविशदश्लोकमूर्तये। सेवासक्तजनस्वान्त वांछितार्थसुरद्रवे ॥२॥ नमो मारिविकारैकछिदापंचमुखाय ते । बाह्याभ्यन्तररोगारि हारिणे शङ्कराय ते ॥३॥ यदुक्तं सिद्धचक्रचरित्रेऽपि- भत्तिब्मरनमिरसुरिन्दवदवंदियपयपढमजिणंदचंद। चंदुजलकेवल भत्तिपूर पूरियभवणंतरवेरिमूर॥१॥मूरुवहरियतमतिमिरदेव देवासुरखेयरविहियसेव सेवागयजणवयरायपाय, पयडियपणामह कयपसाय ॥२॥सायरसमसमयामयनिवास, वासव गुरुगोयरगुणविकास । कासुज्जलसंजमसीललील लीलाइ विहियमोहावहील ॥३॥हीलापरजंतुसुअकयसाव सावयजणजणियाणंदभाव।। | भावालयलंकिय रिसहनाह,नाहत्तणुं करि हरि दुखदाह॥४॥इय रिसहजिणेसरभवणदिणेसर,तिजयविजयसिरिपालपहो।मयणाहियसामिय सिवगयगामिय, मणहमणोरह पूरिमहो ॥५।। इत्यादि भक्तिभरमासुरागी समाधिलीना मदना यावता स्तौति तावता श्रीजिनकण्ठकन्दलात् | करस्थितफलसहिता कुसुममालिका समुच्छलिता, सहसा मदनावचनात् उम्बरेण तत्फलं गृहीतं, मालापि आनंदितमानसया मदनया | | गृहीता, भणितं च तया-स्वामिन् ! एष त्वत्तनुरोगो विलयं यास्यति, येनेदृशो योगो जातःश्रीजिननमनजनितभक्तिप्रसादात, ततो मदना | पतिना सह श्रीमुनिचन्द्रगुरुसमीपंप्राप्ता,प्रमुदितचित्ता भक्त्या तस्य पादान् प्रणमति।गुरुणाकरुणापरीतचित्तेन गम्भीरसजलजलधरस्वरेण धर्मस्य फलमेवं भणितं यथा-सुमानुषत्वं सुकुलेषु जन्मता, सौभाग्यमारोग्यमतुच्छमायुः । ऋद्धिं समृद्धिं प्रभूतां च कीर्ति, प्राप्नोति धादिह भव्यजन्तुः॥१॥ इत्यादिदेशनां दत्त्वा मदना पृष्टा-वत्से! कोऽयं धन्यो वरो लक्षणलक्षितः सुपुण्यस्त्वया लब्धः ततो मदनया रुदत्या सर्वोऽपि निजवृत्तान्तः प्रोक्तः-हे स्वामिन् ! मम किमपि अन्यत् दुःखं नास्ति, परं एतदेव महदुःखमस्ति यत् इमे मिथ्यादृष्टिलोका Jain Educatio n For Private & Personel Use Only Alainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ जिनधर्म निन्दन्ति शैवं धर्म च प्रशंसति, अतः प्रसादं कृत्वा किमप्युपायमुपदिशथ, यथा मद्भर्तुरेष दुष्टव्याधिः क्षयं याति लोकापवादश्च, तदा गुरुर्भणति,-भद्रे ! साधूनां सावधं वैद्यमन्त्रतन्त्रचिकित्सादिकं कर्तुं कारयितुं न कल्पते, तथाप्यनवद्यमेकं नवपदाराधनसाधनमस्ति इहपरलोके सुखदं जिनोदिष्टं, यथा- अर्हत्सिद्धाचार्योपाध्यायाः साधवश्च सम्यक्त्वम्, ज्ञानं चरणं च तप इति पदनवकं परमतत्त्वम् ॥ १॥ एतैः पदविरहितं किञ्चिदन्यल्लोके नास्ति, जिनशासनस्य सर्वस्वरहस्यावतार एतेष्वेव पदेष्वस्ति, ये केचन भव्यजीवाः सिद्धाः सिध्यन्ति सेत्स्यन्ति ते सर्वेऽपि नवपदध्यानादेव, एतेषां पदीनां मध्ये चैकपदं परमभक्त्याराध्यानके सत्त्वास्त्रिजगदीश्वरत्वं प्राप्ताः, एतत्पदनवकैः सिद्धं सिद्धचक्रमिति नाम जातं, तस्योद्धारः पूर्वाचायनिर्दिष्टःसप्रणवमन्त्रबीजं “ॐ हीं नमो अरिहंताणं " अष्टदलवलयपीठे ध्यातव्यं, सिद्धादयो दिक्षुः विदिक्षु दर्शनादयः स्थाप्याः। द्वितीयवलये अष्टदले “ॐ नमो सिद्धाणमिति" पीठे संस्थाप्य अहंदादयो दिक्षुः ज्ञानादयो विदिक्षु स्थाप्याः। तृतीये वलयेऽपि “ॐ नमो आयरियाण" ति पदं पीठे संस्थाप्य उपाध्यायादयो दिक्षु चारित्रादयो विदिक्षु, एवं चतुर्थे वलये, पञ्चमवलये षष्ठवलये च अई नमो जिणाणति एवमादिकानि अष्टचत्वारिंशत्पदानि ध्येयानि सप्रणवानि समायावीजानि सुगुरुवचनात् ज्ञातव्यानि, तत्रिगुणनेन च प्रदक्षिणया च शुद्धश्वेतवर्णेन परिवेष्टयित्वा अथवा रेखाद्विकं कलशाकारं कृत्वा चतुर्दिक्षु जयाजिताविजयापराजितादेवीभिः कृतसेवं श्रीविमलस्वामिप्रमुखाधिष्ठायकसकलदेवदेवीसेवितं विद्यादेवीसुरशासनदेवीसेवितोभयपार्थ चतुष्पतीहारचतुवरियुक्तं दिक्पालक्षेत्रपालसेवितं धरित्रीमण्डलप्रतिष्ठितं सिद्धचक्रं हृत्कमले संस्थाप्य पूज्यमानं सत् नराणां मनोऽभीष्टपूरक भवति, एतत् विद्यापवादपूर्वपरमार्थ सिद्धचक्रं कथितं, येन ज्ञातेन सहसा महत्सिद्धयः सिध्यन्ति, एतदेव यः शुक्लध्यानतपः Jain Education For Private Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ | श्रीपाल | चरित्रम्. कृतम् ज्ञानवि० संयमयोगयुक्तः ध्यायति, स विपुलां निर्जरां प्राप्नोति, यस्य प्रसादादक्षयो मोक्षः प्राप्यते, अन्यसिद्धिप्राप्तौ किमाश्चर्य :, IN एतत् परमपुरुषोत्तमैः परमतत्वं परमरहस्यं परममन्त्रः परमार्थ परमपदं प्रज्ञप्त, ततस्त्रिजगत्प्रसिद्धम् अष्टमहासिद्धिदायकं सिद्धचक्रं भक्त्या आराधनीयम्, एतस्याऽऽराधको नरः क्षान्तो दान्तः श्रान्तो निरारम्भो भवति, यत्पुनर्विपरीतगुणः स एतस्य विराधकः, तस्मादेतस्याराधकेन प्रशान्तचित्तेन निर्मलशीलादिगुणेन मुनिना गृहिणापि च भवितव्यं, यो दुष्टचित्तो भवति तस्यैतदाराध्यमा| नमपि नूनं प्रत्यवायं करोति, यः पुनर्विशुद्धाराधकस्यैतस्योपरि किमपि विरूपं चिन्तयति, तत्तस्यैव नूनं भवति, तेन हेतुना प्रसन्नचित्तेन शुद्धशीलेनैतदाराधनीयम्, आश्विनश्वेतसप्तमीतः प्रारभ्यमाणमन्यत्राप्याश्विनश्वेताष्टमीदिनादारभ्याष्टविधपूजापूर्वकं अष्टदिनानि यावत् तदाचाम्लानि त्रयोदशसहस्रैकपदगुणनपूर्वकं वा द्विसहस्रपदगुणनेन कर्त्तव्यानि, नवमदिनेऽपि | पञ्चामृतेन स्नपनं जिनबिम्बस्य कारयित्वा आचाम्लं कर्त्तव्यम् । एवं चैत्रमासेऽपि पुनस्तकर्तव्यम् । आचाम्लानामेकाशीत्या पूर्ण तपो भवति, सार्द्धचतुर्थवर्षेः तपसि पूर्णे उद्यापन कार्यम् । जिनपुरतोऽशोकक्षो रूप्यमय एकाशीति ८१ मोदकाः पञ्चवर्णधान्यमयाः साधर्मिकाणां वात्सल्यं दर्शनज्ञानादिपदभक्तिश्च विधेया, एतत्तपःकर्म सम्यक् विधिना यः करोति, तस्य सकलसुरासुरनरनराधिपसम्पदो हस्तगता भवन्ति, दुष्टकुष्टक्षयज्वरभगन्दरादयो महारोगा न प्रभवन्ति, पूर्वोत्पन्ना अपि विनश्यन्ति, दासत्वप्रेक्षप्य (प्रेष्यत्व) विकलाङ्गत्वदाभाग्यान्धत्वदेहकुल जुङ्गितत्वादयो न भवन्ति, नारीणामपि दौर्भाग्यविषकन्यात्वकुरण्डत्ववैधव्यवन्ध्यत्वमृतवत्सत्वादयो कदापि न भवन्ति, किंबहुना ? जीवानामेतत्प्रसादात्सदाकालं मनोऽभीष्टविशिष्टफलावाप्तिभवेत, नास्त्यत्र संशयः । एवं गुरुणा सिद्धचक्रमाहात्म्यमुक्त्वा श्रावकसमुदायकस्योपदिष्टं एभिरुत्तमैर्लक्षणैरेष नरो जिनशासनस्य प्रभावको नूनं| ॥ ॥ For Private Personal Use Only Jan Education International Page #21 -------------------------------------------------------------------------- ________________ | लक्ष्यते, अचिरेणैव प्रभावको भविष्यति, तस्मादेतेषां सामिकवात्सल्यं युज्यते, यतो जिनेन्द्रेण साधम्भिकवात्सल्ये महत्पुण्यं वर्णित | यतः,-" माता पिता नैव तथा करोति, न बन्धुवर्गो न सहायवर्गः। करोति साम्मिकभक्तिरेषा, विशिष्टसौख्यादिसमृद्धिरत्र॥१॥" ततस्तुष्टः श्रावकैस्तस्य वरं स्थानं घनकनकवस्त्रादि साधमिकत्वात्मदत्तम् । अथ तत्र स्थितेन कुमारण गुरूपदिष्टं मदनावचनतः सिद्धचक्र | पूजाविधिकार्य सम्यक् शिक्षितम्, अन्येधुराश्विनश्वेतसप्तमीदिनात् शुभेह्नि मदनासमेतः कुमरः सिद्धचक्रतपः समारब्धवान् तत्र | प्रथम योगत्रयशुद्धिं कृत्वा जिनालयेषु जिनारों विधाय श्रीसिद्धचक्रपूजा अष्टप्रकारिका विहिता आचाम्लं च कृतमिति प्रथम- | | दिवसे विधिविहितः। एवं द्वितीयेऽपि सविशेषतया कृतो, रोगोपशमोऽपि दिने दिने भवति, अथ नवमे दिने श्रीसिद्धचक्रस्नपनजलामृतासक्तः कुमारो दिव्यतनुर्जातः,तं दृष्ट्वा सर्वे सविस्मया बदन्ति अहो तोयमाहात्म्यमेतत् यतः-'ग्रहादयो भूतपिशाचरूपाः, कुष्ठादयो रोगगणास्तथेतयः। वन्ध्यत्वदौर्भाग्यदरिद्रतादिदोषाः क्षयं यान्ति तपःप्रभावात् ॥१॥' इत्यादि प्रभावं श्रुत्वा प्रत्यक्षं दृष्ट्वा च तच्छान्तिजलेन | सिक्तं कुष्टिपेटकमपि सुभगरूपं धर्मरुचिकं जातं, "मातृपितृसुतमित्रवान्धवा, नोपकर्त्तमिह शक्नुवन्ति ते । यत्करोत्युपकृति सहायको, धर्म एव भविनामकारणः॥१॥" अथान्यदा जिनगृहाचावनिर्गच्छति तावता पुरतश्चैका स्त्री सन्मुखमागच्छन्ती दृष्टा, तां नत्वा कुमारो N वक्ति-अहो अनभ्रा वृष्टिर्जाता, यदत्र मातृसंयोगो जातः, मदना पतिमातरं विज्ञाय पादयोः प्रणता, तावता कुमारी भणति-मातरेषः सर्वस्तव वधूप्रभावो यदहं नीरोगो जात इति श्रुत्वा आशीर्वादवचःपूर्वकं परिरम्भणं कृत्वा पुनः पुनः श्रुत्वा स्ववृत्तान्तं कथयितुं | | लग्ना, वत्स ! तदाऽहं त्वां मुक्त्वा कौशाम्ब्यां सद्वैद्यं श्रुत्वा यावता तत्र बजामि तावता तत्र जिनायतने एको मुनिदृष्टः, स च कीदृक् ? | | "क्षान्तो दान्तः प्रशान्तात्मा, गुप्तिमुक्तिसुसंवृतः। कृपारसपरीताङ्गोऽवितथःसत्यवासितः ॥ १॥ भव्यानां पुरतो धर्ममाचक्षाणोऽव For Private Personal Use Only inelibrary.org Page #22 -------------------------------------------------------------------------- ________________ कृतम् ज्ञानवि० लोकितः नत्वा समये मया पृष्टश्च-स्वामिन् ! मत्पुत्रः कदा नीरुक् भावी ? तदा तेनोक्तं-भद्रे! स त्वत्पुत्रः कुष्टिपेटकेन गृहीतः उम्बरराजति श्रीपाल 10 नामा लब्धलोकमानः सम्पति मालवाधिपतिप्रदत्तपुत्रीप्राणप्रियो जातः, गुरूपदिष्टं श्रीसिद्धचक्रतपो राजसुतावचनादाराध्य कनक चरित्रम् | कान्तिस्तिरस्कृतकामद्युतिर्जातः, साधम्मिकजनैः सार्ध धर्मकर्म कुर्वन्नूर्जितविभवः स्त्रीसहितः उज्जयिन्यां सुखेन वर्तते, तद्वयात | ॥८॥ करं श्रुत्वा हर्षितचित्ताऽहं अत्र सम्प्राप्ता ज्योत्स्नाकीर्णशशिवत् सवधूकः कृतहर्षस्त्वं दृष्टः इति स्वं वृत्तान्तमाख्याय. | जिनधर्मपरा सुखं तस्थौ । अथान्यदा चैत्ये अङ्गाग्रभावभेदौर्जिनपूजां विधाय देववन्दनोपयुक्ताः सन्ति । इतश्च पुत्रीदुःख. दुःखिता सा रूपसुन्दरी राज्ञा सह विरोध्य निजभ्रातृपुण्यपालगृहे सशोका तिष्ठति, सापि शोकं विस्मार्य जिनवचनज्ञा, | जाग्रद्विवेका यावत् च चैत्यगृहे समागता तावता स्वरूपतर्जितदस्रकुमारं कुमारं, तज्जननी तज्जायां च दृष्ट्वा रूप्यसुन्दरी चिन्तयति | एषा मत्पुत्रीसदृशी कापि लघुका दृश्यमानास्ति, एवं निरीक्षते तावता मदनोपलक्षिता, नूनं एषा मदना तं कुष्ठिनं सतीव्रतं च मुक्त्वाऽन्यस्य कस्यापि पृष्ठे लग्ना, अहो भवनाटके किं न सम्भाव्यते यज्जिनमतज्ञया मदनयाऽपीडगाचरितं, यथा"कुले कलङ्को विहितश्च धर्मः, स दूषितो जातिरपि प्रदूषिता । म्लानीकृत जैनमतं सतीत्वं, कृतं किमेतद्विषरूपयाऽनया ॥१॥ इत्यादि दुःखपूरेण प्लाविताङ्गी रोदितुं लग्ना, तावता मदनापि तत् श्रुत्वा जननीं दृष्ट्वा तदभिप्राय विसदृशं ज्ञात्वा च विकसित| वदना कथयितुं लग्ना-हे मातः ! प्रमोदस्थाने को विषादः । यतस्तव जामाता नीरोगो जातः, यदि भानुरपि पश्चिमायां कदाचिदपि समुद्गच्छति परं शीलं नैव चलति शीलवतीनां, तदा कुमरजनन्यापि प्रोक्तं-मैवं कुर्यात् चित्ते, स्वप्नेऽपीदृशमनुचितं न करोति, IN|॥८॥ | मत्पुत्रः सुन्दराङ्गो जातः स त्वत्सुताप्रभावो, धन्या त्वं यत्कुक्षेरीदृशीलरत्ननिधानं सुतारत्नं जातं, तच्छुत्वा हर्षपुलकि Educat i onal For Private & Personel Use Only ainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Educatio ताङ्गी रूप्यसुन्दरी पृच्छति, 'किमेतज्जातं ' तदा विधिज्ञा मदना वक्ति - चैत्यगृहे वार्तालापे कृते नैषेधिकीभङ्गो भवति, अतो महे ब्रज तत्र सर्व कथयामि ततो गृहे गत्वा श्रीसिद्धचक्रतपोमाहात्म्यवृत्तान्तः सर्वो ज्ञापित:, तन्निशम्य पृच्छति रूपया कुमरसवित्रीं त्वन्नन्दनस्य वंशोत्पत्तिं श्रोतुमिच्छास्ति, अतः कथय, सापि कथयितुं लग्ना - अत्रैवाङ्गदेशे वैरिगणैरकृतकम्पा चम्पापुर्य्यस्ति, तत्रारिकुम्भिकुम्भपाटनपाटव सिंहः सिंहराजा, तस्य कुङ्कणनृनाथभगिनी स्वमृदुतातर्जितकमला कमलप्रभा प्रियास्ति, तस्याश्चिरेण वरस्वमसूचितः पुण्योपचितो जनितानन्दो नन्दनो जातः, वर्द्धापनं च कृतं राजलक्ष्मीपालनक्षम इति विचार्य तस्य श्रीपालेति नाम कृतं, क्रमेण द्विवार्षिको जातस्तदा शूलरोगेण पिता पञ्चत्वं प्राप्तः, कमलप्रभा शोकातुरामतिसागरमन्त्रिणा निवार्यमाणा सती तिष्ठति, अथान्यदा धात्रीक्रोडस्थं श्रीपालं पञ्चवर्षीयवयसं राज्ये स्थापितं बालराजानं मन्त्रिमन्त्रभावप्रगटितसामर्थ्य विज्ञाय कतिचिद्दिनपर्यन्ते पितृव्यः अजितसेनो मन्त्रिनृपहननार्थं भेदं कृतवान्, तत् ज्ञात्वा मन्त्रिणा कमलप्रभा प्रोक्ता - देवि ! येन तेन उपायेन सुतो रक्षणीयः, सुते जीविते पुना राज्यं समेष्यति, ततः इमं गृहीत्वा कुत्रापि गच्छ, इति मन्त्रिवाक्यं श्रुत्वा कमला नन्दनं गृहीत्वा प्रदोषे त्यक्तपरिवारा स्कन्धे समारोप्य कृष्णनिशायां पादचारेण अहो विधिविलसितमेतत् यथा - " पतिमरणं राज्यश्री भ्रंश चैकाकिनी निशा कृष्णा । पादविहारा क्वाहं गच्छाम्यतिदुःखसंम्भारा ॥ १ ॥ इत्यादि चिन्तयन्ती यावता प्रभाते अग्रतो याति तावता कुष्ठिनरपेटकं सन्मुखं मिलितं, तत् दृष्ट्वा निरुपमरूपसौभाग्यकलिता अलभ्यमहार्घाभरणभूषिता स्कन्धारोपितस्त्रसुता भयप्रकम्पिततनुलता रोदितुं लग्ना, तां दृष्ट्वा कुष्ठिपेटकपुरुषाः करुणापरा भणन्ति-भद्रे ! कथय त्वं कासि ? कस्माद्विभेषि ? तदा निजबन्धुनिव सर्वो वृत्तान्तः कथितः, तैरप्याश्वासिताहं भयं मां कार्षीः वयं सर्वे त्वत्सहोदराः स्मः, ततो वेसरारूढा त्वमपि अस्मत्सार्द्धं चलेति tional ainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् ॥९॥ | प्रोक्ता सती पटाञ्चलमच्छादितमुखी पेटकमध्ये वेसरारूढा निजपुत्रयुक्ता सुखेन चलिताऽहं, ततः क्रमेण भीषणाकारा वैरिभटाः प्राप्ताः श्रीपाल पेटकं पृच्छन्ति-हंभो! एका राज्ञी दृष्टा ?, तेन भणितं-अस्ति अस्मत्सार्थे, तैरुक्तं-का सा? तदा तेनोक्तं रजस्त्राणवोष्टितायामस्ति, यदि चरित्रम् गृह्णत, एकेनोक्तं ददत पामां, तदा पेटकेनोक्तं-सर्वमपि दीयते, तनिशम्य कुष्ठभयेन सर्वेऽपि नष्टाः, पश्चादहं पुत्रयुक्ता सुखेनोज्जयिनी प्राप्ता पृच्छन्ती पेटकमध्यस्था, शत्रुभटैरन्यत्र गतः क्रमेणायं भूषणधनेन यौवनाभिमुखो नीतः, परं कर्मवशादुम्बररोगेण गृहीतः, बहूपचारैरपि न प्रगुणो जातः, तदुपायं जनान् जनान्सवर्ते, तदा केनापि कथितं पृच्छन्ती कौशम्ब्यामष्टादशकुष्ठहर्ता वैद्यो वर्त्तते, तन्निशम्य पुत्रं तत्प्रातिवेश्मिकानां समर्प्य वैद्याकारणार्थ कौशम्बी प्राप्ता, तत्र वैद्यं प्रतीक्षमाणा चिरं स्थिता, तावता मुनिवाक्येन उम्बरराज्यपापणपाणिग्रहणादिपुत्रशुद्धिं ज्ञात्वा इह प्राप्ता, साहं कमला, एप मत्पुत्रः श्रीपालो नाम त्वत्पुत्रीनाथः सर्वत्र विख्यात इति, सिंहस्थजातं जामातरंY ज्ञात्वा सानन्दाभिनन्दितरूपा रूपा जाता, अथ गृहे गत्वा तया भ्रातुरग्रे निवेदितं, भ्रातापि हर्षभरनिर्भरिताकुमरं सपरिच्छदं निजगृहं नयति स्म, अथान्यदा राजपाटीतो निवर्तमानः प्रजापालभूपालः तत्र प्रवरावासे स्थितो धनधान्यकाञ्चनादिविभवेन स्थितं मदनायुतं कुमारं वीक्ष्य चिन्तयत्यहो मदनपरवशया मदनया मत्कुलं कलङ्कितं, किं कृतं ? पूर्वं तु क्रोधान्धेन मयाऽयुक्तं विहितं पश्चादनया कामान्धया समाचरितमिति विषादपरं नृपं दृष्ट्वा पुण्यपालेन तदा विज्ञप्तं सर्व पुत्रीचरित्रं, तत् श्रुत्वा राजा विस्मयफुल्लिताननो गतस्तदावासं, मदनायुतकुमारेण प्रणतस्तदा लज्जासज्जाननो नरेन्द्रो भणति "धिग् मामविवेककारिणं, दपर्सप्पविषपूरिताननम् । यत् कृतं खलु तवैव विपिपं तत् क्षमस्व जिनतत्त्वपण्डिते॥१।। मदनापि विनयावनता अल्पति हे-तात! खेदं मा कुरु कर्मवशात् किं किं न सम्पद्यते ? यथा-नीचैर्गोत्रं वीरे, ॥९॥ मल्लौ स्त्रीत्वं प्रवासिता पाण्ड्ये। कृष्णेच सर्वनाशो, मेतार्ये जातिहीनत्वम् ॥१॥ हरणं जनकसुताया, निषादसेवाऽसुखं हरिश्चन्द्रे । स्त्रीहरणं | Jain Education For Private & Personel Use Only Linelibrary.org Page #25 -------------------------------------------------------------------------- ________________ नलभूपे, विक्रेयो मलयसुन्दर्याः ॥ २ ॥ इत्याद्यात्मकृतं यत् सर्वे जना अनुभवन्ति, तस्य फलं नो कस्यापि सुखासुखदाने कोपि प्रभुर्विश्वे, यतः-" मा-वहइ कोइ गब्ब, जं किर कजं मए कयं होई । सुरवरकयंपि कम्म, कम्मवसा होइ विवरीयं " ॥ १ ॥ तस्मात्तात ! जिनोक्ततत्त्वमुत्तमं ध्यातव्यं, इत्यादि वचः श्रुत्वा जैनधर्म प्रतिपद्य तुष्टो राजा भणति-'प्रस्तरे हस्ते प्रसारिते सहसा अचिन्त्य चिन्तारत्नतुल्य एप जामाता लब्धः' इत्युक्त्वा जामातरं सुतां च हस्तिस्कन्धे समारोप्य स्वगृहे समानीय धनधान्यरंचितवान् , लोकेपि साधुवादो जातः, जिनशासनप्रभावो मदनायाः सत्त्वशीलपाहात्म्य च सर्वत्र प्रसृतम् । अथान्यदा श्रीपालो गजतुरगरथभटपरिकरपरिवृतो राजपाटिकायां सुरकुमारवत् गतः, तत्र केनापि ग्रामीणेन | नागरिकः पृष्टः-कोऽयममेयमहिमा, तदा तेनोक्तम्-एष नपतिजामातास्ति, तद्वचसा कुमारः शिरस्ताडितवद् विच्छायो जातः, पश्चात्सविषादो गृहे समागतः, तं तादृशं दृष्टा जनन्या पृष्टं चिन्ताकारणं-हे पुत्र ! पवित्राखण्डलतुल्यविक्रम ! केनापि त्वदाज्ञा खण्डिता पराभवो वा विहितः कन्यारत्नं वा हृदये स्मृतं, येन विच्छायो दृश्यसे, एवं निर्बन्धेन पृष्टे कुमारः माह-हे मातर्यत्वया कारणान्युक्तानि तेषां मध्ये किमपि नास्ति, परमेकमरुन्तुदमस्ति, यदहं श्वशुरनाम्ना ख्यातिभागस्मि तच्चेतसि दोयते, यतः-" उत्तमाः स्वगुणैः al ख्याता, मध्यमा बीजिनो गुणैः । जघन्या मातृपक्षणाऽधमाः श्वशुरजैर्गुणैः "॥१॥ एतद्वचनं आकर्ण्य जनन्या प्रोक्तं-चतुरङ्गं | बलं मेलयित्वा पितृराज्यं गृहीत्वा निश्शल्यं प्रसन्नं मनो विधेयं, तदा पुत्रेणोक्तं-मातस्तदपि नो सुन्दरं, यत् श्वशुरपक्षवलेन गृह्यते | तदुपहासजनकं, परं यदा स्वभुजोपार्जितेन बलेन राज्यं गृह्यते तदेव यशसे मनःप्रसत्तये च भवति, नान्यथा, अतो देशान्तरे, गत्वा एकक एवं अर्जितलक्ष्मीबलेन त्वरितं पितृराज्यं ग्रहीष्यामि, इति सुतवचो निशम्य पुनर्जननी माह-भोः पुत्र ! त्वं सुकुमारोऽसि देशान्तरभ्रमणमतीव दुष्करमिति श्रुत्वा पुत्रः प्राह-मातर्यद्वीरैः प्रतिपन्नं तदुष्करमेव न भवति, पुनः सवित्री भणति JainEducationRY For Private Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् श्रीपाळ चरित्रम् ॥१०॥ वयमपि, समागमिष्यामः, कोऽस्माकं त्वं विना प्रतिपदमवष्टम्भदाता ?, इत्युक्ते कुमारो वक्ति-मातस्त्वत्साहितोऽहं देशभ्रमणे पदबन्धनत्वादप्रभुरतस्त्वयात्र स्थेयं, तदा मदना भणति-तनुच्छायावदहं भवदनुगामिनी भविष्यामि, कमऽपि वीर्वधं न करिष्यामि, इति श्रुत्वा कुमारेणोक्तं-एतत्सर्वं त्वयि घटत एव, परं मदचनेनैवात्रै स्थातव्यं, प्रायः सतीनां पतिवाक्यमेव प्रमाणयितव्यं इत्युक्त्वा मदनापि स्थिरीकृता, अथ जनयित्री तस्य निश्चयं ज्ञात्वा तिलकमङ्गलादि करोति, तच्छरीररक्षार्थ वज्रपिञ्जरमालिखति चन्दनकर्पूरगोरोचनादिभिः, यथा-" शिरस्कन्धेऽहतां नाम, मुखे सिद्धगणोऽम्बरम् । आचार्या अङ्गरक्षायां, पाठकाः शस्त्रसश्चयः । १। साधवः पादरक्षायां, एषा पञ्चनमस्कृतिः। शिलावज्रमयी शय्या, स्थापनीया सदा जनैः॥२॥ वो दीप्तः सदा कार्यः, सर्वपापप्रणाशकः। मङ्गलानां च सर्वेषां खातिकाङ्गारपूरिता ॥३॥ स्वाहान्तं च पदं वर्म, भवति प्रथममङ्गलम् ॥ एषा विद्या शरीरस्य, | सततं सौख्यकारिका ॥ ४ ॥ स्मर्त्तव्याहर्निशं पुत्र ! पठित्वा स्वस्थचेतसा । परमेष्ठिपदोद्भूता, वज्रपञ्जरनामिका ॥ ५॥ तथा मदनयाप्युक्तं-स्वामिन् ! क्षणमपि नवपदध्यानं न मोक्तव्यं, यत्प्रसादः प्रत्यक्षं दृष्टोऽस्ति, अहंदादिपदनवकं सर्वाधिव्याधिवारकं समीहितकरं चास्ति, इत्यादिप्रेमप्रपञ्चरचनाचातुरीसुधासिक्तः जिनमतभक्तः मातृचरणाववनम्य मदना| माश्वास्य गृहीतकरवालः श्रीपाल: शोभनलग्नमुहूर्ते गृहाचलितः । ततो ग्रामागरनगरक्षेत्रमडम्बद्रोणपुरपत्तनेषु विविधान्याश्चर्यानि पश्यन् निर्भयमनाः पञ्चाननविक्रमो गिरि प्राप्तः, तत्रोपकण्ठे विपिनमस्ति, तत् कीदृक् ! "रविकिरणा अपि यत्र, स्फुरन्ति नो शाखिपल्लवान्तरिताः । मन्ये नूतनदर्भाङ्कुरमूच्यग्रोद्भवद्भीतेः" ॥१॥ यत्र बहुभिल्लकुन्तप्रोतद्वीपिक्षरदुधिरधारैः । भाति मही किमु पवनश्रीदेवीक्रमजतुरसेन ॥ २ ॥ भात्युन्नततरुशिखराग्रस्खलिता तारतारकालिरिव । यत्र मृगाधिप १ भार. ॥१०॥ Jain Education a l For Private Personal use only Page #27 -------------------------------------------------------------------------- ________________ | निहतद्विपकुम्भान्मौक्तिकश्रेणिः ॥ ३ ॥ कुत्रापि महानादध्वानप्रतिध्वानभरितगिरिदयः । भयमादिशन्ति कातरलोकानां शोकसन्तापम् ॥४॥ कचिदुत्तमतरुनिवहे मन्दाररसालसरसपुष्पफले । नन्दनवनमिव रम्यं कोकिलकलनिनदकृतहर्षम् ॥ ५॥ तत्र चम्पकतरुतलासीनं प्रवररूपनेपथ्यं एक सुन्दरपुरुषं मन्त्रं ध्यायन्तं दृष्ट्वा कुमारेण पृष्टं कोऽसि त्वं., किं| ध्यायसि ?, तदा तेनोक्तं-गुरुपदत्ता विद्याऽस्ति, सा सदुत्तमनरोत्तरसाधकं विना न सिद्धयति, ततो याद त्वं कथमपि उत्तरसाधको भवसि, ततोऽहं कृतार्थः सन् विद्यां साधयामि, इत्युक्ते कुमारः तस्य साहायको जातः, लीलामात्रेणैव एकयैव रजन्या विद्यासिद्धिर्जाता, ततस्तुष्टेन तेन तस्यौषधीयुग्मं दत्तं, प्रत्युपकारार्थमेकाऽगाधजलतारिका नौकावत् अपरा परशस्त्रनि- || वारिका फलकपट्टवत्, ततः स विद्यासिद्धः कुमारेण सार्द्ध यावद्गिरिनितम्बे याति तावत्तत्र धातुवादकपुरुषैर्भणितः-देव ! | त्वदर्शनमतर्कितकल्पद्रुकल्पं जातं, अस्माकं केनापि कारणेन रससिद्धिर्न भवति, तदा कुमारः प्राह-भो धातुवादकाः ? यदि । मम दृष्टया साधयत तदा रससिद्धिर्भवति, तेन तथाकृते कल्याणदा कल्याणसिद्धिर्जाता, तदा तैरुक्तं-भो महाभाग ! त्वत्प्रसादादेव सिद्धिर्जाता, अतस्त्वं काश्चनं गृहाण, ततो निःस्पृहोपि कुमारस्तन्निर्बन्धेन किमपि काञ्चनं गृहीत्वा वस्त्रप्रान्ते निबध्य | भृगुकच्छपुरं प्राप्तः, तत्र कनकव्ययेन वस्त्रालङ्कारशस्त्रादिकं लात्वा स्वर्णमृदङ्गमध्ये औषधीयुगलं प्रक्षिप्य भुजे बद्धा यथेच्छया सुरकुमारवत् लीलाविलासेन कौतुकान्यवलोकमानः परिभ्रमति । इतश्चान्यदा कौशाम्बीवास्तव्यो धवलो नाम सार्थवाहो बहुधनवत्त्वाल्लोकैः कुबेर इति कृतापरनामा बह्वीः कनककोटीः क्रयाणकानि तदादाय अनेकवणिग्जनपरिवृतो भृगु| कच्छे समागतः, तत्रापि प्रचुरलाभो जातः, ततोऽप्यधिकलाभार्थिना तेन परकूलगमनाय यानपात्राणि प्रगुणीकृतानि, तत्र en Education For Private Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम्. ॥११॥ Jain Education वृद्धप्रवहणशतं वेडानामष्टशतं चतुरशीतिर्द्रोणानां चतुःषष्टिविकटानां चतुष्पञ्चाशतं श्रेष्ठानां पञ्चपञ्चाशतं आवर्त्तानां क्षुरप्राकाराणां शस्त्राणां पञ्चत्रिंशतम् एवं बोहित्यानां पञ्चशतं विविधैः क्रयाणकैर्भृत्वा नृपादेशेन निर्यामकादिलोकानधिष्ठाय्य नानाविधशस्त्रव्यग्रहस्तसुभटानां दशसहस्रः संयुतः विमलधवलातपत्रचामरध्वजवर मुकुट विहितशृंगारः पाथेयजलेन धनसंग्रहेण पूरित प्रवहणो धवलः सपरिकरो यावता शुभे मुहूर्ते प्रवहणानि वाहयति तावता निर्यामिकैचालितान्यपि तानि न चलन्ति, तत्स्वरूपं दृष्ट्वा धवलचिन्तावैवर्ण्यमुखो जातः, ततः समुत्तीर्य नगरीमध्ये गत्वा सीकोत्तरी पृष्ठा, सा प्राह-वद्यानपात्राणि देवतया स्तम्भितानि, यदि द्वात्रिंशलक्षणः पुमांसं वलिं ददाति तदा तानि चलन्ति, एतद्वचनमाकर्ण्य धवलो महर्घ्यवस्तुप्राभूतेन नृपं तोषयित्वा विज्ञपयतिदेव ! एकं नरं लक्षणोपेतं बलिकृते समर्पय, तदा राज्ञा भणितं यः कोऽपि वैदेशिकोऽनाथो भवति, यथेच्छया तं गृहीत्वा बलिर्देयः नान्यस्येति राज्ञोक्ते धवलभटास्तादृशं नरं नगरान्तर्गवेषयामासुः, तत्रद्वात्रिंशल्लक्षणधरो वैदेशिकः श्रीपालः कुमारो दृष्टः, तैर्धवलस्याग्रे कथितं, धबलेन पुना राजा पृष्टः तेनापि प्रोक्तं- एप ग्रहीतव्यः, अथ तग्रहणे प्रोत्कटशस्त्रैर्धवलचतुष्पथे स्थितो लीलामनुभवन श्रीपालो झटिति आक्षिप्तः- अरे त्वरितं समागच्छ अद्य धवलश्रेष्ठी रुष्टः त्वां देवतायै बलिं दास्यति, इत्याकस्मिकं वचो निशम्य कुमारः प्राह - भो भटाः । तेन धवलपशुना वलिं ददत, परं कुत्रापि केनापि पञ्चाननवलिर्नो दीयते, ततो भटा निजवलं प्रकटयन्ति कुमाराकारणार्थ, तदा कुमारेण सिंहनादः कृतः, गोमायुगणवत् ते नष्टाः अथ धवलपक्षेण राज्ञा स्वसैन्यं प्रेषितं, तदपि कुमारेण क्षणार्द्धेन हतप्रभावं रज इव दूरीकृतं, ततो धवलादेशेन भटा नरपतिभटाश्च कुमरं वेष्टयन्ति मायाबीजमित्र रेखाः, ततो धवलो भणति - अरे ! अत्रैवैनं शस्त्रच्छिन्नतनुं कुरुत, येन बलिं दत्वा देवता तोष्यते इति श्रुत्वा तैः शस्त्राणि क्षिप्तानि तस्योपरि, परं महौषधी श्रीपाळ चरित्रम्. ॥११॥ www.Janelibrary.org Page #29 -------------------------------------------------------------------------- ________________ प्रभावादभव्यानामुपदेश इव न लग्नानि, पुनः कुमारेण स्वशरस्तषां केषांचित्कणेनक्रकेशमुकुटध्वजादयो लूनाः, करुणापरत्वाज्जीवितं | नो हृतं, धवलस्तं दृष्ट्वा चिन्तयति, एष न मनुष्यमात्रः, किन्तु खेटो विकटः सुरवरो वेत्यतुल्यमहिमा, ततः कृतप्राञ्जलिर्द्धवलो वक्तिभो महाभाग ! प्रसादं कृत्वा स्तम्भितयानपात्रमोचनोपायं किमपि कुरु, सत्पुरुषाश्चोपकारपरा भवन्ति, तदा कुमारेणोक्तं-यदि त्वद्यानपात्राणि मोचयिष्यन्ते तदा किं लभ्यते, स वक्ति-दीनारलक्षमेकं, तच्छुत्वा विकसितवदनकमलो हर्षप्रफुल्लितकपोल: कुपरश्चलितः, धवलोऽपि लोकपरितः प्रवहणं प्राप्तो, निर्यामका अपि स्वस्वप्रवहणप्रेरणव्यापारकरणप्रवणा जातास्तदा कुमारेण नवपदध्यानप्रवणेन सिंहनादो मुक्तः, तं सिंहनादं श्रुत्वा क्षुद्रदेवताः शृगालिकावनष्टाः, प्रवहणानि चलितानि व पनिका कृता, क्रायकजनैस्तूर्याणि | वादितानि, नर्तिता वारयोषितः-इत्याद्यद्भुतं विलोक्य धवलश्चिन्तयति, यद्यपः सार्थे भवेत्तदा सर्वत्राविघ्नं भवेदिति विचिन्त्य | लक्षं दीनाराणां चादाय विनयप्रगुणो वदति धवल:-भो महाभाग एतल्लक्षं त्वदीयं गृहाण, परं मत्सार्थे सुभटानां दशसहस्राणि सन्ति । तेषां प्रतिपर्ष प्रत्येकमेकशतं दीनाराणां ददामि, त्वमपि यदि सार्थरक्षां कुर्यास्तदा तवापि तत्परिमाणां जीविकां दद्मः, इति श्रुत्वा | हसित्वा श्रीपालो भणति-यदि तेषां सर्वेषां वृत्ति मेलयित्वा कोटिप्रमाणं ददत तदा करोमि, तेषां सर्वेषामप्येकोऽहं कार्य नान्यथा, | इति श्रुत्वा पुनर्वक्ति धवल:-यदि दशसहस्राणि गृह्णासि तदा ददामि कोटिमार्गणं वृयैव, तदा कुमारेणोक्तं-नास्ति मे कृत्यं त्वदाजीविकया, किन्तु विविधदेशावलोकनार्थ त्वत्सार्थमिच्छामि, तदा पोताधिपो भणति-यदि भाटकंददासि तदा प्रवहणे प्रतिष्ठाप्यसे, इत्युक्ते दीनारशतं भाटकं समर्प्य स्थितः, पोतः चलितो रत्नद्वीपमुद्दिश्य, तत्रैके वादयन्ति वादित्राणि एके गुणक्षा समारति (?) केपि ध्रुवमण्डलमालिखन्ति केपि दहिस्ता इतस्ततो जलं भ्रामयन्ति, एके वेलामतिकामन्ति नाविकास्तत्पयाणप्रवणं शास्त्रं वाचयन्ति Jain Education Local For Private & Personel Use Only hinelibrary.org Page #30 -------------------------------------------------------------------------- ________________ rx ज्ञानवि० कृतम् ॥१२॥ Jain Education In ase परिपन्थिकप्रवणानि दृष्ट्वा यन्त्रादिकं सज्जीकुर्वन्ति केऽपि जलधिमध्ये रवेरस्तोदयं पश्यन्ति, केऽपि विविधनक्रचक्रपाठीनपीठवाडवाल मुर्द रहस्तिप्रतिमल्लतन्तुमत्स्यादीनां विविधविनोदाश्चर्याणि पश्यन्ति एतादृशान्याश्चर्याण्यवलोकमानाः सर्वे यावता यान्ति तावता कर्णधारेण प्रोक्तं- अत्र, बर्व्वरकूलं समागतं, यदि जलेन्धनपाथेयादिग्रहणकृत्यं भवेत् तदा त्वरितं ग्राह्यं विलम्बो न कार्यः, तं श्रुत्वा सप्रमोदाः सर्वे लोकास्तग्रहणाय समुत्तीर्णाः दशसहस्रभटपरिवेष्टितो धवलोsपि तटे स्थितः । अत्रान्तरे जनकोलाहलं श्रुत्वा वर्च्चरराजनियुक्ताः शुल्कग्राहिणः पुरुषास्तत्र समेताः, शुल्कं मार्गयन्ति परं दपाध्मातः श्रेष्ठी नार्पयति तदा तैः स्वराजा विज्ञप्तः, तत्र भूरिलो महाकालोऽप्यागत्य शुल्कादिभागं मार्गयति, परं श्रेष्ठी नार्पयति, सुभटान् प्रेरयति च, उद्भटविकटशस्त्रा धवलभटा बरकूल सह युद्धं व्यधुः, प्रथमं महाबलभटवलं भग्नं, तत् दृष्ट्रा पुनमर्हकालवलेन त्वरितं महद्धलमुत्थापितं बर्बराधिपतितेजोऽसहमाना धवलभटार्नष्टाः, ततः पादचारी धवलः संग्रामार्थमागतः पातयित्वा बद्धो वर्व्वरेण, सार्थरक्षणे स्वनियुक्तान् प्रस्थाप्य स्वयं स्वपुरे गतः तदवसरे कुमारो धवलं प्रत्याह- भोः श्रेष्ठिन् । कुत्रगतास्ते सुभटा येषां कोटी समर्प्यते, तदा घवलो भणति भो महाभाग ! क्षते क्षारक्षेपणं दग्धोपरि स्फोटकभवनं पतितस्य लत्ताप्रहार : मृतस्य मारणमिति न्यायं करोषि तदा कुमारो भणति स्फुटं - अद्यापि यदि कोपि त्वत्सर्वस्वं प्रतिगृह्णाति तस्य किं प्रदीयते ?, धवलो भणति - न सम्भवत्येवं कदापि यदि कोपि एवं कुर्यात् तदा तस्य सर्वस्यार्द्धं ददामि, अत्र कः प्रतिभूः, तदा श्रेष्ठी वदति-सत्पुरुषाः प्रमाणमिति श्रुत्वा धनुर्द्धरः कुमारः अंसन्यस्तोभयतूणीरः पृष्ठे गत्वा महाकालं भणति - भो बर्न्दर गन्तुंनो पुज्यते, क्षणमेकं मम वलं त्वया प्रेक्षणीयम्, तन्निशम्य पश्चाद्वलित्वा महाकालो जल्पति - बालोऽसि दर्शनीयाऽसि, रूपलक्षणलावण्यादिगुणरत्नरोहणोऽसि, किमर्थं त्वं मुधा क्लेशमनुभवसि, तदा कुमारो भणति - भो नृप ! बुबकाः पुरुषाः श्रीपाल चरित्रम् ॥१२॥ nelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Page #32 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. झानवि० कृतम् श्रीश्रीपालचरित्रे नयविमलीये जैनपुस्तकोद्धारमुद्रिते द्वादशात्पत्रादेतावन्तं ग्रन्थमनुसंदधतु विद्वद्वर्याः । - वाङ्मात्रसाराः परमार्थशून्याः कदलीस्तम्भवद् बहिः सारा अन्तेः शून्या भवन्ति इति भणित्वा धनूरत्नमास्फाल्य क्षुरपाकारशरप्रेषणेन नृपस्य कीर्तिरिव केतुः पातिता, ततो बर्बरसुभटैः शरमण्डपः कृतस्तदुपरि, परमौषधीप्रभावात् न कोऽपि लग्नः, कुमारस्य चैकोऽपि शरो नवपदध्यानप्रभावात् लक्ष्यता प्राप्तः, तैः कृत्वा केऽपि पतिताः केऽपि नष्टाः केऽपि पदे लग्नाः, अथ महाकालोऽपि कुमाराभिमुखं स्वहस्तेन शस्त्राणि चिक्षेप, परमौषधीमाहात्म्यात् तस्याने एकमपि न लग्नं, ततः कुमारेण बर्बराधिपतिः कर्णग्राहमेडिकवद्धद्धः, | तं दृष्ट्वा सर्वेऽपि बर्बराः प्रणष्टाः, धवलोऽपि बन्धनात् छोटितस्तदा शीघ्र खड्गमाकृष्य महाकालहननार्थ धावितः, तदा श्रीपालो भणति| भोः! श्रेष्ठिन् इदानीं बलं दर्शयसि पूर्व कुत्र गतं तदलं ?, 'शरणप्राप्त गेहागतं च बद्धं च रोगपरिभूतम् । वृद्धं बालं त्रस्तं न ध्नन्ति । कदापि सत्पुरुषाः ।।१॥' श्रेष्टिना दशसहस्रभटानामाजीविका भन्ना, ते सर्वेऽपि भटाः श्रीपालमाश्रिताः, स्वकभागलब्धसार्धद्विशत| प्रवहणरक्षाकृते स्थापिताः, महाकालोऽपि श्रीपालेन सपरिकरो वस्त्रशस्त्रादिभिः सन्मान्य गृहे विसर्जितः, तस्य कुमारस्य तादृशं चरितं | दृष्टा चित्ते चमत्कृतो विनयेन भणति-पुरुषोत्तम ! १२॥ Jan Education For Private Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ का मदीयं पुरं येन वयमपि भक्ति दशामाणोऽपि सपरिकरः कुमारः प्रायन पुरम् । जगत्पूज्यस्त्वच्चरणसरोजरजोभिः पुनीहि मदीयं पुरं येन वयमपि भक्तिं दर्शयामः, इति श्रुत्वा दाक्षिण्यक्षीरनीरधिर्यावता कुमारस्तदाग्रहं मनुते तदा वारयति धवळः ‘पापाः सर्वत्र शङ्किताः' इति न्यायात्, वार्यमाणोऽपि सपरिकरः कुमारः प्राप्तो बर्बराधिपपुरम् , अथ महाकालः स्वसिंहासने कुमारकेसरिणं प्रस्थाप्य बद्धाञ्जलिर्भणति-भो आर्य ! " त्वदायत्ता इमे प्राणाः, राज्यं प्राज्यधनं पुरम् । बन्दिरं मन्दिरबातमेतत्सर्व भवदशम् ॥१॥" परमन्यत् मत्पुत्री प्राणेभ्योऽपि अतिवल्लभा मदनसेना नाम्नी आस्ति, तां परिणय प्रसन्नीभूय, इति निशम्य कुमारः प्राह-अज्ञातकुलशीलस्य वैदेशिकस्य मम निजकन्या कथं दीय ते?, अतोविचार्य प्रदेया, ततो महाकालो भणति-ज्ञातं युष्मतकुलममलशरच्चन्द्रकरनिकरधवलाचारेणैव, सन्तः प्रार्थना न निष्फलयन्ति, इति बह्वाग्रहं विज्ञाय ओमिति भणितं कुमारण, महामहेन परिणाययति स्वसुतां पिता, ददाति च भूरिश्रियं, कुमारसार्थागतं परिवारं वस्त्रादिभिः परिधापयति, IN दापयति नवनाटकानि, एकं च महाजुगं चतुष्पष्टिकूपस्तम्भसनाथं प्रवहणरत्नं बहुरत्नभृतं च, राजा कुमारसहितः तटे प्राप्तः, तदा श्रेष्ठी तं विभवं दृष्ट्वा चिन्तयति चित्ते-अहो किमेतत् जातं ? यदेष एकाकी ममृत्यतुल्यः एतादृशमैश्वर्य प्राप्तो भाटकमात्रमपि मे नार्पयिष्यति, इति चिन्तयित्वा यावत् भाटकं याचते तावत्कुमारोऽपि दशगुणं भाटकं प्रादात्, महाकालोऽपि स्वपुत्री सपरिकरां जामातरं च सम्प्रेष्य निजपुरी प्रति पश्चालितः, अथ कुमारोऽपि प्रवहणस्थितः श्रेष्ठियुतः क्रमेण जलधि लङ्घयित्वा रत्नद्वीपं प्राप्तः संयमेन मुनिरिव शमस्थानं, तत्र रज्जुभिः प्रवहणानि स्तम्भयित्वा भाण्डान्युत्तार्य वेळाकूलपुरतटे पटमण्डपावासमध्ये निवसन् नाटकान्यवलोकयन् विमानस्थितः सुर इव तस्थौ । श्रेष्ठयपि तस्मिन् द्वीपे बहुलाभं विज्ञाय | विज्ञपयति कुमारं-भो आर्य ! स्वप्रवहणानां क्रयाणकानि किं न विक्रीणासि ?, तदा कुमारो वक्ति-तात ! किमस्माकमन्तरमस्ति ?, Jain Education inliona For Private Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् श्रीपाल चरित्रम्. AI "२/ ॥१३॥ श्यमेव सर्वक्रयाणकान्यादाय यथा सम्यग् भवेत्तथा कुरुत, इति श्रुत्वा हृष्टः श्रेष्ठी चिन्तयति-सम्यग् जातं, स्वचिन्तितं करिप्यामि, येन क्रयविक्रयो वणिनां चिन्तामणिरिव चिन्तितफलदः “ वणिजा कोऽपि व्यापारश्चिन्तामणिरिवेष्टेदः । किं पुनः स्वर्णरूप्याणां ?, व्यापृतिः स्ववशा शुभा ॥१॥ प्रोक्ता इति ध्यायनिश्चिन्तो धवलो व्यापृति करोति। अत्रान्तरे कोऽपि पुर्जनः सुरकल्पश्चारुनेपथ्यः सुप्रसन्नवदनः प्रोत्फुल्लनयनकमलः उत्तमहयरत्नमारूढः परिकरपरिकलितः कुमारस्योपकार्या वेश्मद्वारि समागतो, यावता नाटकमवलोकयति तावता कुमारेणाकारितः कृतप्रणामः आसनादिना लब्धसन्मानो विनयपरो विश्वस्तः कुमारपाचँ स्थितः चिन्तयति-नूनमेष कोऽपि राजमूनुरनूनरूपविभवभर्सितादित्यमूनुः, कुमारेणापि प्रेक्षणपूर्व्यवसरे पृष्टः कोऽसि त्वं ? कुत्र वासः? किमर्थमागत? दृष्टमपूर्व किमप्याश्चर्य?, तदा स जल्पति विनयपरः-भो देव ! अत्र द्वीपे रत्नसानुर्वलयाकारेण गुरुशिखरः शैलोऽस्ति, तन्मध्यकृतनिवेशा अलकापुरीव महेश्वरकृतनिवासा रत्नसंचया नामपुरी, तत्र कनककेतू राजा राज्यं कलयति, तस्यास्ति कनकमाला लावण्यादिगुणगणशाला प्रिया, तत्कुक्षिसरोजिनीमधुकृतश्चत्वारः पवित्राः पुत्राः कनकमभकनकशेखरकनकध्वजकनकरु. चिनामानः सन्ति, तेषामुपरि चैषा एका मदनमञ्जूषा नाम्नी पुत्री उपनिषदिव वेदानां सकलकलाकलापपारीणा ज्ञाततत्त्वा निर्जितरतिरूपा अस्ति, तस्यामेव पुर्या विहितजिनदेवसेवो जिनदेवो नाम श्राद्धः, तत्पुत्रोऽहं जिनदासः, पुनरप्याश्चर्य शृणु-तत्रैव कनककेतुनृपपितामहेन कारितं गिरिशिखरशिरोरत्नं श्रीऋषभानननाथस्य भवनमस्ति, तत्कीदृशं ?-" तुझं सज्जनचित्तवन्नवसुधाहारि प्रजापालवत्, कल्याणग्रथितं सुपर्वनिकरप्रस्थं सुमेरोरिव । आप्तप्राप्तप्रतिष्ठमिष्टफलदं सद्वृत्तवन्निर्मलं, सच्छायं सुमनोयुतं च १ ए धनदम् ! ॥१३॥ Jain Educat onal Inelibrary.org Page #35 -------------------------------------------------------------------------- ________________ सवृष मन्दारवद्राजते ॥ १॥" तदन्तः कनकमयी त्रिभुवनजनमनोजनितानन्दा श्रीऋषभप्रतिमाऽस्ति, तामचैत्यनुदिनं भक्ति- | युतो राजा, लोकोऽपि सप्रमोदस्त्रिसन्ध्यं पूजयति नमति च, नृपपुत्री अपि विशेषतो भक्तिपूरितमानसा पूजति अष्टविधपूजया, अथान्यदा विधिकृतविस्तृतपूजा भावयुता देवान् वन्दते, त्रिकरणशुद्धया स्तौति, यथा-स्वामिन् ! जिनाधीश जगन्नरेन्द्र, निरञ्जनानन्तचिदात्मरूप! । सिद्ध स्वयम्बुद्ध महेश्वर त्वं, जयाऽखिलज्ञान जगत्पुराण॥१॥ त्रिकालवित जङ्गमकल्पशाखिन, जगज्जनाभीष्टविधापनेऽलम् । तत्वाम्बुधेः सर्वसुखैकधाम, प्रभावकारुण्यनिधे जय त्वम् ॥ २॥ उद्धर्तुमाप्तोऽसि जगज्जनानां, त्वं मानवं रूपममेयरूपम् । त्वत्तो महानन्दपदं लभन्ते, जना जगत्यद्भुतभाग्यभाजः ॥ ३ ॥ त्वया जगद्धन्यामिदं हि जात, | पुनः सनाथा भविनोऽत्र विश्वे । बुधा विदु व यथाऽऽत्मरूपं, माहात्म्यमेतत्तव विश्वनाथ ॥ ४ ॥ त्वयि स्थितं ब्रह्म परं जिनेन्द्र, सद्धयानरूपं विदितं विशुद्धम् । यदंशमात्रस्मरणादभेदभावं भजन्ते भवतो भवाब्धेः ॥५॥ पश्यन्ति नो भाग्यविवर्जितास्त्वां चिन्तामणीवद्भवने दुरापम् । देवाधिदेवः कथितस्त्वमेव, गुरुर्गुरूणां हितवाक्यदानात् ॥ ६॥ त्वद्ध्यानतो नैव भवन्ति विश्वे, सप्तेतयो दुष्कृतयः कदापि । सहस्रभानौ स्फुरति प्रसारो, न स्यात्तमिस्रस्य घनस्य यस्मात् ॥ ७ ॥ ध्येयस्त्वमेवासि हि योगिनां यदष्टाङ्गयोगः प्रससार त्वत्तः । दुष्टाष्टकानलतप्तजन्तुश्रीखण्डकल्पं तव नाम विश्वे ॥ ८ ॥ इत्यष्टकेन यावत्रिकरणशुद्धया । स्तौति तावन्नरेन्द्रोऽपि तत्र प्राप्तः, पूजाविधि विलोकयन् हर्षपुलकिताङ्गश्चेतसि चिन्तयति-अहो अपूर्वा पूजा निम्मिताऽनया, विज्ञानं च दर्शितं, धन्यैषा कृतपुण्यका, यदेतादृशो भावः सरलस्वभावः स्थिरता मनसः प्रभावना तीर्थस्य कौशल्यं विज्ञानस्य भक्तिस्तीर्थकरस्य सम्यक्त्वस्याऽद्भुतता, ततो यदि कथमपि अस्यानुरूपो वरश्चेद्भवति तदा मन्मनः सुखीभवेदिति निजसुतावर E in Educa national For Private & Personel Use Only s jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् ॥१४॥ Jain Educatio प्राप्तिचिन्ताशल्यितो राजा ध्यानलीनमुनिवच्छून्यमनाः क्षणं स्थित्वा निर्गतः सुतापि पूजां कृत्वा कृतत्रिणामा यावता पश्चिमपादैर्जिन गर्भगेहान्निर्गच्छति तावता तत्कालमेव तद् द्वारकपाटसम्पुटं तथामिलितं यथा बलिनापि केनाप्युद्घाटयितुं न शक्यते, तदसमञ्जसं विलोक्य निन्दत्यात्मानं नृपसुता अहो हताशा कृतपापाऽशुभभावा अधन्याऽहं अज्ञानवशेन काप्याशातना जाता, एनं ममापराधं क्षमस्त्र प्रसादं कुरु ददस्व दर्शनमित्यादि विलपन्तीं स्वनन्दिनीं निरीक्ष्य राजा वक्ति-भो वत्से ! नास्ति तवापराधः किन्त्वस्ति ममैवात्र दोषः, यज्जिनगृहमध्यगतोऽहं त्वद्वरचिन्तया शून्यमनस्त्वेन स्थितः, अतो मनोनैकत्वकररूपाशातनायाः फलमेतज्जातं तेनाहं निजापराधमेव तर्कयामि, वीतरागो भगवान्नैव केषांचिदुपरि शेषमाधत्ते, परं जिनभुवधिष्ठायकेन कृतमस्ति, ततो नरेन्द्रोऽपि बलिकुसुमचन्दनकर्पूरागुरुमृगनाभिधूपप्रवरभोगमानाय्य धूपधाम गृहीत्वा विधाय धूपप्रदीपादि निश्चलगात्रो निर्मलमना नन्दिनीयुतः सचिवादिपरिच्छदवृतः स्थितः, तदा रङ्गमण्डपोऽपि जनहृदये रङ्गं नोत्पाद|यति, केsपि कन्यादूषणं केपि नरेन्द्रस्य केऽपि देवस्य वदन्ति, बहुप्रकारः मलापो लोकानां जातः, उपवासत्रयं जातं, तस्मिन्नवसरे पाश्चात्य त्रिशेषे एतादृशी गगनवाणी जाता, दुहा- “ दोस न कोई कुमारिया, नरवर दोस न कोय । जिणकारण जिणहर जड्यो, तं निसुणो सहु कोय ॥ १ ॥ " एतादृशं ध्रुवपदं श्रुत्वा बाला हर्षजनितरोमाञ्चा जाता, राजाऽपि सानन्दो जातः, लोका अपि प्रमोदं प्राप्ताः, परं चिन्तयन्ति - केन हेतुना दत्तं द्वारामिति ? , ततः पुनर्वाणी जाता - " जसु नर दिहिहिं होइस्यें, जिणहरु मुक्कदुवार । सोइज मयणमंजूसियह, नियें होस्यें भरतार || १ || " | ततो गाढतरं हृष्टाः सर्वेऽपि राजादयः, एवं कदा भविष्यति इति चिन्तातुराः, ततः पुनर्वाणी जाता - दुहा " श्रीरिसदेसर ओ श्रीपाल चरित्रम्. ॥१४॥ ainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ लगाण, हुं चक्केसरिदेवि । मासब्भन्तर तसु नरहिं, आवीसुं निश्चई लेव ॥१॥ न कोऽपि दोषो नृपतेः कुमार्याः, यदागमेनोद्घटते कपाटम् । पतिः कुमार्याः स मिलिष्यतीह, मासेन सम्भाष्य तिरोदधे सा ॥ १ ॥ इति श्रुत्वा निश्चयार्थ प्रमुदितः पौरलोकः, वादितानि तूर्याणि, राजापि ततः समुत्थाय निजगेहं प्राप्तः, निजवेश्मस्थजिनबिम्बानि पूजयित्वा पारणा | विहिता, सा वार्ता सर्वत्र विस्तृता, तेन सर्वेऽपि आगच्छन्ति सप्रमोदा जिनगृहद्वारे, अनुद्घाटिते सविषादा द्यूतकारा इव पश्चाद्रजन्ति, | एवं च तद् द्वारं न केनाप्युद्घाटितं तस्य चैत्यगृहस्य, किञ्चिदूनो मासो जातः, एतदाश्चर्य त्वया पृष्टं कथितं च, भोः पुरुषोत्तम ! यदि त्वं समायासि तत्र ध्रुवमुद्घटिष्यति, चक्रेश्वरीवागपि मिलिता, इति श्रुत्वा त्वरितं तुरगारूढः कुमारः श्रेष्ठिनं ब्रूते-तात ! भवद्भिरपि आगन्तव्यं येन ब्रजामस्तत्र चैत्ये, तदा श्रेष्ठी भणति-यूयमेव क्षीणकर्माणः अन्योपार्जितधनभोक्तारो निश्चिन्ताः स्थ, नूनं भवन्त इव वयं न तादृशास्तत्र गन्तुं सावकाशाः, अस्मत्कार्य यूयमेव कुरुत, इत्यादि श्रुत्वा धवलं दुर्ग्रहमिव मुक्त्वा सर्वसार्थवाहपरिकरितः कुमारसहितो जिनदासो जिनभवनपार्चे गतः, ततः कुमारी भणति-भो भो जनाः! पृथक् पृथक् गच्छत येन द्वारोद्घाटकः पुमान् स्फुट लक्ष्यते, तदा परिकरो वदति-स्वामिन् ! मैवं समादिश, मूर्यमन्तरा कः कमलवनं प्रबोधयति शशिनं विना कः कुमुदवनोल्लासं कुरुते ? वसन्तमन्तरा को वनराणि नवपल्लवाङ्कुरितां विदधाति ? सहकारमन्तरा कः समुद्घाटयति कोकिलाकण्ठं ? तद्वत् त्वां विना न कोऽप्युद्घाटयितुं प्रभुः, ततः कुमारस्तुरगादिकं मुक्त्वा विहितोत्तरासङ्गः कृतनैषधिकाशब्दः सिंहद्वारं प्रविश्य यावत् रंगमण्डपे याति उत्फुल्लनयनमुखकमल: तावत् कृतकिंकाररवं अररियुगं झटिति राजसुता १ यदागमेनोद्धटते इति पाठः । Jain Education anal Finelibrary.org Page #38 -------------------------------------------------------------------------- ________________ ज्ञानवि० श्रीपाल कृतम् चरित्रम्. ॥१५॥ पुण्यमिवोद्घटितं, तत्रान्तर्गत्वा वस्त्रालङ्कारममृणधुमृणादिकृतपूजमम्लानकुसुमदामसनाथं कृतदुष्कृतोन्माथं श्रीकृषभनाथं वन्दित्वाऽतुलफल ग्रहणाय फलोपढौकनं कुरुते, अत्रान्तरे राजापि सुतायुतः समेतः अद्भुतकुच्चरित्रं पवित्रं कुमारं निभृतं प्रेक्षते, कुमारोऽपि हर्षप्रकर्षापकर्षितप्रमादपटलो भालतलन्यस्तकरकमला पञ्चाङ्गप्रणामस्पृष्टभूमण्डलः श्रीऋषभजिनं स्तौति | काव्यैरेवं-" इष्टानिष्टवियोगयोगहरणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूर्तिजनानन्दिनी । नित्यं | मानववाञ्छितार्थकरणान्मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचो वादिनी ॥ १ ॥ चित्रं चेतसि वर्चतेऽद्भुतमिदं व्यापल्लताहारिणी, मूर्ति स्फूर्तिमतीमतीव विमलां नित्यं मनोहारिणीम् । विख्यातां स्नपयन्त एव | मनुजाः शुद्धोदकेन स्वयं, संख्यातीततमोमलापनयतो नैर्मल्यमाविभ्रति ॥ २॥ धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः । धन्यं कर्णयुगं वचोऽमृतरसं पीतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः॥३॥ किं पीयूषमयी कृपारसमयी कर्पूरपारीमयी, किं वाऽऽनन्दमयी महोदयमयी सयानलीलामयी। तत्त्वज्ञानमयी सुदर्शनमयी निस्तन्द्रचन्द्रप्रभासारस्फारमयी पुनातु सततं मूर्तिस्त्वदीयात्मनाम् ॥४॥ लोकालोकविभासनैकतरणिप्रायास्त्वदीयाः शुभा, वाचो वाक्यवतामशेषविमलज्ञानं सदा तन्वते । संसाराम्बुधिमध्यमज्जदसुभद्वन्दस्य याः साम्प्रतं, पोतायन्त इव प्रहृष्टमनसस्त्वद्ध्यानमासेदुषः ॥ ५॥ इत्यादि स्तोतुं प्रचक्रपे, श्रीसिद्धचक्रमाहात्म्यचरित्रेऽप्युक्तम्-"सिरिसिद्धचक्कनवपयमहल्लपढमिल्लपयमयजिणंद । असुरिंदसुरिंदच्चियपयपंकय नाह तुज्ज नमो ॥ १ ॥ सिरिरिसहेसरसामिय कामियफलदाणकप्पतरुकाप । कंदप्पदप्पगंजण, भवभंजण देव तुज्झ नमो ॥२॥ सिरिनामिनामकुलगरकुलकमलुल्लासपरमहंससम ! ॥१५॥ in Educatan Interna For Private & Personel Use Only Page #39 -------------------------------------------------------------------------- ________________ असमतमतमतमोभरहरणिकपईव तुज्झ नमो ॥ ३ ॥ सिरिमरुदेवासामिणीउयरदरीवसियकेसरिकिसोर !। घोरव्वयदंडखंडियपचंडमोहस्स तुज्झ नमो ॥ ४ ॥ ईक्खागवंसभूसण, गयदूसण दुरियमयगलमयंद । चंदसमवयण विहसियनीलुप्पलनयण तुज्झ नमो ॥ ५॥ कल्लाणकारणुत्तम, तत्तकणयकलससरिससंठाण । कंठठियकालकुंतल, नीलुप्पलकलिय तुज्झ नमो॥६॥ आईसर जोईसर, लयगयमणलक्खलक्खियसरूव । भवकूबपडियजंतुत्तारण जिणनाह तुज्झ नमो ॥ ७॥ सिरिसिद्धसेलमंडण, दुहखंडण खयररायनयपाय । सयलमहसिद्धिदायग, जिणनायग होउ तुज्झ नमो ॥ ८ ॥ तुज्झ नमो तुज्झ नमो तुझ नमो देव चेव | तुज्झ नमो। पणय सुररयणसेहरमइरंजियपाय तुज्झ नमो ॥९॥ इति स्तवनं ॥ इति कुमारविहितसंस्तवं शृण्वन् सुतासहितो भूयोऽप्यानन्दपुलकितललिततनुः सिक्त इवामृतरसेनाभिषिक्त इवामन्दानन्दक्षीरनीरनिधिधाराप्रवाहेण सम्पृक्त इव स्वर्णसिद्धिपुरुषेण लिप्त इव मलयजरसेन दीप्त इव राजतेजसा जातः, कुमारोऽपि जिनचरणसरोजे स्वशीर्ष निवेश्य प्रणामं विधाय बहिर्मण्डपे करवन्दनेन नरनाथं प्रणमति, नृनाथोऽपि तमभिनन्य भणति-भो महाभाग ! यथा त्वया भवनमुद्घाटितं तथा स्वचरितमपि प्रकटय इत्युक्ते कुमारेणाभाणि-भो भूमिपाल ! उत्तमाः स्वनामापि नो वदन्ति, किं पुनः स्वचरितं ?, इति तद्वचनं श्रुत्वा राजा यावता चिन्तयति तावता चारणमुनिस्तत्र चैत्यपाधै समागतः, अथ सर्वे देवान वन्दित्वा मुनिवंदनार्थ गताः, उपविष्टाः, तत्र च चारणश्रमणो धर्म कथयामास-इह खलु आर्यमण्डलोपलब्धजन्मानोऽपि स्वभावत एव मदमोहमदिरामत्ताः मनाक् प्राप्तशिवपथानुकूलवैराग्या अपि पाणिनःप्रायो दूरमुत्सारितप्रचुरतरमोहतिमिरपसरावेशं धर्मोपदेशमन्तरा न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमहन्ति, कथञ्चित्तत्रावतीर्णा अपि अनादिकालविलग्नमीनवासनासंतानविषमवेगावेशेन विक्षोभ्यमाणमनसो न स्थैर्यमव 10 Jain Educo lemational For Private & Personel Use Only W ww.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् ॥१६॥ Jain Educatio लम्बितुमलमित्यवधार्य परहिताधाननिविडनिबद्धबुद्धिविभववैश्रमणश्चारणश्रमणो मनुष्यत्वावासिदौर्लभ्यं प्रकटयन्नाह काव्यम् - "महानसं १ पाशक २ शस्यराशी ३ द्यूतं ४ च रत्नं ५ च मृगाङ्कपानम् ६ । चक्रं ७ च कूर्म्म च ८ युगं ९ पराणु १०. निदर्शनानां दशकं नृलाभे ॥ १ ॥ " अथ तानेव व्याख्यास्यामः- दृष्टं प्रमाणोपलब्धमर्थं मनुजत्वदुर्लभत्वादिलक्षणं तं श्रोतुः प्रतीतिरूपं नयन्तीति दृष्टान्ताः नृलाभे मनुष्यप्राप्तावित्यर्थः, दृष्टान्तयोजना चैवं कार्या- जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्म्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतु:, यद् बहुभिरन्तरायैरन्तरितं तत्पुनर्दुःखेन लभ्यते, यथा ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणस्य एकदा चक्रवर्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्र वास्तव्य राजादिलोक गृहभोजनपर्यवसाने पुनश्चक्रवर्तिगृहे भोजनम्, भोजननिष्पत्तिस्थानं अत्र तु महान समित्युच्यते, अत्र तु महानसशब्देन भोजनं ग्राह्यं धर्मधर्मिणोरभेदोपचारात् “ चुल्लग पासगधने " इति पूर्वाचार्यप्रणीतगाथायामपि " चुलकेति " देश्यशब्देन महानसमेवोच्यते इत्यस्माभिरप्येवमुक्तम् १, चाणाक्यपाशकपातवत् अन्येषां तत्पाताऽविजयवत् २ भरत क्षेत्रानिष्पन्नसर्वधान्यप्रक्षिप्तस पर्पप्रस्थस्य पुनः पृथक्करणवदिति शस्यराशिः ३ अष्टाधिकस्तम्भशतस्याष्टोत्तरशतवारनिरन्तरद्यूतजयवत् ४ महाश्रेष्ठिपुत्र नानादेशवणिग्गविक्रीतरत्नपुनःसमाहरणपुत्रप्रवेशवत् ॥ ५ ॥ महाराज्यस्वप्नदर्शनाकांक्षिपुनःस्वपत्कापटिक मूलदेव सदृक्फलस्वमलाभवत् मंत्रिदोंहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारको परिवर्त्यन्तरितराधावेधवत् ७ एकच्छत्रमहाचम्र्म्मावनद्धमहाहद समुद्भूतकच्छपग्रीवानुप्रवेशोपलब्धचन्द्रदर्शनस्य पुनस्तच्छिद्रलाभवत् ८ महासमुद्रमध्ये विघटितपूर्वापरान्तर्विक्षिप्तयुग समिलास्वयछिद्रानुप्रवेशवत् ९ अनन्तपरमाणुसङ्घातघटितदेव सञ्चूर्णितविभक्ततत्परमाणु समाहारजन्यान्यस्तम्भभवनवत् १०, इत्थं मनुजत्वं दुर्लभं प्राप्य ६ ational श्रीपाल चरित्रम् ॥१६॥ Jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ सम्यग् जिनोक्तं धर्म कुरुत यदिहामुत्र कल्याणं वाञ्छथ, तत्र जिनेन तत्त्वत्रयाराधनमयो रम्यो धर्मः प्रोक्तः, | तत्त्वत्रिकं तु सुदेवसुगुरुसुधर्मलक्षणं, तत्र विभेदं देवतत्त्वं अतिसिद्धलक्षणं आचार्योपाध्यायसाधुभिः त्रिभेदं गुरुतत्त्वं दर्शनज्ञानचारित्रतपश्चतुर्भेदं धर्मतत्त्वं, एतेषु नवपदेषु जिनमतसर्वस्वमवतारितम्, एतदाराधनेन जिनमतमाराधितं, तत्राष्टादशदोषरहितो द्वादशगुणोपेतो निखिलकर्ममलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकस्तदनु जगज्जन्तुजीवातुसन्तोषकारणपुरन्दरादिसुन्दरसुरसमुदयाहियमाणप्रातिहार्यपूजोपचारः तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैकका. लानेकसत्त्वसङ्घातसन्देहापोहस्तदनु स्वविहारपूतपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोभरः इति मूलातिशयचतुष्टयविशिष्टाष्टप्रातिहार्यवर्यः श्रीमान् भगवानहन् सुदेवः, सिद्धाः काष्टक्षयजनिताष्टगुणयुक्ताः अनन्तचतुष्टयोपेताः, आचार्याः षट्त्रिंशद्गुणगरिष्ठाः, उपाध्यायाः पञ्चविंशतिगुणश्रेष्ठाः, साधवश्च सप्तविंशतिगुणालङ्कृताङ्गाः, दर्शनं | दर्शनमोहनीयक्षयोपशमादिजन्यमौपशमिकादिपश्चभेदभिन्नं निःशङ्कितनिष्काक्षितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणस्थिरीकरणवा. सत्सल्यतीर्थप्रभावनाभेदादष्टधैव बोधिलाभरूपं, ज्ञानं ज्ञानावरणीयक्षयोपशमजन्यमत्यादिपञ्चभेदभिन्नं कालविनयबहुमानोपधा| नानिह्नवव्यञ्जनार्थतदुभयभेदलक्षणम्, चारित्रं चारित्रमोहनीयक्षयोपशमजन्यदेशविरतिसर्वविरतिरूपं सामायिकादिपञ्चभेदभिन्न पञ्चसमितिगुप्तित्रयपालनाष्टविधं,तपः षड्बाह्यषडभ्यन्तरलक्षणम् । इति तत्त्वत्रिकं अनिगृहितमनोवचःकायरूपवीर्याचारविशिष्टमाराधयति यः स निर्वाणकल्याणभाग्भवति, तथा श्रीसिद्धचक्रचरित्रेऽप्युक्तम्- "जियंतरंगारिजिणे सुनाणे, सप्पाडिहेराइसयप्पहाणे । संदेह| संदोहरयं हरते, झाएह निच्चंपि जिणेऽरिहते॥१॥ दुराहकम्मावरणप्पमुक्के, अणंतनाणाइसिरीचउके । समग्गलोगग्गपयापसिद्धे, झाएह Join Education a l Page #42 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् ॥१७॥ निचंपि मणमि सिद्धे ॥ २॥ न तं सुहं देइ पिया न माया, जं दिति जीवाणिह मूरिपाया। तम्हा हु तं चेव सया महेह, Y श्रीपाल जं मुक्खसुक्खाई लहुं लहेह ॥ ३ ॥ सुत्तत्थसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणं । पीणंति जे ते उवझायराए, झाएह । चरित्रम्. निचंपि कयप्पसाए ॥ ४ ॥ खन्ते अ दन्ते य सुगुत्तिगुत्ते । मुत्ते पसंते गुणजोगजुत्ते, गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए ॥ ५॥ जं दव्वछक्कायसुसदहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाहीउ चयति जेणं, जहा विसुद्धेण रसायणेणं ॥६॥ नाणं पहाणं नयसिद्धचकं, तत्तावबोहिक्कमयं पसिद्धं । धरेह चित्तावसहे फुरंत, माणिकदीवुन तमोहरंतं ॥ ७॥ सु| संवरं मोहनिरोहसारं, पंचप्पयारं विगयाइयारं । मूलोतराणेगगुणं पवित्तं, पालेह निचंपि हु सच्चरितं ॥ ८॥ बझंतरभंतरभेय मेयं, कयाइदुव्भेयकुकम्मभयं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमियं निरासं ॥१॥ एयाइ जे केवि हु सप्पयाई, आराह यंतिट्टफलप्पयाई । लहंति ते सुक्खपरंपराणं, सिरीसिरीपालनरेसरुव्व ॥ १० ॥ इत्यादिदेशनां श्रुत्वा सप्रमोदो राजा पृच्छति-कोऽसौ श्रीपालो ? यो भवद्भिरुदीरितः, तदा मुनिवक्ति-एप त्वत्पार्थस्थितः, तं ज्ञात्वा पुनर्भणति नृपः-भो मुनिराज ! अस्य स्वरूपमस्माकं प्रकटीकुरु, ततो मुनिना मूलादारभ्य जिनभवनोद्घाटनं यावत् सर्वो व्यतिकरः प्रोक्तः, इतोऽपि एष अनेकराज. कन्यानां पाणिपीडनं विधाय पैतृकं राज्यमासाद्य राजाधिराजो भावी, तत्रापि भक्त्या श्रीसिद्धचक्रमाराध्य स्वर्गसुखं प्राप्य क्रमेणापव गर्गसौख्यं प्राप्स्यतीति, तेनैष महात्मा महाप्रभावो महायशाः धन्यः कृतपुण्यः कृतलक्षणो विचक्षणो जातो नवपदस्मरणानुभावात, यः कोऽपि पापात्मा अस्योपरि प्रतिकूलं चिन्तयिष्यति स तत्क्षणमेवाशुभफलं पाप्स्यति, कदाचिदस्यापदपि ध्रुवं गुरुसंपन्निदानं | ॥१७॥ एव जायते, एतादृशं व्यतिकरमुक्त्वा मुनिर्गगनमार्गे तिरोबभूव, नरनाथप्रभृतिपौरलोकोऽपि प्रमोदभाक् जातः, तस्मिन्नेव क्षणे in Education M ana For Private & Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ | कुमारस्य मदनमन्जूषां दत्त्वा सकलसामग्री पाणिग्रहणस्य सज्जीकृता, तद्भवनं पूरितं, सकललोके मिलिते सति महामहेन राज्ञा | पाणिग्रहणं कारितं, दत्तानि विविधमणिकनकरत्नभूषणानि गजवाहावासादयः, तत्रस्थितो प्रियाययुक्तो रतिप्रीतिभ्यामिव मदनः कुमारराजस्तत्र सर्वत्र विख्यातः, तत्रैव चैत्यपूजाप्रभावनादिभिः सकलं ऋद्धिविस्तारं सफल यति, अथागते मधुमासे अष्टाहिकामहस्सु विधिपूर्वकं सिद्धचक्रपूजा निम्मिता, अथान्यदा तज्जिनालयप्रेक्षामण्डपे स्थितो राजादिपरिकरैः परिवृतः कुमारो यावज्जिनमहि मानुभावं विस्तारयति तावच्छुल्काध्यक्षेण विज्ञप्तं-देव ! सार्थवणिजा त्वदाज्ञाभङ्गपूर्वकं शुल्कं भग्नं, स मया बद्धोऽस्ति, तस्य किं शासनं प्रदीयते?, तन्निशम्य राजा पाह-आज्ञाभङ्गकारिणां प्राणा हरणीया इति राजनीतिः, तदा कुमारो वक्ति-देव! नैतद्वचो युक्तं, जिनगृहे सावधवजनं विधेयं, यदुक्तं-"जिणगिहए सावजं, वयणं जो भणइ तस्स गुरु दोसो। आसायणाइदोसा परत्थ पीडा परा हुँति ॥ १॥" तदुक्तिप्रबुद्धेन राज्ञा तस्य बन्धनानि निराकृत्य यावत्पार्थे आनाययितः तावत्कुमारेणोपलक्षितो धवलो ऽयमिति, कुमारश्चिन्तयति चित्ते-कथमीहग्जातं ?, अथवा लोभवशात् किं किं न भवति ?, यतः-" अर्थातुराणां न सुहुन्न बन्धुः, कामातुराणां न भयं न लज्जा। चिन्तातुराणां न सुखं न निद्रा, क्षुधातुराणां न वपुर्न तेजः ॥१॥" ततः कुमारेण तं जनककल्पं निवेद्य राजबन्धनान्मोचितः स्वस्थाने विसर्जितः, अथ कियदिनानन्तरं धवलेन कुमारो विज्ञप्तः-दे परोपकृतिकृतिन् ! यथाऽस्माकमत्र कुशलं कृतं तथा त्वरितं स्वदेशे प्रस्थापय, तच्छ्रुत्वा कुमारो नरनाथमापृच्छ्य निजदेशगमनार्थं कथमपि विसृज्यमानो गौरवं निर्माय सुतादि सर्व समर्प्य कुमारं प्रवहणे प्रस्थाप्य नरेन्द्रः पश्चादलितः, कुमारोऽपि स्वकीयं सारं सबहुमानं | धवलं च स्वप्रवहणे निवेशयति, शेषपोतेषु शेषजनान्, अथ प्रस्थानमङ्गलहुन्दुभयो ध्वनिताश्चलन्ति पोता जलधौ नभसि विमा-1 Jain Educa t ional For Private Personal use only INI N ainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ ज्ञानवि० कृतम् ॥१८॥ Jain Education नानीव, कुमारोऽपि लीलामनुभवन् प्रवहणस्थितो याति पालकारूढसुरेन्द्रवत्, रमणद्वियललिविलासश्लिष्टं विशिष्टऋद्विजुष्टं समष्टिं कुमारं विलोक्य दुष्टश्चिन्तयति - अहो प्राकृतमात्रोऽपि कीदृग् ऋद्धिमान जातो?, यद्येतदीया सम्पत् मम भवति तदाऽहं कृतार्थः, अन्यथा त्वकृतार्थजन्मा, ईदृग्दुद्धर्थानपरो रमणीरमणीयतानिकपोत्तेजितमदनशर लब्धप्रसरो न लभते रतिं स्थलगतमनिवत् धवलशफरः, एक तो लोभकतः कामः सपवनो वन्हिरिव ज्वलनंतस्तिष्ठति, रजन्यामप्युभिद्रः पञ्चशरव्यसनमुद्रोपद्रुतो दृष्टी मित्रपुरुषैः, पृष्टश्व किं-त्वदङ्गे व्याधिते येनातुरो ?, कथय स्फुटं निजदुःखं, तदा कथमपि दीर्घ निःश्वस्य कथयति-मदङ्गे व्याधिर्न बाधते, किं त्वाधिर्दुरन्तः, पुनस्तैः पृष्टः- काऽसौ मानसी पीडा ?, तदा तेन सर्वः स्ववृत्तान्तः कथितः तं निशम्य ते चत्वारो मित्रवणिजो भणन्ति - अहो किमिदमुक्तं कर्णशूलोपमं ?, सज्जनानां कस्यापि धनापहरणं न घटते, किं परोपकारिणां, दारुणविपाकफलं धनापहरणं, परस्त्रीसंगोऽपि सतां लोके विकत्थनीयो, यत्स्वामिन्! प्राणधनदारापहरणं तत्तु निरयमूलमेव, अतस्त्वया एतादृशं चिन्तितमेव कथं?, कथंचिच्चिन्तितमपि जिह्वया प्रोक्तं १, कथं एतावत्कालं त्वमस्माकं स्वामी मित्रं चाभवदिदानीं तु त्वं महावैरिवज्जातो, यतोऽसौ कुमारो देवताबद्धप्रवहणवाल नोपकारकृत महाकाल नृपतिबद्धमोचनोपकृतिकृत् विद्याधरतश्च तत्सर्वमप्युपकारप्रकारं विस्मृत्य एवं चिन्तयसि, ज्ञातं तदा। | त्वमेव दुर्जनजनधुर्यो यदेवंविधोपकारकारिणामुपरि द्रोहकृत्, यथा- कृष्णा: परच्छिद्ररता भयङ्करा, अस्तुदो वक्रगता द्विजिव्हाः । प्रायः परमाणविनाशदक्षा, मूर्त्ता द्विजिव्हा इव भोगगृध्राः ॥ १ ॥ मिष्ठा मुखे धातुविशेषशोषिणः, अलब्धमूला: कुशलैश्चिकित्सकैः । परोपतापाय भवन्त्यसज्जनाः, किं राजयक्ष्माण इवातिदुःखदाः ॥ २ ॥ सकण्टकव्याप्तिविषाः सदशाः, न ज्ञापितान्तः सदसद्विशेषाः । नायान्ति वश्यं वरमन्त्रतन्त्रैरसज्जना वृश्चिकवत्स्वभावाः ॥ ३ ॥ मुखेन ये दोषविषं वमन्ति, श्रीपाल चरित्रम् ||१८|| inelibrary.org Page #45 -------------------------------------------------------------------------- ________________ परस्य रन्ध्राणि सदा विशन्ति । दशन्ति मर्माणि भयंकराव्हास्ते वर्जनीया झटिति द्विजिव्हाः ॥ ४॥ जुगुप्सनीयाऽभ्यवहाररक्ताः, स्वजातिविद्वेषरता नितान्तम् । श्वाना इव स्युः पिशुना रटन्तो, यथातथं भूरिविषाः सदोषाः॥५॥ यदुक्तम्-"विरसं भसंति सविसं डसंति जे छन्नमंतसुंघता, ते कस्स लद्धछिद्दा, दुजणभसणा सुहं दिति" ॥१॥ इति कारणात् त्वं नाम्नैव धवलः परं कर्मणा महाकालोसि, त्वदर्शनमात्रेणाऽप्यस्माकं मालिन्यं भवति, इत्यादि तिरस्कृतिनिपुणं वचो भणित्वा त्रयोऽपि पित्राः स्वस्थानं गतास्तावता तुर्योऽनार्यमित्रः समागतः, स्थितस्तत्पाचे कुटिलमतिर्भणति धवलं पति, न कथ्यते एतादृशं मन्त्रमेतेषां पुरतो, यदेते प्रत्यर्थीभूतास्त्वदहितं चिन्तयन्त्येव, किं त्वहमेव त्वदीष्टसाधनलिप्सुरिच्छामि त्वत्मियम् , अतो मदीयं वचः कुरुथ। विशेषतः श्रीपालेन समं मैत्री कार्या यथाऽसौ विश्वस्तमना भवति, इति श्रुत्वोल्लसितहृदयकमलो धवलो भणति, सम्यगुक्तं; कथं मम मनोऽभीष्टसिद्धिर्भवेत् ? तदा स कुमित्रो वदति-यदयं प्रवहणोपरि गुणबद्धो मञ्चकोऽस्ति, तदुपरि कथमपि कौतुकविलोकनमिषेणैन प्रस्थाप्य यदि मश्चकदोरकाश्छिद्यन्ते, तदायं समुद्रान्तः पतति, भवति त्वदभीष्टं, न चटति कोऽपि दोषः, तन्निशम्य लब्धोपायः सापायो धवलस्तुष्टः करोति क्रीडां कुमारेण समं, अथाऽन्यदा स्वयमारूढो धवलो मञ्चे तत्रस्थो जल्पति कुमारं प्रति, भोः प्रेमपात्र! मया समुद्रमध्ये अदृष्टपूर्वमाश्चर्य दृष्ट, यात्ययमष्टमुखो मीन, इति जल्पन् उत्तरितस्तूर्ण कथयति कुमारस्य सविशेषतया, तदा कुमारोऽपि अपूर्वकुतूहलं श्रुत्वा 'अपूर्वकौतुकालोको जीवितादपि अधिकः स्मृतः' इति लोकन्यायमङ्गीकृत्य यावता मञ्चके चटितस्तावता तेन कुमन्त्रिणा (कुमित्रेण) मञ्चकदोरकरछेदो: विहितः, पतितः सहसा समुद्रान्तः कुमारः, पतन्नेव नवपदध्यानस्मरणप्रभावात् मकरपृष्ठे स्ववाहनवत स्थितः नवपदध्यानस्मरणप्रभावादौषधीप्रभावाच मकरपृष्ठस्थः क्षणेनैव सुखमात्रं कुकणतटं प्राप्तः । Nainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्रीपालस्य समुद्रपतनं श्रीपाल चरित्रम् तत्र वने चम्पकतरुतले प्रसुप्तो यावज्जागर्ति तावत्सेवाऽऽसक्तसुभटैर्विहितपाञ्जलि पुटैविनयावनतप्रणतैर्विज्ञप्तं, देव? समस्ति सकलसुरसुंदरीमनोहरविलासोपहासप्रदानप्रवीणसीमन्तिनीजनकटाक्ष टाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशः कुङगाभिधानः, तत्र च तुषारगिरिशिखरधवलविमलप्रासादमालापोत्कटकूटकोटिभिरकालेऽपि शारदाभ्रलीलां कुर्वाणमिवाभाति प्रतिष्ठाप्राप्तजनपूर्णप्रतिष्ठं प्रतिष्ठानपुरं नाम नगरं । तस्य पालयिता प्रणताऽशेषमहीपालोऽयत्नसपत्नशिरोधिर्षणशिलोत्तेजितकरालकरवालो वसुपालनामा प्रजापालस्तेन समादिष्टा वयमित्युक्ताः, 'छायातरुवरचम्पकतरुतले यः कोऽपि पुरुषरत्नः सुप्तो भवेदद्य पश्चिमे यामे, तं तुरङ्गारूढं कृत्वा आनयत,' इति राजाऽऽदेशं श्रुत्वा अस्माभिस्त्वमेव पुण्यवशादृष्टस्ततस्त्वं तुरगमारुह्य तत्र दर्शनं देहि, कुमारोऽपि तन्निशम्य हयारूढो यावता सुभटपरिवृतः प्रतिष्ठान पुरं याति, तावता राजाऽपि सचिवादिसमेतस्तदभिमुखमायातः, महामहोत्सवेन पुरप्रवेशः कारापितः तस्य, अशनवसनादिभिः प्रतिपत्तिं कृत्वा सबहुमानं तं राजा जल्पति, पूर्वमेकदा चैको निमित्तज्ञः सभायामागतः पृष्टश्चास्माभिः, मत्पुत्र्याः। मदनमञ्जाः को वरो भावी ? तदा तेनोक्तं निमित्तबलेनः, यो वैशाख शुक्लदशम्यां जलधितटे अचलच्छायचम्पकतरुतले शयितो भवेत् , स वरो भविष्यति । तत्सर्वमद्य सञ्जातं, पूर्णा सन्धा, ततश्चेमा मदनमञ्जरी परिणय, इत्याग्रहपूर्वकं पाणिग्रहणं कारापित्तं दत्तं च गजाश्वरथधनधान्यरत्नस्वर्णमाणिभूषणभवनादि, ततो नरेश्वरेणाऽऽदिष्टे विशिष्टे वासभवने विविधानि सुखानि भुक्ते, पुण्यमेव सुखमूलमिति' । राज्ञा तस्य देशप्रामनगराऽऽधिपत्यं दीयमानमपि स नेहते, एकं स्थगीधरपदं मार्गयति, राजाऽऽपि तदेव हीनमपि कम् तस्य तुष्टीकृते ददाति, सुखेन कालो निर्गच्छति । इतश्च यदा समुद्रान्तः पतितः कुमारः, तदा धवलश्रेष्ठी तेन कुमित्रेण समं सन्तुष्टचित्तोऽपि लोकमत्ययार्थ भणति, 'अहो Jain Education international For Private & Personel Use Only Page #47 -------------------------------------------------------------------------- ________________ Adकिं जातमेतत् ? यदस्मत्प्रभुः समुद्रे पतितः, हन्ति हृदयं, स्फोटयति शिरः, कुट्टयत्युरः, करोति पूत्कारं बहुलिकं, बहुलो धवलो | गतः, कुत्राऽस्माकं स्वामीति विलपन्तं श्रुत्वा हाहारवं कुर्वाणा मदना मूच्छिता सती पतिता, जलेन शीतलानिलेन च कथमपि लब्धचेतना पुनदुःखभरपूरिता रोदिति, हा ! प्राणनाथ ! गुणवृन्द !! सनाथ !!! विश्वाधार !!! हा त्रिजगजनताकृतोपकार ! हा चन्द्रनिस्तन्द्रवदन !! हा कमलनयनस्वरूपत्सितमदन ! हा दीनशरण !! विहितसदाश्रितजनभरण !! त्वया मुक्तानामस्माकं को भविष्यतीह त्राणं, इति श्रुत्वा सुजन इव भणति धवल:, भो भद्रिके ? सुभ्रु! मा खेदं कुरु, भवदुःखमधुना हरिष्यामि, तद्वचः श्रुत्वा सविशेष दुःखिता जाता चिन्तयति, नूनमनेनैव पापेनेहा अकार्य कृतं, अत्र शीलरक्षणोपायः कत्यस्ततोऽस्माकमपि पतिमनु जलधौ मरणं शरणमिति चितवं यावता पतितुकामे ते जायेते तावता यज्जातं तत् शृणुत । अत्रान्तरे उच्छलितं जलधिकल्लोलैर्धवलं प्लावनायेव, विजम्भितमुद्भटमारुतैस्तदुत्पाटनायेव, समुत्थितं जलचरप्रकरघोरशन्दैस्तदयशोवादं विस्तारणायेव, प्रकटितमट्टहासैरिव उत्पातशतैः पोतेषु हेल्लोल्ललितेषु पोत लोकैः स्खलितं कलकलितं मच्छितं च, क्षणमात्रेणैवाऽत्यन्तरौद्ररूपधरो डमडमेति डमरुशब्दकरः गृहीतकराल करवालः क्षेत्रपालः प्रथमं प्रकटीभूतः, | ततः पूर्णभद्र १ माणिभद्र २ कपिलभद्र ३ पिंगलभद्र ४ नामानश्चत्त्वारो गुरुमुद्गरकुठारपर्युकुन्तधरा वीराः प्रादुर्भूताः, ततः कुमुदाञ्जनपुष्पदन्तवामननामाभिः दण्डहस्तैश्चतुर्भिः प्रकटीभूतं प्रतीहारदेवैः, ततश्चक्रेश्वरी स्वकरे ज्वलच्चक्रं भ्रामयन्ती प्रवरप्रचुरदेवदेवीपरिवृता प्रकटीभूता बदत्येवं; अरे ! ग्रसत ग्रसत एनं दुर्बुद्धिदायकं प्रथम सचिवं सर्वानर्थमूलं, ततो झटिति क्षेत्रपालेन | स नरः पादेन बध्धोऽवलम्बितः कूपस्तम्भे अधोमुखं कृत्वा मुखे अशुचिं दत्त्वा खड्ड्रेनाऽऽछिद्याङ्गाऽन् उपद्रवशान्तिकरणाय JainEduce For Private Personal use only riainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ श्रीपाल न नमस्कार प्रभावेन क्षेत्रपालाद्य गमनम् ॥२०॥ दिपालेभ्यो बलिदत्ता, तं दृष्ट्वा भयभीतो धवलो मदनापृष्ठस्थितो भणति, रक्षत ! शरणागतं वराकं मां स्वसेवक, तदा जल्पति चक्रेश्वरी-रे धृष्ट ! दुष्ट ! पापिष्ट ? अनिष्टकृत ! मुक्तोऽसि जीवन् एतयोः शरणगमनात्, द्वे अपि विस्मृतमानसे मदने विनयप्रणते | देवीपदयोः, तदा भणिता ते, सप्रसादमेतादृशं वाक्यं भो वत्से ? त्वद्वल्लभो गुरुऋद्धिसमेतो मासान्तरे निश्चयेन मिलिष्यति मा खेदं कुरुत इति ते समाश्वास्य तत्कण्ठे सर्वतुककुसुमसजमारोप्य कण्ठे समालिङ्गय चुम्बित्वा मस्तके च गता स्वस्थानं चक्रेश्वरी परमेश्वरी । यदुक्तं चरित्रे “एम भणेवि णु चक्कहरि, परिमल गुणह विसाल । मयणकंठहिँ पेक्खवइ, सुरतरु कुसुमह माल ॥ १ ॥ तुमहिं दुह न देपास, मालहतणे प्रमाण । एम भणेवि णु चक्कहरि देवी गई नियठाण ॥२॥ जल्पन्ति ते त्रयोपि सत्पुरुषाः सकलबुद्धिनिपुणा धीरा धवलं प्रति, दृष्टं ! प्रत्यक्षेण दुर्बुद्धिदायकविपाककिंपाकतरोः फलं? एतत् सतीशरणप्रभावाद् यदि च्छुटितोऽसि, यदि पुनरेवं चिन्तयसि तदाऽनर्थफलं लप्स्यसे इति शिक्षितः,आर्या-यः पररमणीरमणैकलालसो भवति कुग्रहग्रस्तः । यदि सोऽपि पुरुषरूपस्तति श्वानः खराश्चान्ये ॥ १ ॥ ये पररमणीरूपालोकनमात्रेण स्खलितशीलधना | नन्त्यत्र परत्र सुयशः, सौख्यं धिग् जीवितं तेषां ॥ २॥ यतः,परदारे परकाव्ये, यः स्वीकारं करोति मन्दमतिः । ज्ञेयो लङ्कापुरुषः स्यादेव स मस्तकविहीनः ॥ ३ ॥ इत्यादि शिक्षा दत्वा सौख्यन स्थिता गमयन्ति दिवसाँस्ते सुबुद्धिपुरुषाः। जलधौ वहमानानां प्रवहणानां कतिपयदिना जाताः । ततः पुनरपि धवलश्चिन्तयति हृदये- अद्याप्यऽस्ति 6॥२०॥ Jain Educational For Private Personal use only dinelibrary.org Page #49 -------------------------------------------------------------------------- ________________ मे पुण्योदयो, यतोऽसावुपद्रवो विलयं यातः, यद्येते रमण्यो मत्कलत्रभावमाप्नुयातां तदाऽहं इन्द्रादप्यऽधिको भवेयमिति चिन्तयित्वा दूतीमुखेन ते प्रार्थिते, ताभ्यां सा बाढं निर्भत्स्य निष्कासिता, तथापि कामपिशाचाधिष्ठितो नष्टनिर्मलविवेकस्तेनाऽध्यवसायेन क्षणमपि सुखं नामोति, अन्येयुः कामग्रहमथिलो महिलारूपं कृत्वा स्वयं स पापिष्ठः प्रविष्टो | मदनागहं यावद्विलोकयति, तावत्पुरःस्थितमपि मालानुभावाददृश्यरूपां मदनां न पश्यति, रागान्धो अन्धवदितस्ततो भ्रमति, ततो दासीभिश्वाऽवकरपुञ्जवत् कुट्टयित्वा बहिनिष्कासितः । इतो वोहित्थमार्गान्यमार्गेण निर्गत्य स्वयमेव कुणतटे किञ्चिदूनमासेन प्राप्तो धवलः, प्रथममुत्तीर्य महऱ्या प्राभूतमादाय यावदाजानं प्रति याति, तावन्नृपपाचें स्थित श्रीपालं पश्यति, राज्ञाऽपि तस्य सार्थवाहस्यात्यन्तं सुखप्रश्नपूर्वकं बहुमानं प्रदत्तं, श्रीपालेनापि विशेषतस्ताम्बूलं दत्तं, दृष्टमात्रः श्रेष्ठी कुमारेणाऽपि ज्ञातः, श्रेष्ठिनाऽपि ससम्भ्रममुपलक्षितः, धिग् धिग अहो ? किं जातं, किमेष श्रीपाल: ? किंवा तत्सदृशोऽन्यपुरुषः ? क्षणं स्थित्वा | | राजसदास यावदुत्थितो धवलश्रेष्ठी प्रतीहारं पृच्छति, कोऽयं स्थगीधरः ? तदा तेन सर्वोऽपि वृत्तान्तः कथितः, तत् श्रुत्वा जातो वजाहत इव दुःखीसन् चिन्तयति-अहो विषमं विधिविलसितं, यद्यत् करोमि कार्य तत्तत्सर्वं विपरीतमेव भवति, एष श्रीपालो जामाता | जातो नरेन्द्रस्य, पुनर्ममापराधो महान् न जाने किं भावीदानी, तथापि स्वकीयकार्यविषये धीरेणाभियोगो न मोक्तव्यः, यदुद्यमवत्माणिगणेभ्यो विधिरपि शङ्कते, यतः-उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यन्ते ततो देवोऽपि शन्ते ॥१॥ इति पालोच्य प्राप्तो निजोतारे । तत्र चैकं गीतनृत्यनिपुणं डुम्बकुटुम्ब सम्माप्तं गायमानमास्ते, सोऽपि चिन्ताकुलो धवल: कपटप्रबलो गायनानां दानं नाप्पयति, तदा पृष्टं गायनकुलेन, देव ! किमस्माकमुपरि रुष्टोऽसि? इति श्रुत्वा स एकान्ते गायनानां कथयति, Join Educatio n al inelibrary.org Page #50 -------------------------------------------------------------------------- ________________ श्रीपाक चरित्रम् स्त्रीरुपधवल । यदि भवन्तोऽस्मदीयमेकं कृत्यं कुर्वन्तु केनाप्युपायेन, तदाऽहं भवतां भूरिधनमाजीवितान्तं ददामि, इति निशम्यैकेन वृद्धगमनं मद- गायनेनोक्तं, तत् किं कृत्यं, कथ्यता, वयं करिष्यामो भवत्कार्य सभ्यमसभ्यं यत् किश्चिदपि, तदा तुष्टेन धवलेनोक्तं राज्ञो नागृहे जामाता हन्यतामिति श्रुत्वा डुम्बकेनोक्तं, एतादृशोऽपवादं कर्तुं न शक्यते, परं स्वकीयोऽयमिति कथिते स्वयमेव राजा हनिष्यत्येनं, हुम्बकुटुंबा तदा कार्यसिद्धिः सुखेन भविष्यतीति मन्त्रयित्वा कोटिशो धनमधमणीकृत्य सिद्धान्तः समीहितमिति तुष्टेन धवलेन सत्यंकारार्थ गमनम् स्वकरमुद्रारत्नं वेगेन तेषां स्वपाणापहरणसंस्कारामिव प्रदत्तं, तेऽपि मुदितमानसा राज्ञो गवाक्षाधो मधुरस्वरं गायन्ति । अथ कम्बुकोमलकण्ठकमलनादरसास्वादमुदितमानसो राजा जल्पति, भो गायना ? यद्रोचते तद् याचचं, तुष्टोऽई ददामि धनादि, तदा वृद्धेनोक्तं-स्वामिन् ! सर्वत्राऽर्थादिकं लभामहे, परं राजमानं दीनजातीनां दुष्कर, 'मानो हि महतां धन मिति न्यायात् । | त्वदीयं मानमिच्छामः, तन्निशम्य राजा भणति, यस्याऽहं मानं ददामि तस्य ताम्बूलं प्राणपीयमज्जामातकरेणैवेति प्रसादप्रत्यय. पूर्वकं धनं यच्छामि, तदा सकुटम्बो डुम्बो भगति, महाप्रसादं कुरुत, इत्युक्ते यावता राज्ञो जामाता तेषां ताम्बूलं ददाति, तावता सहसा एका जरती जसति कण्ठे लगित्वा-हे पुत्र ! एतावत्कालं क गतोऽभूः, पुनरेका भगिनीभूत्वा वदति-भो भ्रातस्त्वं हंसद्वीपे गतोऽश्रावि, पितृष्वमृभूताऽन्या प्रवदति-भो भ्रातृव्य! कुत्र कुत्र तटे गतः, एकस्तु जनकीभूय वदति-पुत्र! तवैतादृशो रोषो न युज्यते येनाऽस्माकं दृष्टिपथं चिरमागतः, काचिद्देवरोऽस्ति काचित् पतिरिति कश्चित् भ्रातेति भागिनेयमातुलादिसर्वैरपि अकाण्डकोलाहल: प्रारब्धः, सम्यग् जातं राजाप्रसादप्राप्तिमिषात् त्वं मिलितः । फलिता मनोरथा अस्माकमिति असमञ्जसं वचः श्रुत्वा सर्वेऽपि विस्मिता, किं जातमिदं, राज्ञापि चिन्तितं धिग् मामविमृश्यकारिणं अनिन्धवन्धकुलं निन्दितं अनेन पापकर्मणा तत एष झटिति | Jain Education Hel For Private & Personel Use Only Inelibrary.org Page #51 -------------------------------------------------------------------------- ________________ Jain Educa हन्तव्यः एवेति विचार्य नैमित्तिको वद्धस्तलवरेण भणितो, रे ! 'दुष्ट ! मातङ्गोऽयमिति' कथं न कथितः त्वमेव वध्य इत्युक्ते नैमित्तिको वदति, स्वामिन्नाऽयं मातङ्गः, किंतु महामातङ्गाधिपतिरयमत्रार्थे संशयो न कार्यः, तेन वचसा विशेषेण रुष्टो राजा वक्ति, जानता त्वया कथं नोक्तं, ततो राज्ञा नैमित्तिकः कुमारश्च वधाय आदिष्टः यावता समर्पितः सुभटानां तावता मदनमञ्जर्यपि नामसमयप्रवृत्तिं श्रुत्वा समागता तत्र तूर्णं वक्ति - किमिदमत्रिचार्य कार्यमारब्धं, आचारेणापि कुलं न ज्ञायते ? 'आचार: कुलमाख्यानी' ति न्यायात् लोकोत्तराचारेण किमयं मातङ्गने भवति ? जिनपूजनचारुवचनरचनाचातुरी विरेचितेनापि किं नाज्ञायि ? इति पुत्रीवचः श्रुत्वा नरनाथः कुमारं प्राह-भो दर्शय निजकुलं, मार्जयाऽपवादमन्त्रमितिश्रुत्वेषद्विहस्य दशनदीधितिप्रकाशित दिक्चक्रवालो राज्ञश्छेकत्वं हसयन्निवेोक्तवान् कुमारः-स्वामिन् सत्या विहितैषा लोकोक्ति, पीऊण पाणियं पिय पच्छा पुच्छिनए गेहूं' तत्तस्मायदि संशयवानसि तदा कुरुत सैन्यं सज्जं मद्धस्तावेव कुलं प्रकटयिष्यतः कुलीनाः स्वमुखे स्वप्रशंसां न वदन्ति “इन्द्रोऽपि लघुतां याति स्वश्लाघां स्वानने वदन् । यथा स्वयं हसन् वक्ता, यथा स्त्री स्वकुचार्दिता " ॥ १ ॥ अथवा प्रवहणान्तः स्थिते देखियौ स्तस्ते पृच्छत, यथा कुलज्ञानं ज्ञायते । ततो विस्मितो राजा धवलमाकार्य पृच्छति, कथय रे ! प्रवहणे द्वे स्त्रियौ स्तः नवा ? तथा पापपरिमलो धवलो वक्ति, स्वामिन विद्यते तच्छ्रुत्वा नरेन्द्रेण स्वप्रधानपुरुषाः प्रेषितास्तदानयनाय तैस्तत्र गत्वा भणितंवत्से समागम्यतां पतिकुलप्रवृत्तिकथनार्थ, तच्छ्रुत्वा हर्षिता मदना शिविकामारुह्य सम्प्राप्ता नृपभुवने प्राणप्रियमालोक्याऽऽनन्दमेदुरितानना जाता मधुमालोक्य पिकवालिकेव शशाङ्कमिव चकोरकिशोरी घनमिवमयूरी, तदा राज्ञा पृष्टं भो वत्से मार्जय सन्देहरजोऽस्मच्चित्तमंदिरादामूलचूलकुल प्रकटनोदन्त कन्तवाक्पञ्च पवनेनाऽऽश्वासयाऽस्मान् जनप्रवादप्रचण्डानलतप्तान । ततो विद्या mational Page #52 -------------------------------------------------------------------------- ________________ डंबनाटके श्रीपाल पतनं श्रीपाल चरित्रम् ॥२२॥ धरदुहिताऽवदत् सर्ववृत्तान्तमादितः प्रारभ्य प्रस्तुतसम्बन्धं यावत् , तं श्रुत्वा सानन्दो नृपो भणति-अयं भागिनेयो ममेति गाढतरंतुष्टो बहुमानं ददौ । अथ हुम्बकुटुम्बमाकार्य पृच्छति, वक्तव्यं सत्यं कस्येदं शिक्षितं, तैस्सर्वं धवलश्रेष्ठिचेष्टितं यथाकारितं कथितं उदरपूत्यै सर्वमस्माभिधनलोभादगीकृतं, धिगस्तु तृष्णावता-यतः-दुःपूरोदरपूत्त्य किं किं न कृतं जनैर्विगतलज्जैः । नटमिव शिक्षितमर्कटमिव सर्वैः सर्वतो नटितं ॥१॥ ततो रोषारुणचक्षुर्वक्ति भो रक्षकाः रज्जुं सजस्वेति ततः रक्षकपुरुषवलो गाढरज्जुबन्धनैरावध्य राज्ञोऽग्रे आनीतः, राज्ञापि तद्वधार्थ चण्डदण्डपाशिकाना हस्ते अर्पितः, ततो निरुपमकरुणारसाद्रचेतसा कथमपि नृपात् डुम्बकुटुम्बसहितो धवलो जीवितदानं दापितः, तदा नैमित्तिकेनोक्तं, स्वामित्रयं मातङ्गाधिपतिः तस्याओं ज्ञातः? मातङ्गा हस्तिनस्तेषामधिपतिरयं मातङ्गाधिपतिरिति मदुक्तं वचस्तथ्यमेव भवति, नान्यथा, राज्ञा नैमित्तिको धनधान्यादिभिः सन्पान्य यथास्थानं विसर्जितः । राजाऽपि | भागिनेय इत्युदित्वा कुमारं प्रति स्वापराधं क्षमयामास, सभासमक्ष भणति, भो जनाः! पश्यतोत्तमनीचानामन्तरं-'धवलः उपकृतिपरं कुमारं प्रत्येतादृशं करोति, कुमारस्तु निकृतिबलं धवलनुपकारयति', तदनयोः अमृतविषयोरिव मणिगरलयोरिव धूमप्रदीपयोरिव वर्षाविद्युतयोरिवान्तरमिति । यथा कुमारस्य धवलं यशः प्रसरति तथा तथा श्रुत्वा श्रुत्वा धवलोऽपि कालवदनो भवति, तथापि कुमारेण स स्वगृहे आकार्य बहुमानपुरस्सरं समाश्चास्य चन्द्रशालायां विश्रामितः, तत्रस्थोऽपि चिन्तयति-अहो प्रतिकूलो विधिः यद्यदई करोमि तत्सर्व निष्फलं भवति, अद्यापि यद्येनं केनाप्युपायेन चेत् मारयामि, तदा एताः श्रियो मदाधीना जायन्ते । अयं चैकाक्येव सप्तमभूमौ सुप्तोऽस्ति, ततश्चैनं निहत्य बलात्ता रमण्य उपभुङ्कमीति चिन्तयित्वा धृष्टो दुष्टो निकृष्टकर्मा पापिष्ठः कृष्टासिः ॥ २२॥ For Private Personel Use Only Page #53 -------------------------------------------------------------------------- ________________ कुमारहननार्थमारूढा सौधमार्ग, तत्र यावता उच्चैरारोहति, तावता कुतोऽप्यागतया चन्दनगोधया दृश्यमानः उन्मार्गप्रस्खलितचरणः पतितः सौधसप्तमभूमेश्छुरिकयोदरे विद्धः प्राणैरपि पापरूप इतिकृत्वा मुक्तः प्राप्तः सप्तमी नारकावनीं। अथ प्रभाते तं पतितं दृष्ट्वा लोकोऽचिन्तयत्, ज्ञायतेऽनया चेष्टया नूनमसौ कुमारहननार्थ धावितः, एतन् मन्त्रकरणे कुबेरश्रेष्ठिरेव निदानम् एतस्य निदानस्य पापमस्यैव लग्नं । कुमारोपरिद्रोहः कृतः सोऽस्यैव शिरसि पतितः, महात्मनां महात्म्यं न व्रजति, "यश्चिन्तयेत परेषामहितं तस्यैव भवति नाऽन्यस्य । कात्यायन्याः पुत्रौ पञ्चत्वं प्रापितौ यद्वत" ॥१॥ कुमारोऽपि तं तथा पतितं दृष्ट्वा क्षणं चिन्तयित्वा अनर्थोऽयामिति धिगस्तु परद्रोहकारिणं, यतः-"मृगमीनसजनाना, तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना, निष्कारणवैरिणो जगतिः ॥ २ ॥ तस्योर्ध्वदेहिकं विधाय समाधिना तत्रस्थितो भार्यात्रयं सहितो मुनिरिव त्रिगुप्तियुक्तो नृप इव शक्तित्रयालंकृतो भोगान् भुङ्के, यानि धवलस्य वरबुद्धिदायकानि त्रीणि मित्राणि तानि श्रीपालेनाऽधिकारिपदे न्यस्तानि । अथान्येयुः गजपाटिकायां सपरिच्छदः कुमारो गतः, तत्र स्थितमेकं सार्थसमुदायं दृष्टवान् , सोऽपि सार्थपस्तं समागतं दृष्ट्वा प्राभूतान्यादाय प्रणमति कुमारपादान, स्वागतप्रश्नपूर्वकं पृष्टः कुमारेण स-कुतः समागमनं जातं! कुत्र गन्ता ! किमप्याश्चर्य दृष्टं ! तत्सर्व निवेदयति श्रुत्वा स्पितदीधितिधवलितोष्ठः सार्थश्रेष्ठः पादः-समागतोऽहमुष्णकालेऽपि नितान्तकान्तेन्दुकान्तोपलस्रवत्पयः पूरस्नापितजननिकरात्कान्तीपुरात्, गन्ता कम्बुद्वीपं प्रति, अन्तरा यदाश्चर्य दृष्टं तत् शणुत । इतः कोसानां चतुःशतात्परतो महीमण्डलसुखमारमाविशालभालस्थलललामलीलायमानं कुण्डलपुरं नाम पुरमस्ति, तत्र पवित्रजैत्रप्रतापाक्रान्तारातिवर्गो स्वरूपसौन्दर्य| गर्वखर्वीकृतमकरकेतुर्मकरकेतुर्नाम राजा प्रशास्ति प्रजाः, तस्यास्ति प्रशस्तिरिव जयश्रियः सुवर्णरूपा कर्पूरपारीप्रतिमविमलशील Jain EducationAALI For Private Personel Use Only hinelibrary.org Page #54 -------------------------------------------------------------------------- ________________ धवळमृत्युः सप्तम नरक गमनं श्रीपाल चरित्रम् | तिलका कपूरतिलका नाम्नी प्रिया, तत्कुक्षिसरोजिनीभृङ्गभूतो तनयो सुन्दरपुरन्दराख्यौ स्तः, तयोरुपरि चैकतनयाऽस्ति शस्तगुणगौणीकृतत्रिदशसुंदरी गुणसुन्दरीतिनाम्नी रूपेणाऽपूर्वा रम्भा वृषाश्रिताऽपि न बलद्विषत्सङ्गिनी कलाकलापेनाऽभिनवा ब्राह्मी किं बहू- क्त्या ? यतः-गरूपस्वराधीततालतन्त्र्युद्भवाः गुणाः। शोश्रूयन्तेऽनिशं कर्णैर्यदीया वेधसाष्टभिः ॥ १॥ साम्प्रतं प्राप्तयौवनया तया प्रतिज्ञा कृताऽस्ति, 'यो मां जयति वीणावादनपुरस्सरं सङ्गीते सोऽङ्गीकर्तव्यो भर्तृत्वेन, नाऽन्यः, विनापरीक्षा कार्यमाजन्मशल्यतुल्यं | भवेत् , यथा “ सुहृद्गोष्ठीपटिष्ठानां याति कालः सुखावहः । तदन्यानां पुनः कालः, कालरूपो भवेत् सदा ॥ १॥ यथा वन्ध्यगवी| कण्ठे, डहरो बाधतेऽनिशं । तथा लीलावतीनां च, शठो भर्ता पदे पदे ॥ २ ॥ भल्लुकानां मनः प्रीतिदक्षैः कर्तुं न शक्यते । पुष्करावर्त्तमेधैनों, भिद्यते मुद्गशैलकः ॥३॥ निर्गुणेन समं वासो, मा दद्याविषितो यदि । दारिद्यार्त्यादिकं कष्टं, गुणिनामप्पये विधेः" ॥ ४ ॥ इति चेतसि विचार्य प्रतिदिनमभ्यस्यति सङ्गीतकला, तच्छुत्वा नरेन्द्रनन्दनाः सुहन्नयनचन्दनास्तत्राऽनेके मिलिताः सन्ति, मासे मासे परीक्षा क्रियते, परं न केनाऽपि जीयते प्रत्यक्षसरस्वतीकल्पाया अस्याः सङ्गीतं, मयापि तत्र प्राप्ते|नैतदाश्चर्य दृष्टं, क्रमेणाऽत्र त्वमपि दृष्टः, ज्ञायते चेतसीदं चेयुवयोः संयोगो भवेत्तदा सुशिक्षितो विधिः। प्रद्युम्नरसालसालसुभगा मंजाप्रजानाथ हे ! भृङ्गास्त्वं च युवा तदुग्ररसया युक्तं हि योगस्तया। आयासोऽपि विधेस्तदा सफलता यायायशोविष्टपे, दक्षोऽयं घटनामिति प्रसरतु स्वस्त्यस्तु ते साम्पतम् " ॥ १ ॥ इत्यादि मधुरवाक्सुधारससिकतो राजा तस्मै प्रशस्तवस्त्रादि पारितोषिकं दत्त्वा सन्ध्यायां निजावासं प्राप्तश्चिन्तयति चित्ते। 'कथमेतत्कौतूहलं पश्यामि ', अत्र नवपदध्यानमेव प्रमाणं इति चिन्तयित्वा यावता नवपदध्यानं ध्यायति, तदा | ॥२३॥ Jain Education Helona For Private & Personel Use Only widainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ गणयुतकं हार कशावतो यावता कुडा वचोतिगो नकाशं ?--अ सौधर्मकल्पवासीदेवो विमलेश्वरः करकमलगृहीतनिर्मलहारः प्रत्यक्षीभूय वक्ति-गृहाणेमं हारं, शृणु तत्मभावं-कीदृशोऽयं | हारः ? इच्छाकृतियोमगतिः कलासु, पौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवन्त्यवश्यं, कुमार! हारं तमिमं गृहाण ॥१॥ एवं वदन्नेव स सिद्धचक्राऽधिष्ठायकः श्रीविमलेशदेवः । कुमारकण्ठे विनिवेश्य हार, जगाम धामाद्भुतमात्मधाम ॥२॥ | इति गुणयुतकं हारं कण्ठे परिधाय निश्चिन्तः सुप्तः । अथ प्रभाते उत्थितो यावता कुण्डलपुरं मनसि कृत्वा, तावतात्मानं हारमभावेण कुण्डलपुरं प्राप्तं पश्यति, सर्वेऽपि जना वीणाहस्ता दृष्टाः, चिन्तितम्-अहो वचोतिगो नवपदप्रभावः, साधयामि सङ्गीतं, परमसदृशरूपेण यदा साध्यते तदाश्चर्य भवेल्लोकानामिति चिन्तयित्वा वामनरूपं विहितं तत्कीदृशं ?–अलावुकलिकानिभा दशनमालिका राजते, स्थपुटवदननिर्गतप्रलंबाधरोष्टः स्फुटं । झरनयननासिकः कुतुभसन्निभं मस्तकं, जुगुप्सितकफस्र मुखमहोघनश्यामलं ॥ १ ॥ गिरिशिखरसदृक्षः पृष्ठदेशः प्रचण्डः, कटिरुदरविल्मा हस्वजनोरुजानुः । इति सकलजनानां दर्शनाय स्वरूपः, किमि सदसि भावी वैणिकानां प्रणेता ॥ २ ॥ इत्यादि वाक्यरचनापरैलॊकैईस्यमानो वैणिकाचार्यपार्चे गत्वा महाखड़ प्राभतीकृत्य पाह-शिक्ष्यतां वीणा, योग्योऽहमेभ्यः, स्मितपूर्वकं वचः श्रुत्वा अनर्घ्यढोकनं दृष्ट्वा च गुरुणा तस्य करे स्वरसाधनप्रवणा वीणा दत्ता, सा साध्यमाना विपर्यस्तहस्ताङ्गुलीत्वे तत्सारिकास्त्रोटिता, भग्नं कोणकं, जर्जरीकृतानि तुम्बकानि, सर्वेषां हास्यरसमेव वर्द्धयता तन्त्रावितन्त्रीकृता सभ्यैहास्यविशदीकृतः सङ्गीतमण्डपः, वक्ति वामनः-नास्ति कोऽपि वैणिको येन सह गीत| गोष्ठीविधीयते, परं वीणापिशुद्धा नास्ति, या वाद्यते दयते स्त्रविज्ञानं च, इति तद्वचनं निशम्य तदा सर्वैः सम्भूय प्रावेशितः कुमारीगृहं, Jain Education. com For Private & Personal use only MIhinelibrary.org N Page #56 -------------------------------------------------------------------------- ________________ श्रीपाळस्य सार्थपमीबनं कुंडलपुरगमनं गुणसुंदरी ग्रहणं ॥२४॥ तत्रापि विरूपं दृष्ट्वा द्वारपालेन रुद्धः, तस्य भूषणरत्नं दत्तं तेनापि योग्योऽयामति ज्ञात्वा प्रवेशो दत्तः, गतः कुमारीसमीपं, तया पृष्टः, श्रीपाळ कुतस्समेताः किं प्रयोजन स पाह-द्वीपान्तरादागताः, प्रयोजनं तु यत्सर्वेषां तदस्माकमपि, परं कलाकुशलः कोऽपि नो दृश्यते येन सह चरित्रम् गानं वितन्यते, 'संसारे सारो नाद एव कर्त्तव्यः', यथा-" नादज्ञगुणतस्तिर्यग, कुरङ्गोपि कलाभृता । स्वीकृतो नादतः शेषो धात्रा भूभारभाक् कृतः॥१॥ नादेनाऽपि न मुह्यन्ति, येऽनन्तसुखहेतुना। किं तेषामुपमीयन्ते, पशवो नादवेदिनः ॥२॥ नादोऽनन्त- Y सुखागारो, नादो दुःखौघघातकः। नादो यस्य समीपस्थः, स शुचिः पुण्यवान् स्मृतः ॥ ३ ॥ तुष्यन्ति नादतो देवाः, नादाधर्मः प्रजायते । नादानरपतेरों, नादानार्योऽपि वश्यगाः ॥४॥ गुरुयोगादयं नादो, ह्यानन्त्यं गमितोऽपि यत् । परमानन्दसौख्यानि, प्रयच्छत्यपि लीलया ॥ ५॥ इति श्रुत्वा तया वरणप्रतिभूः स्ववीणा दत्ता, वादय इमा, तामादाय धूनयति शिरः, पृष्टं कुमा--किमर्थं शिरोधूननं, वामनः पाह-अहो महदाश्चर्य दृष्टं स्त्रीणां गर्भोद्भवः सर्वत्र कथितः, परमत्र तु पुरुषः सगर्भो दृश्यते, इत्यसमञ्जसजल्पनेन हसिता कुमारी पाह-तत्कथं वैणिकरूप! तदा स वक्ति-वीणादण्डो जर्जरीभूतः अन्तर्भूतकेशदूषितत्वात तन्मुखे शब्दकारिणी जिव्हालिर्दग्धमानत्वात् तादृशः स्वनो न जायते, तत्प्रत्ययार्थ सा विघटय्य पुनः सज्जीकृता वामनेन वादिताऽधरीकृतकच्छपी तथा वादिता यथा तत्कालं सर्वाऽपि अनिमिषनयना जनता जाता विस्मयं प्रापिता, सप्तस्वरग्रामत्रयैकाविंशतिमूर्च्छनकोनपंचाशत्यानध्वनिदाननिदानतथोद्गानश्रवणेन लोको लयलीनतां तदागतः,-शृङ्गारामृतनीरराशिपयसा कि सिश्चिता मजिताश्चित्राब्धौ किमु पक्षिणोऽपि पशवस्तिर्यग्गणाश्चाभवन् ।स्वप्राणानपि कि मृगाश्च भुजगाः कृत्वाऽऽपणा नादरात्तत्तानाश्च | |॥२४॥ नरास्त्रियश्च समये बाला अबाला अपि ॥१॥ यथा तेषां भूषणादिकं गृहीत्वा २ राशीकृतः किं नवीनः स्वर्णगिरिरिति लोकेन पृष्टः, JainEducationalional For Private Personel Use Only Tallinelibrary.org IST Page #57 -------------------------------------------------------------------------- ________________ सन्नवादीत् वामनः- न जानीथ किं युष्माकमेवेदं ग्रहणादिकं ?, यतः - " नादस्तु पञ्चमो वेदो, नादस्तु दशमो निधिः । नादः पञ्चदशं रत्नं, नादस्तु सप्तमो रसः " ॥ १ ॥ एतादृशं तत् कच्छपीकलाकलापकलितकौशलं चन्द्रमुदितं विलोक्य सकल| राजकुमारवदनकमलवनं म्लानीभूतं मुदितं च कुमारीकलाकौमुदिन्या, जाता पूर्णप्रतिज्ञेति वदन्त्या हसन्त्या तत्स्वरूपमा - लोक्य क्षिप्ता कण्डे स्वयंवरमालिका तया, राजादयः सर्वेऽपि प्रद्विष्टचेतसो जाताः, किं कृतमनया ? वामनो वृतः, तावता कुमारेण निजरूपं प्रदर्शितम्, प्रमुदिता जनकादयः, उपलक्षितश्च सर्वैरपि, हयगजधनधान्यभवनादियाँतकदानेन तोषितस्तत्र स्थितो भुजालः श्रीविशाल: श्रीपालो भुनक्ति लीलाविलासं । अथान्येद्य राजपाटिकायां गतः रूपेणाऽधरीकृतमारः कुमारो दृष्टस्तत्रैकः पथिकः, पृष्टश्च विशेषोदन्तं वक्ति - देव ! कुण्डलपुरादिभ्येन धनावहश्रेष्ठिना प्रतिष्ठानपुरपत्तने प्रेषितोऽहं तत्र गन्ताऽस्मि, अथान्तराले यदावर्य दृष्टं तत् कृणुत । काञ्चनाद्रिकूटानुकारिकाञ्चननिम्मितही सुन्दरं काञ्चनपुरं नाम नगरं पोस्फुरीति, तत्र सपत्नभूघरदारणवज्रसारो वज्रसारनामा राजा, तस्य कृताभिषेका कमनीयकरेणुक्रीडनशाला कंचनमाला इति नाम्नी राज्ञी, तत्कुक्षीसमुद्भवाश्चत्वारः पुत्राः पवित्राः शौण्डीरायं शोधवल यशोधर-वज्रसिंह गन्धर्वनामान:, तेषामुपरि चैका त्रैलोक्यजनमनः कोकिल सहकारमञ्जरीव त्रैलोक्यसुन्दरी पुत्री उपनिपदिव वेदानामस्ति किं बहूक्त्या ? " यदङ्गनिर्माणकृते विधात्रा, रम्भादयोऽन्या विहिता हि पूर्वं । किं हस्तलेपाः कथमन्यथाऽस्या, अन्य भजन्ते किल हीनभावं ॥ १ ॥ ब्रह्माद्वयीभावमपास्यमानं, स्मराद्वयीभावमुपास्यमानम् । वयः प्रपन्नाऽस्त्यधुना द्वितीयं, धुनीशगा Page #58 -------------------------------------------------------------------------- ________________ त्रैलोक्य सुन्दरी स्वयंवरः ॥२५॥ म्भीर्यगुणा नरेश!॥२॥ अथ तदनुरूपगुणगणकलितललितवरमलभमानेन तज्जनकेन प्रारब्धोऽस्ति विशालस्थलमुक्ताफलमणिकाञ्चन | श्रीपाल निम्मितस्तम्भस्थितशालभञ्जिकावलोकनक्षुभितजननिकरः प्रवरः स्वयंवरणमण्डपः, तत्र चतुष्पार्थेषु कौतूहलपरिकलिता स्वर्गिविमाना dचरित्रम् वलिरिव मञ्चश्रेणिविरचिता, तत्संनिधाने च निमन्त्रितराजन्यगौरवकृते तृणधान्यादयस्तथा राशीकृता यथा गिरय इव संलक्ष्यन्ते, आषाढशुक्ल द्वितीयादिने तस्याः पाणिग्रहणमहोत्सवोऽस्ति, स द्वितीयादिवसोऽपि प्रत्यूष भविष्यति, अतस्त्रिंशद्योजनानामन्तरं तस्य नगरस्य, तद्योग्यं नररत्नं च त्वमेवासि, तत्कथं विधेयापारः सफलो भविष्यति? इत्याश्चर्य, अतः स्वस्त्यस्तु भवते । इति पान्थवचो निशम्य हृष्टचित्तस्तस्मै स्वतुरङ्गं काञ्चनाभरणग्रैवेयकं च पारितोषिकं दत्त्वा विसृष्टः, स्वयमपि निजावासे समागतः, चिन्तयति । पश्चिमनिशायां-तत्र गत्वा पश्यामि स्वयंवरमण्डपमिति विचार्य दिव्यहारप्रभावेण कुब्जरूपं विधाय गतस्तन्नगरं, प्राप्तः स्वयंवरमण्डपं, तत्र प्रविशन्नपि दौवारिकेण कुरूप इतिकृत्वा रुद्धस्तस्यानयमाभरणग्रैवेयकादिकं दत्तं, तुष्टो दौवारिको, धीरललितः कोऽप्यं दृश्यते इत्युक्त्वा प्रवेशितः प्राप्तो मूलमण्डपं स्तम्भस्थितपञ्चालिकापाचे सुखेन तस्थौ कृतकृत्रिमरूपः कुब्जः, अथ तं उच्चपृष्ठिदेशं चिपिटनासं सङ्कचितोदरं खरदन्तुरं कपिलचिकुरं प्रलम्बो_मिलिताधरोष्ठगलल्लालवदनं पिङ्गलनयनं विलोक्य वदन्ति लोकाः-भो रूपपाश ! किमर्थमिहागमनं ?, स वक्ति-यः सर्वेषामर्थः स ममापि, ततः करतालिकाप्रदानपूर्वकं हसित्वा वदन्ति सर्वेऽपिएतादृशो यदि राजकन्यां न वरिष्यन्ते तदा सा सुभगा कथं भविष्यतीति ? इति यावता वार्तयन्ति तावता अनेकच्छे कविवेकिनरोद्वाह्यशिविकारूढा अच्छोदाच्छक्षीरोदकवसनं वसाना विमलमुक्ताभरणा करकलितललितविमलमाला सा वाला मूलमण्डपे समागता नैसर्गिकस्वर्गिसुन्दरं कुमारं विलोकयति, तं दृष्ट्वा चिन्तयति चित्ते " धन्या कृतपुण्याऽई, शिष्टं दिष्टं ममाद्य सञ्जातं । ईप्सितजलधि ॥२५॥ inelibrary.org in Eduaan For Private Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ शशाङ्कः, समुपेतो यत्सभाव्योम्नि ॥१॥ अस्य प्राप्त्या मानस ! वर्द्धयतात् प्रमदपूररससिक्तम् । मचातुरिवरविचकिलकुसुमभ्रमरं विलोक्यैनम् ॥२॥ कुमरोऽपि तत्कटाक्षक्षेपितकुसुमेषुवाणचेतस्कः । दर्शयति निजं रूपं, कुब्जत्वेनान्तरप्राप्तः ॥३॥ दौवारिकापि यं यं, वर्णयति नृपं गुणैर्वयोमुख्यैः। भर्ल्सयति तं कुमारी, तदुक्तिवक्रोक्तिभिर्वाग्भिः ॥४॥ सितपक्षयामिनीवत् , संसज्जाता तदा नृपाणां च । पूर्व तु विशदवर्णा, तत्परिहारात्ततः कृष्णा ॥५॥ निर्वाऽखिलराजकमाभाष्य गता विलक्षणं यावत् । तावत् कुब्जे लक्ष्य, कृतं तया प्रातिहारिण्या ॥ ६ ॥ अत्रान्तरे च मण्डपस्थूलस्तम्भस्थिता च पाञ्चाली । हाराधिपविमलसुरप्रभावतश्चेदृशं वक्ति ॥७॥ यतः-" यदि धन्याऽसि विज्ञाऽसि, जानासि च गुणान्तरम् । तदेनं कुब्जकाकारं, वृणु वत्से ! नरोत्तमम् ॥ ८॥ तच्छ्रुत्वा सा माला, कुब्जगलेऽक्षिपदलक्ष्यरूपगुणे । सोऽपि पुनः सविशेषं, दर्शयति कुरूपमात्मानम् ॥९॥ सर्वे ते भूपालाः, कोशाकृष्यत्करालकरवालाः । मुञ्चैनां वरमालां बालां च बदन्ति वाचालाः ॥१०॥ यद्यप्येषा मुग्धा, गुणिनमगुणिनं न वेत्ति नृपतनया । परमसमंजसमेतत् , सहन्ति नो ये हि मध्यस्थाः॥११॥ द्राक्षामध्यमुपेक्ष्य, चिरमेहीनन्दनस्य मात्सर्यम्(ये)। सति चैकावलिरत्नं कण्ठे काकस्य तद्वदियम् ॥ १२ ॥ मालीनकमणियोगे, नियोक्तुरेवापवाद एव स्यात् । तस्मात् झटिति त्याज्या, नो चेत् त्वच्छीर्षकं छिन्दः ॥ १३ ॥ कुब्जः स्मित्वा पाह-यद्यनया नो वृता भवन्तः किं । दौर्भाग्यदग्धदेहास्तद्रोषं ब्रह्मणे कुरुथ ॥ १४ ॥ अस्माकं नो दोषः, सुकृतिजनानां पदे पदेऽभीष्टम् । भवति ह्यभाग्यवशतः, सम्पद्यापजने सुळभा ॥१५॥ चेद्रसिकाः सङ्ग्रामे, सज्जीभवताऽऽशु शोभनः समयः। सिस्नासवो मदीयकृपाणधाराजले तीर्थे ॥ १६॥ यत्परवनिताभोगाऽभिलापपापात्मनां च युष्माकं । मदोर्दण्डश्चण्डः, शास्ता मिलितोऽद्य भूरिदिने ॥ १७ ॥ इत्युक्त्वा ते भूपाः, कुब्जेन त्रासितास्तथा Jain Educal national For Private & Personel Use Only lajainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ त्रैलोक्य सुन्दरी स्वयंवरः ॥२६॥ नेशुः। भीतिविहस्ता दिक्षु, द्विकनाशं तद्यशः सार्द्धम् ॥ १८॥ कुजपराक्रमरञ्जितहृदयैरिव निजरैः कुसुमदृष्टिः । मुक्ता तदु || श्रीपाक परि तूर्ण, किं न भवेत् पुण्यतो भव्यम्? ॥ १९ ॥ इत्यादि व्यतिकरं दृष्ट्वा वज्रसेनोऽपि राजा हृष्टचित्तो भणति-यथा बलं दर्शितं तथा रूपमपि प्रकटीकुरु, तच्छ्रुत्वा तस्मिन्नेव समये स स्वभावरूपं दर्शयामास, शरदभ्रानिर्गतेन्दुदर्शने चकोरवत् तपात्यये घनदर्श चरित्रम् नात आनन्दितनीलकण्ठबदानन्दितो राजा पर्यणापयत् स्वपुत्री, दत्तं च यौतकमावासघनहिरण्यादिप्रभूतं, तया सह विलसति परमानन्दं परमात्मेवोद्भूतशक्त्या भावनया सङ्गन्तः । अथान्येयुः कोपि वा यनस्तत्रागतः सभायां प्रणामपूर्वकं नत्वोपविष्टः पृष्टश्च स्वागतं किमप्यपूर्वाश्चर्यचर्य वक्ति-देव ! आस्ति समस्तशस्तस्वस्तिपर्शस्तिपट्टिकामरालिकाक्रीडनमहीमहीमहेलाभालस्थलाभोगभास्वल्ललामभूतं दलपत्तनं नाम पत्तनं, तत्र करकलितकरालकरवालो धरापालो नाम भूपालः, तस्य चतुरशीती राज्यः सन्ति, तासामाद्यानवद्यसौन्दर्यवर्यचातुर्याधनेकगुणगणानेकपनियंत्रणालानशाला गुणमालानाम्नी पदनधाम्नि रतिरिवास्ते पट्टमहिषी, तस्याः पञ्च पुत्राः कामगुणा इव मूर्तिमन्तः १हिरण्यगर्भ २ योध३ स्नेहल ४ विजितारि५सुकर्णप नामानस्तेषामुपरि सारशृङ्गाररससहकारमञ्जरीव शृङ्गारमञ्जरीनामपुत्री महावतानामुपरि क्षान्तिरिव ऋतुपञ्चकानामुपरि वसन्तश्रीरिवाद्भुतकलागुणपूर्णा तारुण्याऽलङ्कृतदेहा जिनधर्मानुरक्ता अस्ति, तस्याः पञ्च सख्यः सन्ति अहिंसायाः समितय इव पण्डिता १ गुणा २ विचक्षणा३ निपुणा ४ दक्षा ५ भिधानाः बुद्धः पञ्च कारणानीव व्रतस्य भावना इव, अथैकदा तासां पुरः कुमारी वदति-जिनमतरतानामात्मनां यदि जिनमतविस्तृतमतिः पतिश्चेद्भवेत् तदा सुन्दरं इति वचः श्रुत्वा ता वदन्ति-सत्यं वयस्ये! मनोनिवृतिहेतोः पतिरङ्गीक्रियते सोऽपि धर्मविरोधकृद्भवति तदा पाणि १ कल्याण. २ श्रेष्ठता. Jain Educati Silainelibrary.org For Private Personal Use Only onal Page #61 -------------------------------------------------------------------------- ________________ Jain Educatio ग्रहणेन किं ?, परं तत्परीक्षा तु जल्पनेन ज्ञायते, को जानाति कस्य कीदृग् स्वभावः ?, यदुक्तं - " आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अथ रात्रिश्च उभे च सन्ध्ये, धर्म्मश्च जानाति नरस्य वृत्तम् ॥ १॥ दूरतो बहवो राजानः समागमिष्यन्ति, तत्र कथं परीक्षातो लभ्यते इतिश्रुत्वा शृङ्गारसुन्दरी वक्ति-य आत्मीयां समस्यां मूलमण्डपस्थापितपश्च पुत्तलकमुखेन पूरयिष्यति स एव वरत्वेनाङ्गीकर्त्तव्य इति सन्धां कृत्वा ताः स्थितास्सन्ति, राज्ञापि स्वयंवरमहः प्रारब्धः, मिलिताश्चानके विवेकिनृपपुत्राः पवित्राशयाः, सापि पृच्छति तान् समस्यां, परं न कोऽपि तन्मानसमानसस्ताचं लभते राजहंस इति प्रवृत्तिमाकर्ण्य तुष्टः कुमारस्तस्मै पारितोषिकमर्पयित्वा चिन्तयति चित्ते ममापि हारप्रभावेण तत्र गमनं भवत्विति विचार्याश्चर्यातिरेकसञ्जातचित्तचमत्कारः कुमारो गृहं प्राप्तः पुनः प्रभाते तर्कयति--हारप्रभावेणैव राजकन्याः पूर्णप्रतिज्ञाः क्रियन्ते तदा भव्यं भवतीति, विचारमात्रमेव झटिति स्वभावरूपेण पञ्चसखी संयुतराजसुतासनार्थं स्वयंवरणमण्डपं प्राप्तः सापि मारोपमरूपम समलावण्यमगण्यपुण्यं तमागतं वीक्ष्य नृपपुत्री विस्मितहृदया पूर्णप्रणया चिन्तयति - अयमेव समस्यां पूरयिष्यतीति निर्णयः पण्डिता प्रथमपदे चैकं पदं पठति-मणिच्छियं सुहफलं लहए इतिपदं श्रुत्वा पूरणीयं मयैव तत्पदमिति चिन्तयित्वा पार्श्वस्थित पुत्तलकमूर्द्धनि स्वहस्तो दत्तो, दारप्रभावात् स पुत्तलको जल्पति-" अरिहंताइपयनवय, घरे जो णिच्चयं मणे भव्वो । सुरनरमहणीओ सो, मणिच्छियं सुहफलं लहइ " ॥ १ ॥ ततः प्रगुणा पदमेकं वक्ति- अण्णं आलं म जपेद इतिश्रुत्वा कुमारकर पवित्रितः पुत्तलको भणति - " अरेहं देवो सुगुरू, सुद्धो धम्मो दयात्रिसालोय । पर मिट्टीपरममंतो, अण्णं आलं म जपेद्द " ॥ २ ॥ ततो विचक्षणा पठति तृतीयं समस्यापदं - अप्पाणं सुहफलं कुज्जा, कुमारमेरितः पुत्तलकस्ततः पूरयति पादत्रयं - " आराहिऊण जिणगुरू, दाऊण सुपत्तदाणमणवरतं । किच्चा परोवयारं, अप्पाणं सुहफलं कुज्जा " ॥ ३ ॥ ततो निपुणा ational Rainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ श्रीपाळ चरित्रम् शृंगारमञ्ज रीप्रमृतेर्ज- यसुन्दर्याश्च विवाहः ॥२७॥ वक्ति,-लिहियं विहिणा हि जं भाले, पुनः पुत्तलकः प्राह-" मा कुरु चटुलं चित्तं चिन्ताजालंमि मा पडे अपा! । लभइ तित्तियमित्तं, लिहियं विहिणा हि जं भाले"॥४॥ ततो दक्षा पाह-तस्स भवे तिहुयणं भिच्च, पुनः पुत्तलकः कुमारप्रेरितः प्राह|" जस्सत्थि पुण्णमउलं, परभवविहियं जिणंदधम्मभवं । बलरिद्धिसुमइसहियं, तस्स भवे तिहुयणं भिच्चं ॥५॥ इत्यादि वयस्यासमस्यापूरणेन विस्मिता सस्मिता कुमारी बहलामन्दानन्दपुलकिताङ्गी त्रिजगजनताधिकसारं कुमारमवृणोत्, राजापि हृष्टचित्तो जातः, लोकोऽपि परस्परं जल्पति, महदाश्चर्यमेतत् यत् मनोगतसमस्याः पूरिताः स्वकरप्रदत्तमुखरितपुत्तलकमुखेनैवेति लोकोत्तरचरित्रोऽयं कोऽपि सिद्धरूप इति प्रशंसन्ति सर्वेऽपि नागरिकाः, राज्ञा स्वपुत्र्याः पञ्चसखीसमेतायाः पाणिग्रहमहः कारितः सुखेनातिष्टत कियन्तं कालं तत्र पत्तने । अत्रान्तरे चैको भट्टः कुमारमाहात्म्यं दृष्ट्वा गाढशब्देन ध्वनति-शृणुत भो भुजाला भूपालादयः समस्ति पुरन्दरपुरप्रतिस्पर्खिसुखमानिवाससदनं कोलागनाम पत्तनं, तत्र दारिताखिलभूपालभामिनीनेत्रनीलोत्पलगलाष्पपयःपूरप्लवमानासमानसत्प्रताप सितच्छदसुन्दरः पुरंदरो नाम राजा, निजभुजसमुपार्जितजयश्रीरिव मूर्तिमती विजयाराज्ञी, तयोः सप्त पुत्रा हरिविक्रमनिरुपक्रम-हरिपेण-श्रीपेण-सुषेण-जयसेन-विजयसेननामानस्तेषामुपरि चैका पुत्री प्रथमरसरसालमञ्जरीवाधरपल्लवसितस्मितकुसुमागचङ्गिमसद्वर्णस्तनफलवती सुन्दरी जयसुन्दरीनाम्नी, किंबहूक्त्या,"रूपलावण्यसौन्दर्यचातुर्यादिगुणोत्करैः। रम्भादयो लघूभूता, भ्रमन्ति लज्जिता दिवि ॥१॥ साचैकदा मातुरंकस्था यौवनाभिमुखी पित्रा दृष्टा, कोऽस्या अनुरूपो वरो भावी?, तदा आसन्नगतेन तदध्यापकेन भणितं-देव ! त्वत्पुच्या सकलकलाकलिंदिकाशैवलिनीमवगाहमानया राधावेधसाधनोपायः श्रुतो मत्पार्चे, स कीदृशः?-मण्डिज्जन्ते १ स्त्रियो आंसु पाडती थकी. Jain Education Interational Page #63 -------------------------------------------------------------------------- ________________ Jain Educa थम्भट्टियचकाई जंतजोगेण । सिट्ठिविसिद्विकमेणं, एगंतरियं भमंताई ॥ १ ॥ चक्कारयविवरोवर, राहानामेण कडपुत्तलिया । ठावया हवेइ तीए, वामच्छी किज्जए लक्खं ॥ २ ॥ हिदुद्वि यतेलकडाहयंमि पाडी विम्वलद्धलक्खेणं । उड्डसरेण नरेणं, तीए वेहो विहे - यत्रो ॥ ३ ॥ सो पुण केणवि दक्खेण, विन्नाइयधणुहवाणवेएण । उत्तमनरेण किज्जइ दुज्जयकज्जं मिगं लोए ॥ ४ ॥ यथाविनयान्ताः सर्वगुणाः, शान्तरसान्तो भवः प्रणामान्तः । कोपो भावान्ताश्च क्रिया धनुर्वेध एवात्र ।। ५ ।। इत्यादिवाक्यं मदीयं श्रुत्वा बहुसमक्षं प्रतिज्ञा कृताऽनया-यो मदृष्टिपुरतो राधावेधं करिष्यति स एव नररत्नमङ्गीकर्त्तव्यो भव्यपाणिग्रहण, अतो न ज्ञायते कस्येयं मुद्रामाणिक्यं पत्नी भविष्यति ?, इतिअध्यापककथितं श्रुत्वा राज्ञा विस्तरेण राधावेधस्य सामग्री प्रारब्धा, आकारिताश्चानेकविवेकराजन्यपुत्राः कुन्ति तदभ्यासं विशदयन्ति सभ्यास्यानि हास्येन परं केनापि न साधितो राधावेधः, इदानीं तु भवन्तमालोक्य निश्वयः कृतो यदि कदापि साध्यते तदा त्वयैदेति नान्येनेति कथयित्वा निवर्त्तितस्य भट्टस्य कुण्डलं समर्प्य सपरिच्छदो नृपदत्तावासमागतः कुमारो, रमणीगणरमणरसपरवशो रजनीमतिवाह्य प्रत्यूषे कोल्लागपुरं प्राप्तस्तत्रापि हारप्रभावेण नरेन्द्रकुले मिलितेऽप्यमिलितरूपः स्वयं स्थितः स्तम्भपार्श्वे, सर्वेऽपि नृपा राधावेधसाधनसावधाना दप्पोंडुरा मानातिगाः पर्वता इव दृष्टाः, सुन्दरीजनता प्रदानपूर्वकं खिन्नेऽथ तस्मिन्नृपकुले विशदीकृतवदनकमलः श्रीपालोऽवदत् भुजास्फोटं कृत्वा भो ! भूपाला विद्याशक्ति शालिनो निजसारमविचार्य कथमत्रागताः, अविमृश्यकृतं कार्यं जनोपहासाय स्यादतः पौरुषव्यक्तिकारिणी चेच्छक्तिर्भवेत् तदा प्रकटीकार्या, इदानीं समयोऽस्ति नो चेदहं वः प्रत्यक्षमल्पपरिच्छदोऽपि झटित्येव राधावेधं साधयिष्यामि इति यावज्जल्पति नद्धधम्मलमल्लिका कुसुमामोदमाद्यन्मधुपोपवीज्यमानानना चलनेत्रनीलोत्पलमभामोतकर्णपूरकुवलयाकिमरिता लसत्कुण्डलमण्डल emational Page #64 -------------------------------------------------------------------------- ________________ - राधावेधः तिलकसुंद री विवाह: ॥२८॥ संघृष्टविमलकपोलमणिदर्पणा श्वेतवासो बसाना शिविकारूढा जयसुन्दरी समागता जगज्जयायाङ्गिनी स्मरशिक्तिरिव स्वयंवरण- श्रीपाक मण्डपमध्यं, अथ कु मारेणापि स्वकीयलीलामात्रेणैव हारप्रभावेण राधावेधो विहितः, तयापि गुंजन्मधुपझंकारं तद्गुणानुद्गृणन्ती वरमाला चरित्रम् तत्कण्ठे क्षिप्ता, जातो जयजयारवो ननाद तूर्यत्रिकं नन्तुराङ्गना उद्गीतो धवलध्वनिः सुदतीजनवर्गेण कारितो राज्ञा पाणिग्रहणमहो, नरपतिप्रदत्तावासे प्रमोदपूर्णो जयसुन्दरीयुतः सुखेन तिष्ठति स्म । अथान्येद्युर्मातुलनृपसचिवाः कुमाराकारणार्थ तत्र प्राप्ताः, कुमारेणापि स्वकीयप्रमदाकारणार्थ सर्वत्र प्रेषिताः प्रधानपुरुषास्तेऽपि ताः समाहूय समागताः, मिलितं च तत्र सर्वसैन्यं हयगजरथपदा. तिसङ्कलं, तेन समेतः कुमारचलितः प्राप्तः स्थानाभिधं पुरं, तस्य सर्वोत्कृष्टं सुन्दरीचतुष्कयुतां राज्यश्रियं मदनां च निरीक्ष्य प्रपोदं प्राप्तोऽभिषेकविधिपूर्वकमनेकनरनाथसंयुतो मातुलः श्रीपालं राज्ये स्थापयामास, सिंहासने निषण्णो वरहारकिरीटकुण्डलाभरणश्चापरच्छत्रप्रमुख राजचिन्है: कृतशोभासमुदयः प्रणयप्रणतः सामंतमन्त्रिभिर्भूरिमणिमौक्तिककरितुरगमाभृतभृतकरैः स्थप्रवहणश्रीसमेतश्चतुरङ्गचमूपरिवृतो निजजननीपदप्रणमनाथ चलितः, स्थाने स्थाने नरेन्द्रद्वन्दैविविधोपायनहस्तै म्यमानो बन्दिजनैः स्तूयमानः कलमशालिपालिकागोपीवधृजनीयमान यशाराशिः सम्माप्तः क्रमेण सोपारकपुरपरिसरं, कृतः स्कन्धावारनिवेशः, तत्र पुरपरिसरस्थश्चैको नरः पृष्टः श्रीपालेन-भो ! प्रधाननर सोपारकनृपः कथं स्वभक्तिं शक्तिं वा न मकटयति ?, तदा तेनोक्तं-महाराज ! अस्मदीयस्तिरस्कृतभूरसेनो महसेननामा राजास्ति, तस्य तारानाम्नी पट्टदेवी, तस्याः कुक्षीसरोजिनीमधुकरी त्रिजगद्रामारमातिल कसुन्दरी नाम्नी तनयास्ति, सा अयैव कथमपि दुष्टेन दीर्घपृष्ठेन दष्टा, तत्राऽनेके मन्त्रोपचारा औषधयः सिद्धविद्या वैद्याश्चाकारिताः, परं सर्वेऽपि । निष्फलोपाया जाता अभव्ये खूपदेशा इव, तच्चिन्नापरवशो राजा भवद्भक्तिमगुणो न जातः, परं नान्यः कश्चिद्विकल्पः, तस्योपरि अप्रसा IN|॥२८॥ Jain Educate Trational Plainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ AMI दो न विधेयः, तद्वचः श्रुत्वा परोपकृतिनिपुणो राजा श्रीपालः तुरगारूढो यावता पुराभिमुखो याति तावता सर्वोऽपि नगरीलोको बहिर्गच्छन् दृष्टः, चिन्तितं राज्ञा मृतैषा तथापि पश्यामि, एवं चिन्तयित्वा झटिति तत्र गत्वा प्रोक्तं-दर्शयनामकवारं, तदा तैर्भणितं-कि दयते ?, अस्माकं सर्वस्वमहृतं विधिना यदेषा मृता बाला, चितायां स्थापिता, तत् श्रुत्वा पुनर्वक्ति राजा-अहिदष्टा मृतकल्पा मूच्छिता भविष्यति, यथा तथा त्वरित दाहो न विधीयते, इतिश्रुत्वा दर्शिता सा चितासमीपे महीतले सुप्ता निश्चेष्टा, तदैव कुमारेण कण्ठस्थित. हाररत्नप्रतिसिक्तजलप्रभावेण नवपदगारुडमन्त्रेण च सा सज्जीकृता समुत्थिता तज्जनानन्देन सार्द्ध, हृष्टो जनकादिपरिकरः, निद्रालसेव जल्पति-तात ! किमिदं कथं लोको मिलितः पुरवहिश्चितादिक मकल्याणं कथं कृतं ?, तद्वचो निशम्य महसेननृपो भणति-भो वत्से ! अस्मज्जीवातुकल्पे त्वं दुष्टाऽहिना दष्टा नष्टचेतना जाता, तेनेदं कृतं सर्वमशुभविधानं, यद्ययं कृतप्रसादो महाराजो नायास्यत् तदा त्वमस्मन्मनोरथैरसह कथमुदनीविष्यः ?, अनेनैव परमपुरुषेण त्वत्प्राणा दत्ता इति पितृवचः श्रुत्वा तयापि सानन्दं कटाक्षलक्षीकृतः श्रीपालभूपालो,महसेनोऽपि वदति-कृपावद्भिर्भवद्भिरस्माकं जीवितं दत्तमतो जीविताभ्यधिकामिमां कन्यां गृहाणेत्युक्ता तत्रैव पाणिग्रहणमहः || कारितः, समहं पुरप्रवेशो विहितः, तत्राप्यष्टबनितायुतस्तिष्ठति सुखेन, तथापि मातुः पदप्रणमनसमीहा स्वचित्ते, अष्टाग्रमहिषीतो हरिजिनभक्तिमिवाष्टदिगलतो मेरुरुदयश्रियामिवाऽटसमितः साधुः समतामिवाऽष्टसिद्धिसंयुत आसन्नभवसिद्धिकः मुक्तिमिवाष्टदृष्टिविशिष्टः शिष्टः सर्वविरतिमिवोत्कण्ठितचित्तो मातरं मिलितुं प्रयागढका दापयित्वा ततः चलितः, पदे पदे मार्गे गजरथतुरगरत्नवस्त्राभरण भृतिप्राभूतप्रदानप्रवणनरचः वर्द्धितबलः पापेण्यपयःपूरवद्धितो नीरनिधिरिव बहुवाहिनीकः प्राप्तो मालवदेशं, चरमुखात् ज्ञातपरचक्रागमनभयभीतो वर्ष प्रगुणीकृत्य तृणधनजलेन्धनानि सम्भृत्य सज्जोभूत्वा स्थितो मालवाधिपतिरपि, एवं साध्वन्तिरपि श्रीपाल in Education international For Private & Personel Use Only M ainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ मातृपत्नी मिलनं ॥ २९ ॥ | सैन्येन समन्तात् परिवेष्टिता कटिरिव वस्त्रेण शुद्धा वागिव कुण्डलिकया, अथ रात्रौ सैन्यं निवेशयित्वा प्रथमयामे हारमभावेण स्वयं श्रीपाल : जननीगृहं गतः, तत्र द्वारे स्थितः शृणोति जल्पनं- कमलप्रभा मदनां प्राह-वत्से ! परचक्रेणेयं पुरी वेष्टिता न जाने किं भावि लोकानां ?, परं महद् दुःखमस्ति देशान्तरं प्राप्तस्य पुत्रस्य वर्षमेकं जातं परं कापि शुद्धिर्न लब्धा, तदेव महच्छल्यमायमिति वचः श्रुत्वा मदना वक्ति-मातर्मा विषादं कुरु, नवपदध्यानात् सर्वे भयं भयप्राप्तमिव दूरतो याति, यतः “विग्गहभंजण वयरियमद्दण गहपीडा नवि हुँति । परदुहासय दूरिहिं, जे परमेट्ठि जपंति ॥ १ ॥ रोग अरिजलणविसहरजलगयमियरायदुट्ठगहचोरा । सब्बे संसारभया न हुति नवपयपसायाओ || २ || अन्यदपि सन्ध्यासमये जिनवरेन्द्रप्रतिमां पूजयन्त्या मम कोऽप्यानन्दोऽहेतुकस्तथोत्पन्नः " तगतचित्तानन्दो ह्यनुभवजन्यः प्रमोदपुलकश्च । भवभयहर्त्ता भावो भवेदहेतुः कृपापूरः ॥ १ ॥ एतदमृतक्रियायाः फलमविलम्बेन कार्यसिद्धिर्हि | पीयूष पीते गदोपशान्तिर्नृणां भवति || २ || अन्यदपि स्फुरति वामनयनं वामपयोधरच तेन जानेऽहं त्वरितमेव प्राणवल्लभयोगो भविष्यति, तत् श्रुत्वा कमलप्रभा भणति आनन्दिता - वत्से ! धन्या त्वद्रसना सुवर्णमयी भवत्वेवं त्रेधाप्रत्ययं त्वद्वच आसवाक्यमिव प्रमाणमित्यालापं श्रुत्वा श्रीपालः प्रियामानसं धर्मनिष्टितं विज्ञाय तद्वचः सत्यकरणार्थमिवेत्युक्तवान् उद्घाटय द्वारमति निशम्य वति कमलप्रभा - नूनं मत्पुत्रवचनं, मदनापि भणति - मातज्र्जिनमतवचनविदुषां वचो नान्यथा भवतीत्युदित्वा द्वारं उद्घा टितं प्रणतं मातृपदयुगलं, परमप्रेम्णा विनयप्रगुणा संभाषिता दयिता प्रापिता परमोलासं वसंतसमागमेन वनश्रीरिव प्रभातसमयेन चक्रवाकीव शरदिन्दुसमुदयेन सिंधुवेलेव, तत्र क्षणं स्थित्वा जननीं स्कन्धे समारोप्य दयितां च हस्ते समालम्ब्य हारप्रभावेणालक्षीभूतः प्राप्तः स्वस्कन्धावारनिवेशं, तत्र नरपतिः सिंहासने स्थित्वा मातुश्चरणकमलमभिनम्य प्राह-मातः ! सर्वमेतत्फलं नवपदप्रभावजन्यं Jain Education iterational श्रीपाल चरित्रम् ॥ २९ ॥ jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ त्वत्प्रसन्नतायाश्च,प्रणमन्त्येता अष्टौ प्रिया मदनमञ्जाद्याः, ता अप्यभिनन्दिता मात्रा मदनसुन्दर्या च, ताभिरानन्दपूरिताभिः सर्वो वृत्तान्तः कथितः, नवानामपि तासां मदना-मदनसेना-मदनमंजूषा-मदनमंजरी-त्रैलोक्यसुन्दरी-शृङ्गारसुन्दरी-जयसुन्दरी-तिलकसुन्दरीणां पृथग् पृथग् वस्त्रालंकारपरिवारावासादयो दत्ताः, एकैकं नाटकमपि प्रदत्तमिति, नवविधिश्रीपरिकलितः चक्री इव सुखेन निर्गमयामास रात्रिम् , अथ प्रभाते मदनसुन्दरीज्येष्ठा सर्वत्र श्रेष्ठा मदना पृटा-कथय त्वजनक मालवाधिपं कया रीत्याऽऽनयामि?, तया प्रोक्तंस्वामिन् ! कण्ठस्थापितकुठारो मज नकः समानेतव्यः, तत्प्रियावाक्यं श्रुत्वा प्रेषितो दूतः, तन्मुखेन ख्यापितं-चेन्जीवितव्येच्छुस्तदा त्वरितमेव मदाज्ञा विधेया इतिवचो दूतेन तत्र गत्वा प्रोक्तं, श्रुत्वा कुपितो मालवाधिपस्तदा मन्त्री वक्ति-किमर्थ रुष्यते "द्योतति दीपः स्थानं भुवनोयोतं तु तरणिरिह कुरुते । तस्मादनुचितकरणं नो युक्तं साम्पतं नाथ ! ॥१॥ यद्वक्ति वचो दूतस्तदेव कार्य विचार्य तं समयं । लोकोक्तिरियं तस्माद्यस्यावसरः स सेव्यः स्यात् ।।२॥ महतामुपरि रुपा किं, भवेन्न दानिश्च कापि किं तेषाम् ?। उत्पतितो हरिमन्थो, भेत्तुं शक्नोति किं भ्राष्ट्रम् ॥ ३॥ धृलिस्तरणेरभिमुखमाक्षिप्ता लगति किं विशां नाथ !। दीप्तोऽपि हि वनवन्हिर्घनेन निर्वाप्यते सद्यः॥४॥ इत्यादि मन्त्रिशिक्षा श्रुत्वा स्वार्थभ्रंशो हि मूर्खत्वमितिन्यायमङ्गीकृत्य कुठारं कण्ठे कृत्वा शिविरोपकण्ठमागतः, तमागतं श्रुत्वा श्रीपालेनाकारितः सभामध्ये स्थापितः सिंहासने, पृष्टं स्वागतादिक, तदवसरे मदनाप्यागम्योक्तवती-भो तात! दृष्टोऽस्य | मकर्मप्रसादितवरस्य प्रतापतापः, तदुक्त्या विस्मितो मालबाधिपतिर्जामातरं प्रणम्य प्राह-नोपलक्षितस्त्वमगण्यपुण्यविभवो मत्पुत्रीधवः क्षम्यतामपराधः, चक्ति श्रीपा:-सर्वो नवपनभावो जातो जयजयारखो जातो, मिलितः स्ववर्गः आनन्दकन्दकन्दलितं राजसैन्य जातम् । अथ मङ्गहनाटकमारम्भगार्थ नृत्यपेटकमादिष्टं, तन्मध्ये प्रथम नृत्यपेटकं समुत्थितं, तन्मध्ये चैका सुशिक्षिता मूलनटी नोत्तिष्ठति, Jain Education international Page #68 -------------------------------------------------------------------------- ________________ मालवेशा- बहूक्त्याऽपि नात्साह धत्ते, सविपादा दोधक चकै भणति- दुहो--"किहां माल व किहां संखपुर, किहां बन्दर कि हां नट्ट सुरसुन्दरीनचाविई, श्रीपाळ गमः सुर- दैव दलेवि मरह ॥ १॥ तं श्रुत्वा जनन्यादयो विस्मिताः चिन्तयन्ति-अहो किमत्र सुरसुन्दरी?, सापि जननीकण्ठे विलम्य रादितुंलना, चरित्रमा पृष्टा साग्रह किमेतज्जातं ?, तदा स्ववृत्तान्तं प्रकाशितवती-मातर्यदा तातेन महा परिणायिता तदैव पत्या साई शङ्खपुर परिसरं प्राप्त सुमुहुर्तदिनकृते त्वज्जामाता बहिः स्थितः, सुभटपरिवारस्तु सर्वोऽपि गृहे गतः, तस्यामेव रजन्यां पुरबहिःस्थिताना पास्थितस्ताकलो कानां निर्भयमनसामस्माकमुपरि चैका धाटिरभ्यागता, सहसैव त्व जामाता मां मुक्ता नष्टो, धाटीभटैरहं गृहीता राजश्रिया साई, स्वपपाल्ल्यामानीता विक्रीता मूल्येन नेपालमण्डले गृहीता सार्थपतिना धनपतिना, तेनापि तद्वचनमकुर्वती अहं बब्बरकुले विक्रीता महाकालनगरे । हट्टे धृत्वा, एकया गीतनिपुणया गणिकया गृहीता, तयाऽहं शिक्षिता यथाऽहं निपुणा नटी ध्वजपटीव नृत्यपटीयसी जाता, ततो बर्ब|रकूलस्वामिना महाकालाभिधानेन नाटकप्रियेण नाटकपेटकसहिता गृहीता, तेनापि मदनसेनापुत्रीपाणिग्रहणसमये नानाविधनाटक नर्तयित्वा जामातुः प्रदत्ता, तत्पुरतः प्रतिदिनं इयन्ति दिनानि यावत् नृत्यं प्रकुर्वाणा सुखेन तिष्ठामि, परमद्य सर्वं जनकजनन्यादि स्ववर्ग दृष्टा दुःख मुल्लसितं, पूर्व मदनाविडम्बना दृष्वा स्वगौरवं कृतमखगों विहितस्तदुपरि म्याऽनेकनरपतिमणतचरणकमलस्य | श्रीपालस्य यद्दासभावं प्राप्ता तत् सर्व कम्मेनमविलसितमिति, धन्या चेयं मद्भगिनी आद्या शीलवतीनां फलितोऽस्या जिनधर्मसुरद्रुः मम तु मिथ्यात्वकनकद्रुमः फलितः, यथाऽमृतविषयोरेकमुत्पत्तिस्थानं प्रदीपधृमयोः पुंक्लीवयोर्हर्षशोकयोरिवाऽऽवयोरन्तरं, मदना तु स्वकुलद्योतकमणिदीपिका अहं तु कुलमलप्रकटननि शेव जाता, एतादृशं सुरसुन्दरीवचनं श्रुत्वा सम्यक्त्वसत्वशीलेHIN||३ बहादराः मिथ्याऽधैर्याऽशीलेषु मन्दादराः बहवो जना अभूवन , स्वकर्मप्रवृत्तिनिर्मितनाटकेन तया सभासु तथा प्रमोदो जनितो यथा Jain Educ a tional For Private Personel Use Only Talaw.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ नृत्येषु नोत्पद्यते । अथ श्रीपालेन वेगेनारिदमनमाकार्य प्रदत्ता सुरसुन्दरी पुनर्विवाहोत्सवः कारितः, अरिदमनोऽपि सम्यक्त्ववान् श्रीपालप्रसादात् राज्यऋद्धिसुखभाक् इहपरभवेऽपि सुखी जातः, येऽपि कुष्ठिनो मदनावचनतो नीरोगा जातास्तेऽपि समागत्य श्रीपालं प्रणमन्ति, राज्ञाऽपि ते सर्वे कृतप्रसादाराजन्याः कृताः, मतिसागरमन्त्री अपि समागतः पिहितसक्रियः कृतज्ञत्वेन सन्मानितश्च बहुमानदानेन स्थापितोऽमात्यपदे, श्वशुरशालकमातुलप्रमुखा नृपतयस्तद्भटाश्च सर्वेऽपि बहुमान प्रापिताः भक्तिसंयुता भालमिलितकरकमलास्सदाकालं श्रीपालं सेवन्ते, अर्थकदा मतिसागरेण विज्ञप्तो नरपाल:-देव! बाल्ये बालबुद्धिना येन पितुः पट्टे संस्थापितो भवान् उत्थापितः स शत्रुरेव ज्ञेयः स्वकीयोऽपि, तस्य शिक्षा दातव्या, सत्यपि सामर्थे पैतृकं राज्यं सपत्नहस्तगतं यत्नतो न गृह्णाति तस्य बर्क शरद्घनगार्जितवत् वाङ्मात्रसारं न पारमार्थिक, "किं तेन जातु जातेन, मातुर्योवनवैरिणा?। यो न जातः पितुः साम्ये, चाधिक्ये सदृशो गुणैः॥१॥ राज्यं राज्याधिकारं वा, प्राप्य येन कृतौ नहि । उपकारापकारी च, मित्रामित्रेषु तद्वथा ॥२॥ यथाऽऽ. लेख्यगताः सिंहा, मृगेन्द्रत्वं हि विभ्रति । अवीर्यास्तद्वदीशा हि, शमिनो दुष्टशत्रुषु ॥३॥" तस्मात् पुरन्दरबलस्पर्दिसकलर्दि| प्रापणे किं फलं यदि निजं राज्यं न वशीकृतं, ममापि सुखं तदैव भविष्यतीति मन्त्रिगदितं निशम्य प्राह राजा-सत्यं प्रोक्तं अहमपि तदेव जाने, तत्र सामदानभेददण्डाख्याश्चत्वार उपायाः सन्ति, शत्रुनिग्रहो यदि साम्ना जायते तदा दण्डो नारभ्यते, शर्करयापि पित्तोपशमो भवतीति विचार्य, "स्वामिभक्तो मनःपूतो, समयज्ञो जनप्रियः। सत्यभाषी हितो देशे, दूतो मुक्तो रिघुपति"॥१॥ | चतुर्मुखनामा प्राप्तश्चम्पायामजितसेनसभाया, प्रोक्तवानेवं-भो राजन् ! पूर्व भ्रातृनन्दनः श्रीपालो भूपपदे स्थापितोऽपि त्वया भूभारोद्वहनाऽसमर्थ तं विज्ञाय दूरीकृतः, स्वस्कन्धे चारोपितो भूभारः, अथागतः परनीति सकलकला शिक्षयित्वा कलाकुशलोऽनल्पवकोऽनेक. JainEducatiointed For Private Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ दूतप्रेषणं ॥ ३१ ॥ Jain Education राजन्यचक्रतिक्रमयुगलो लघु, त्वत्स्कन्धभारोत्तारणार्थमभ्येति स भूपाळः लोकेऽपि इयं रीतिजीर्णस्थम्भं दूरीकृत्य नवीनस्थम्भो गृह भारोद्वहनाय कल्पते, अन्यदपि तच्चरणकमलसेवनाय बहवो भूपभृङ्गाः समागताः सन्ति, त्वया तु स्वकीया अमात्यादयोप तमिलनार्थं न प्रेषिताः, दुर्जनैरपि किं कुळविरोधः क्रियते ? " राजन् ! पुनर्यः कुलजो विरोधः, स वैरिगेहे खलु कल्पवृक्षः । काष्ठावनद्धः कठिनः कुठारश्छिनत्ति वृक्षौघमिति प्रवृत्तिः ॥ १ ॥ " क्रियते चेद्विरोधस्तदा सदृशैः सह क्रियते, क्व प्रचण्डदोर्दण्डदण्डिताऽशेषदिक्चक्रवाल: श्रीपालः क्व त्वमभिमानशालाविर्दी गेहेनर्दी, अर्कखद्योतयोरिव सागरपल्वलयोरिव मेरुसर्षपयोः चन्द्रतारकयोः सिंहमृगयोः शर्कराकर्करयोर्मार्त्तिकसौवर्णकुम्भयोः सौवर्णस्थालशरावयोः कलमकजुकयोः कर्पूरभस्मनोः घृतपूरकदनयोरारामशून्य योन्ययान्याययोः राजरङ्कयोः व्यावच्छागयोर्दयाहिंसयोः सत्यासत्ययोः रत्नकाचयोरिव महदन्तरं स उच्चदृष्टान्तगतस्त्वं च नीच दृष्टान्तसदृशः, त्वत्सैन्यं सक्थुचूर्णामिव तत्सैन्यसागरे इत्याद्युच्चावचं वचो दूतकथितं निशम्य प्राहाजितसेनो रोषारुणगुञ्जार्धस्पार्द्धलोचनो-दूत ! मन्मुखेन गत्वा वाच्यं भवदीयस्वामिने यथा भोजनं तथा वाक्यमस्माकं चतुर्मुख ! " हितं मितं प्रियं स्निग्धं, पूर्व तु मधुरं शुभम् । मध्ये चाम्लं कटुक्षारं, तिक्तं चान्ते प्रशस्यते ॥ १ ॥ भोजनं वचनं चापि परिणामिशुभोदयम् । जीवितव्येन कार्यं चेत्तदा वृद्धः प्रणम्यताम् ॥ २ ॥ " वयं तदीया न, सोऽपि नास्मदीयः, सोऽस्माकं शत्रुर्वर्यं तस्य शत्रवः पूर्वं तु बालोऽयमिति कृपापरेण जीवन् | मुक्तस्ततो निर्बला इति ज्ञातं साम्प्रतं तु जीवग्राहं ग्रहीष्यामस्सुप्त सिंहोत्यापनं कृतं त्वत्स्वामि सैन्यसागरेऽस्मत्सैन्यं वडवानलप्रायं जानीहि, स्तोके बहुले का प्रतीतिः ? तेजो विलोक्यते, स्वत्पृष्ठत एव मदागमनं ज्ञायते इति शिक्षयित्वा विसर्जितो दूतस्त्वरितमेव तत्रागत्याऽजितसिोक्तं श्रीपाला प्रोक्तवान्, ततश्चलितः प्रस्थानढक्कां दापयित्वा चम्पापुरीतटिनीतटोच्च भूमिमदेशे स्कन्धावारं स्थापयामास, श्रीपाल चरित्रम् ॥ ३१ ॥ Ajatnelibrary.org Page #71 -------------------------------------------------------------------------- ________________ Jain Educatio अजितसेनोऽपि तत्रागत्य संमुखं स्थितः, शोधिता रणभूमिर्विधिना पूजिता शस्त्रशाला, भट्टैरुच्चैःस्वरेण प्रशस्यते पूर्वजावली, सुभटानां | क्रियन्ते मण्डनानि चारुचन्दनरसेन, बाहुजवाहुषु पूर्यन्ते प्रवर चम्पककुसुमैः शेखरा बध्यन्ते वीरवलयानि दक्षिणकरेषु, बध्यन्ते घण्टिकारणेषु गजगजितानि कुर्वन्तः सिंहनादं मुञ्चन्तो नृत्यन्त उच्छलन्तो व्योम्नि, कापि वीरमाता भणति यथा त्वज्जनको न लज्जते | तथा योद्धव्यं, अन्या भणति पुत्र ! वीरमातेति मन्नामावितथं विधेयं, कापि स्त्री भणति मन्मोहो न विधेयो, यतोऽहं जीवतो मृतस्य तवैव पृष्ठगामिनी, अस्ति अधरामृतरसस्तव सुलभ एव, कापि हसति मत्कटाक्षेनापि भयभ्रान्तो भवसि तत्र कथं सहिष्यसे मल्ल महारं ?, शरासारं वर्षयन्ति केsपि योधघनाः, रणभूमिवर्षासु धवलपताकिका बकायन्ते, हस्तिगर्जा गर्जागर्जारवायन्ते, कुंतांशको विद्युत्प्रभायन्ते, किं बहुतया ?, “कुन्तलकलितं खड्गच्छिन्नं शीर्ष रिपोर्वियति गच्छत् । तरणेरपि राहुभ्रममासूत्रयति प्रबलयुद्धे ॥ १ ॥ यन्निस्त्रिंशच्छेदित करिकुम्भगलत्सदच्छमुक्तानाम् । भक्ष्यं ब्रह्मविहङ्गाननेषु कुर्व्वन्ति केऽपि भटाः ॥ २ ॥ कृत्वा कबन्धहारं, रणरसिकाः केsपि नर्त्तयंति युधि । करवाला : करतालायन्ते प्रत्यर्थिमुकुटेषु || ३ || प्रबलबलोत्थितधूलीपटलैराक्रामिता हि सुरतटिनी । धत्ते पल्वलभाव स्थलकमलायन्ति रुण्डानि ॥ ४ ॥ रणतूर्यनिनदवातक्षुभितोमिचयोदधौ मुरारातेः । सुप्तस्य शयनभङ्ग कुर्व्वन्ति भडा मृगेन्द्रवैः ॥ ५ ॥ केऽपि धनुष्टङ्कारै, रथ्यान् संत्रासयन्ति तिग्मरुचेः । मन्ये तदोदितस्याऽनश्चक्रं भग्नमपथगमात् ॥ ६ ॥ चिटकच्छेद्यमिव च्छिद्यन्ते हयगजोत्तमाङ्गानि । भज्यन्ते तत्र रथाः, पर्पटभङ्गं महायोधैः ॥ ७ ॥ मृतहयग जतनुपिण्डैः, छुरिकासि दुघणकुन्तरुण्डैश्च । गिरिभूमिरिव स्थपुटा, जाता रणभूमिरप्रसरा ॥ ८ ॥ मद्यरसपानसज्जैर्बन्दिजनैः प्रेरिता भटा विविशुः । रणभूमिं परसमये, ऽनवद्यविद्या यथा प्राज्ञाः ॥ ९ ॥ संस्नपिता रणभूमिर्बलरुधिरजलेन घोररूपेण । वीरयशस्तरूपवने, करिमुक्तास्तत्र ainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ अजितसेन पराजयः श्रीपाल चरित्रम्. ॥३२॥ बीजन्ति ॥ १०॥ कुन्ताकुन्ति शराशरि, मुष्टामुष्टि प्रवर्तितं युद्धम् । दण्डादण्डि च खड्गाखड्गि प्रासादीभः शस्त्रैः ॥ ११ ॥ अन्योऽन्यशस्वभङ्ग, क्षरत्स्फुलिङ्गनभश्च तारकितम् । रात्रीयति दिवसोऽपि, ध्वजिनीरजस्तिमिरपूरेण ॥१२॥” इति, श्रीपालसैन्पेन स्वसैन्य || दैन्यभावं प्राप्तं दृष्ट्वा उत्थितोऽजितसेनो यथार्थ स्वं नाम कुर्वनिव, तावता मदनाविहितसजरूपोद्भटैः सप्तशतभटैः सहसाऽऽगत्य हग्बन्धं विधाय मोक्तं-भो राजन् ! मुश्च मानमद्यापि किंगतं ? प्रणमैनं श्रीपालं वाञ्छितार्थकल्पशालं, न करोति तद्वचः, मानिनो हि तृणवत्पाणांस्त्यजन्ति परं मानं न मुञ्चन्तीति चिन्तयित्वा युद्धाय सज्जीभूतस्तदैव बद्धो जीवन् तै टैरानीतः श्रीपालपाचे, मोचितश्च तेनोचितकर्ता, तात! खेदं मा कुरु, सर्वोऽयं नवपदप्रभावः, सिंहासने स्थापयित्वा पुरो भूत्वा प्रणामपूर्व प्राह-सर्व त्वदायत्तं त्वदधीना वयं अनुभव राज्यविलासं इत्यादि, प्रणयपूर्वकं तद्वचः श्रुत्वा चिन्तयत्यजितसेनः-यदविमृश्य कृतं हासाय भवति, दूतोक्तं न कृतं तदा बन्धनं प्राप्तः, " अजाननात्मशक्तिं यः, कुरुते परकोपनम् । दह्यते शलभन्यायं, वह्नावलाय तप्तिमान् ॥१॥ क्वायमाजन्मतश्चोपकर्ता हर्ता पराऽऽपदाम् । क्वाहमोतुवदाजन्म, द्रोहकृत् परतापनः ॥२॥ न गोत्रद्रोहिणां कीर्तिने राजद्रोहिणां नयः । गतिर्न बालहन्तृणां, मम तु त्रितयं न हि ॥३॥ न निमित्तद्विषां क्षेमो, नायुर्वैद्यकविद्विषाम् । न श्रीर्नीतिद्विषां धर्मद्विषां तु त्रितयं न हि ॥४॥न कोऽपि कुरुते पापं, यत् कृतं तन्मयाऽऽधिया । स्थानं नान्यद्विना श्वभ्रं, तैरश्चं वाऽधमस्य मे ॥ ५॥" इति निर्णीय तदघोद्भवदुःखवल्लीदहनकल्पा शिवसौख्यदुमकन्दपल्लवनपर्जन्यका सिद्धिवनिताकर्षणमन्त्रशक्तिजल्पां भवनिष्कर्षणोच्चाटनविद्या कषायगिरिभेदनपविज्वाला नोकषायवनवन्हिमेघमालां दीक्षा कक्षीचकाराजितसेनो देवतादत्तवेषो मुक्तपद्वेषस्तदैव जातिस्मरणवान् जातः, तं दृष्ट्वा हर्षोत्कर्षपुलकितनम्रभालः श्रीपालः स्तौति-“धन्यस्त्वं कृतपुण्यस्त्वं, क्षीणीभूतभव ॥३२॥ Jain Educationala For Private Personel Use Only Villainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ स्थितिः। ध्वस्तमोहमहोन्मादप्रमादो भावपोषकृत् ॥१॥क्षान्तो दान्तो निरारम्भो, दम्भोऽस्तम्भो भवान्तकृत् । युक्तः समितिभिर्गुप्तो, गुप्तिभिस्तिसृभिस्सदा ॥२॥ त्वया निलोभतानावा तीर्णो लोभमहाम्बुधिः । तत्तत्तृष्णाविकल्पौधनलकल्लोलसश्चयः॥३॥ मादेवाशनिना चूर्णीकृतो मानमहीधरः । समताभोदधाराभिः, शमितः क्रोधपावकः॥ ४ ॥ मायामहोरगी विश्वविश्वदशनतत्परा । कीलिताऽऽर्जवकीलेन, लीलया सद्गुण ! त्वया ॥५॥ प्रसर्पदपकन्दर्पपावके विलयं गताः। देवा हरादयः सोऽपि, मारो निर्वापितस्त्वया |॥ ६॥ दुष्टो मत्तो मनोवाजी, जवनः पवनादपि । नित्यमुत्पथगाम्येष, यन्त्रितो ज्ञानवल्गया ॥ ७ ॥ मारमाराद्रतिप्रीती, त्वत्तो नष्टे तथाऽऽहवे। जगत्यामपि ते मूर्तिमत्यौ न भवतः कदा॥८॥रागद्वेषौ महामल्लौ, निर्जितौ जितसंयता । परीषहमहासैन्यं, भन भाववता त्वया ।। ९॥द्रव्यात्मा भावात्मा, पुद्गलराशिविभागतो नूनं । पार्थक्ये न प्रकटं, लक्षणतः संश्रितौ भवता ॥ १० ॥ समतानलिकायोगप्रयोगतः सक्रियाशतघ्न्या च । मिथ्यात्वभूमिनाथस्तथा त्वया च्छेदितः शतशः ॥ ११॥ योगी भोगी सदा त्यागी, महाभाग ! विरागवान्। निर्विकारी सदाचारी, पक्षकारी सतां भवान् ॥ १२ ॥ अप्रमत्तः प्रमत्तो न, गुणस्थानग एककः । ज्ञायको नायकश्चासि, मुक्तिमार्गस्य शङ्करः ॥१३॥ अलक्ष्यो लक्ष्यचारी च, मुद्रालंकृतविग्रहः । औदासीन्यालये लीलाविलासं कुरुतेऽनिशम् ॥ १४ ॥ शुद्धप्रकाशी संन्यासी, आत्मदर्शी सुसंवरी । जेता दुर्जयदुर्द्धर्षामरं प्रत्यर्थिभूभुजाम् ॥१५॥ पूज्योऽसि त्वं तथा तातभ्राता प्रथममेव मे । साम्पतं तु जगत्पूज्यः, संयोज्य ज्ञानदर्शने ॥ १६॥ सच्चारित्रपवित्राङ्गो, गागपूरवदाशयः। प्रसीद प्रणतोऽस्मि त्वचरणे हल्लेखभाजनम् ॥१७॥" इत्यादिभक्तिवचःपूर्वमजितसेनमुनि स्तुत्वा तत्पदे तत्सुतं स्थापयित्वा सुमुहूर्ने समहोत्सव चम्पा प्रविवेश शक्र इवाऽमरपुरी, तत्र सकलनरवर?ष्टमानसैः पट्टे संस्थाप्य पुना राज्याभिषेकः कृतः, मूळपट्टाभिषेके मदनादेवी Jain Educat i on For Private & Personel Use Only G ainelibrary.org Ital Page #74 -------------------------------------------------------------------------- ________________ श्रीपालरान्यास्थितिः श्रीपाल चरित्रम् ॥३३॥ | ततो लघुपट्टाभिषेके मदनसुन्द(मंज)र्यादयोऽष्टौ स्थापिताः, एको मतिसागरो मंत्री त्रयोऽन्ये धवलश्रेष्ठिनो मित्रनराश्च मन्त्रिपदे स्थापिताः, कोसम्बीपुरात विमलनामानं धवलपुत्रमाकार्य श्रेष्ठिपदे स्थापितः, चैत्यगृहेऽष्टाह्निकामहं कारयामास, श्रीसिद्धचक्रपूजां स्थाने स्थाने तुङ्गिमतजितसुमेरुशिखरनिकरवादा झणत्किङ्किणीनिनादा जैनप्रासादाः कारापिताः, दापिता अमारिपटहा, उत्तम्भिताः सम्यक्त्वध्वजपटा, विस्तारितास्सदाचाराः, न्यायमार्गेण राज्यं पालयन् राज्ये सप्ताङ्गं धारयन् अरिनिग्रहे षाड्गुण्यं पञ्चकं बलस्थितौ चतुष्टयमुच्चफलाहे त्रिकं स्वशक्तौ द्विकं नये इत्यादिप्रकारेणैकच्छत्रं राज्यं प्रशास्ति, किंबहुना ?-"स्थापिता ये मनोगुप्तौ, सद्भिः कर्णादया नृपाः । मोचितास्ते तदाधिक्ये, तस्मिन् शास्तरि तत्स्मृतेः ॥१॥ श्रीश्रीपालनृपप्रतापतपनत्रासादिवाष्टस्रवा, नो पद्म विजहाति वासमुदधौ गोवर्द्धनोद्धारकः । नो गङ्गां त्यजति स्वमूर्धि सततं गङ्गाधरोऽपि स्फुट, जाने शैत्यविधित्सया जलचरास्तिष्ठन्ति पङ्के परम् ॥ २॥ श्रीपालभूमीपतिकीर्तिगङ्गाप्रवाहशुभ्रीकृतविश्वविश्वे । शैवालविद्वेषियशोऽरविन्दे, भृङ्गो यथाङ्गार इवास्ति चन्द्रे ॥३॥ यद्वीरतातर्जितरत्नसानुरदृश्यभावं भजते तदादि । गम्भीरताभत्सितरत्नराशिश्चलत्वमद्यापि जहाति नैव ॥ ४॥ यद्दानदासीकतदेववृक्षाः, स्थाने तपस्यन्ति सुगुप्त एव । तपःप्रभावात् किमु तस्य शस्यहस्ताङ्गुलीनामवतारमाप्ताः ? ॥ ५॥ नभो मिमीताङ्गुलिना | सुमेरुं, योऽप्युवक्षिपेद्वा गणयेदुडूनि । तरेगुजाभ्यामुदाधं न सोऽपि, क्षमो नु भूपालगुणान् प्रवक्तुम् ॥ ६॥" एतादृशस्य तस्य यान्ति दिवसाः, अत्रान्तरे समुत्पन्नाऽवधिज्ञानो लब्धजगतीमानो विहारं कुर्वन् अजितसेनराजर्षिः समायातः व पितो वनपालकेन, दत्तं पारितोषिकं, सर्वर्या सपरिवारः वन्दनाय गतस्तच्चरणकमलं शीर्षशेखरीकृत्य स्थितो यथोचितस्थाने, पारब्धा देशना यथा-" भीमे भवा|म्बुधौ द्वीपसंनिभा मानवी गतिः । दुर्लभा चुल्लकाऽक्षादिदृष्टान्तदशकेन या ॥१॥ तत्रापि दुर्लभा वर्यार्यक्षेत्राप्तिरनार्यतः । पश्चान्द्रयत्वं पन्नाऽवधिज्ञानो लब्धज शे खरीकृत्य स्थितो यथाचित ॥३३॥ क्षेत्राप्तिरनार्यतः । पञ्चान्द्रयत्व Jain Education For Private Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ सर्वाक्षपाटवं दुष्करं तथा ॥ २॥ कौलीन्यं दीर्घमायुष्कमारोग्यं सुभगत्वकम् । श्रावकत्वं गुरोर्योगः, सामग्री दुर्लभा त्वियम् ॥३॥ मिलितेऽपि तथा योगे, क्रियते विफलोद्यमः । रागद्वेषप्रमादार्तध्याननिद्रालसादिभिः ॥४॥ मिथ्यात्वाविरतिव्याजाऽश्रद्दधानामतरारिभिः । अतथ्यविकथाभिश्च, स्ववादकुमतग्रहः ॥ ५॥ तत्वे श्रुतेऽपि सच्छ्रद्धा, दुर्लभा पारमार्थिकी। गुरुशिष्ययोर्यथायोग, सदालस्यवियुक्तयोः ॥६॥ प्राप्ताप्राप्तविचारेण, यथा विमो द्विपाहतः । तथा स्वमतवादेन, तत्त्वं नामोति मानवः ॥ ७॥ सदास्थाभित्तिके ध्यानलिप्ते चागमपट्टके । तत्वरत्नं निधीयेत, बुध्धैहृदयवेश्मनि ॥ ८ ॥ संवेदनश्चान्यरूपः, स्पर्शनस्तत्वबोधकः। संवेदनस्य वैफल्यं, कदाचिदीप जायते ।। ९ ॥ फलप्राप्तिं समाप्नोति, स्पर्शनस्तत्वबोधकः । तत्वबोधेऽपि सञ्जाते, न स्यात्संवेदनं स्फुटम् ॥ १० ॥ तत्तत्वं दशधा प्रोक्तं, क्षान्त्यादिज्ञानसाधनम् । तत्सर्व विनयायत्तं, गुणा हि विनयादिमाः ॥११ ।। विनयो मार्दवे स्यान्माईवोऽप्याजवोद्भवः। सत्यां निर्लोभतायां स्यात्सा मुक्तिर्गदिता बुधैः ॥१२॥ द्रव्योपकरणाङ्गोषु, भक्तपानेष्वलोभता । भावतोऽपि स्थिरत्वं स्यात् , भावमुक्तिर्मता जिनैः ॥ १२॥ पञ्चाश्रवेन्द्रियक्रोधदण्डादीनां जये भवेत् । सत्यं प्रोक्तं चतुर्दा तत् , मनोवाक्तनुभेदतः ॥ १३ ॥ अविसंवादनयोगाच्च, भयाईकारनाशतः । ततो भवेत्तपः सत्यं, बाह्याभ्यन्तरभेदतः ॥ १४ ॥ एकैकं षड्विधं प्रोक्तं, द्वादशं सर्वदर्शिभिः । कर्मणां तापनादात्महेमशुद्धेस्तपः स्मृतम् ॥१५॥ यदुक्तं-अनशनमूनोदरता, वृत्तेः सङ्केपणं रसत्यागः। कायक्लेशः सँल्लीनतति बाचं तपः प्रोक्तम् ॥ १६ ॥ प्रायश्चित्तं ध्यानं वैयावृत्यविनयावथोत्सर्गः । स्वाध्यायं च तपः षट्पकारमाभ्यन्तरं भवति ॥ १७॥ तदपि द्विविधं प्रोक्तं, प्रतिवृत्ति तथा निवृत्तिभेदेन । तत्संयमेन शुद्धं, स ज्ञेयः सप्तदशभेदः ॥१८॥ पञ्चाश्रवानां विरतिर्जयश्च, पञ्चेन्द्रियाणां च तथा चतुर्णा । क्रोधादिकानां च पुनस्त्रयाणां, दण्डादिमानां विरतिश्चरित्रं ॥ १९ ॥ in Ede For Private Personal Use Only ONainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ अजितसेन कृतादेशना ॥३४॥ शुद्धशीलाद्भवेदष्टादशभेदेन वजनात् । मैथुनस्य तथा दिव्यौदारिकासेवितस्य सः ॥ २० ॥ मनोवाकाययोगेन, कृतानुमतिकारिणा। श्रीपाल विधात्रिधेन नवकद्वयेनाष्टादशं भवेत् ॥ २१ ॥ आकिश्चन्याद्भवेद् ब्रह्म, धर्मोऽपि ह्यपरिग्रहात् । द्रव्यभावविभेदात्तु, द्विधा प्रोक्तो चरित्रम् मनीषिभिः ॥ २२ ॥ द्रव्य परिग्रहत्यागे, न भवेद्धर्मशीलता । कंचुकापहृते गो, निर्विषस्तद्वदत्र न ॥ २३ ॥ मुछेव मुलं लोभस्य, सा परिग्रहकारणम् । आकिश्चन्यात् परो धम्मों, नोक्तः सद्ज्ञानवेदिभिः ॥२४॥ पञ्चधा क्षान्तिरप्युक्ता, तिस्रो लौकिकसौख्यदाः। धामिक्यौ द्वे सदा ध्येये, क्रियानुष्ठानवर्तिभिः॥२५॥ अनुष्ठानं चतुर्दा स्यात्प्रीतिभक्त्युक्त्यऽसंगकैः। वल्लभस्त्रीजनादीनां, तथा प्रीतिक्रिया मता ॥ २६ ॥ सामायिकप्रतिक्रान्तिपौषधायेषु कर्मसु । भिन्नभिन्नस्तु यो रागो, भक्त्यनुष्ठानमेव हि ॥ २७ ॥ यदागमानुसार्येतद्वाक्यानुष्ठानमुच्यते । निसर्गाचौघवृत्त्या यत्, तदसङ्गक्रिया मता ॥ २८ ॥ दण्डेन भ्रामितं चक्रं, भ्राम्यति प्रतिघाततः। तदभावेऽपि तच्चक्रं, बम्भ्रमीति तथैव तत् ॥ २९॥ तच्चानुष्ठानानां, चतुष्टयं भवति लौकिकक्षान्तेः। धार्मिमक्याः पञ्चतयं, भवत्यनुष्ठा| नमप्यत्र ।। ३० ॥ विषगरमननुष्ठानं, तहेतुकममृतमेव विज्ञेयम् । पूर्वत्रिकं तु हेयं, द्विकमग्रस्थं सदा ध्येयम् ॥ ३१॥ वस्त्रानपान| मानोपधिधनविषयामिलापतो नित्यम् । यत्क्रियते विषमेतत्, त्याज्यमिहानर्थकृत् फलदं ॥३२॥ यत्परभवे महेन्द्रप्रभूताशंसावशान्निदानतया । क्रियते यत्तु गरं तत् , कालान्तरविषफलं दद्यात् ॥ ३३ ॥ मारयति यथालर्क, विषं जनाना कियत्प्रमाणेन । रागद्वेषोद्योगप्रयोगतो वितथमेतच ॥ ३४ ॥ अज्ञानादविवेकादभिमानेयादिकामहठयोगात् । विकलेन्द्रियवल्लौकिकमननुष्ठानं बुधैस्त्याज्यम् ॥ ३५॥ यद्विधिमपेक्ष्य शुद्ध, भाववशादविधिमार्गसंत्यागात् । तद्धेतुकमाख्यातं, विवेकहल्लेखभक्तिमताम् ॥ ३६॥ करणं IN॥३४॥ प्रीत्या दानं, जिज्ञासा ज्ञानिनां परिचयश्च । शुद्धागमशुश्रूषा, धर्माविघ्नत्वकाङ्क्षा च ॥ ३७ ॥ गुरुभक्तिर्वात्सल्यं, तीर्थस्यावित in Education Med For Private & Personel Use Only Toinelibrary.org Page #77 -------------------------------------------------------------------------- ________________ Jain Educatio थभाषणे संघा । लिङ्गान्यमूनेि शुद्धक्रियाक्रियायां निगदितानि || ३८ || मार्गानुयायितत्त्वज्ञानेन विभूषितं भवान्तकरं । अपुनर्वन्धकताया, हेतुमनुष्ठानममृताख्यम् ॥ ३९ ॥ ज्ञेयं तदर्द्धपुद्गल परिवर्त्तान्ते भवापनोदाय । तद्धेतु लब्धबोधौ, त्रिकमन्यत् संतो | बहुशः ॥ ४० ॥ तत्पदन वकध्यानाल्लयो भवेदात्मरूपसम्पन्नः । येनात्मायं दृष्टो, भवकूपो मुद्रितस्तेन ॥ ४१ ॥ भवकोटिसश्चितं यत्, दुष्कृतमर्द्धक्षणेन तद्याति । ज्ञानामृतयुततपसो, दहेदिवैधांसि वायुशिखी ॥ ४२ ॥ सांसारिकसुखमेतद्, जानाति ज्ञानवानसारतया । पुद्रकलीलाललितं, संयोगवियोगनृत्यकरम् ॥ ४३ ॥ ज्ञातो भिन्नत्वेन, पुगळतो भवनिबन्धताहीनः । ध्याननिरावरणतया, ध्याता परमात्मबुद्धया च ॥ ४४ ॥ सिद्धो भवति भवान्तः स्थितोऽपि मुक्तात्मनः समानोऽयं । तस्मादनुभवजन्यं, कार्य विबुधैरनुष्ठानं ॥ ४५ ॥ धर्मः कल्पद्रुमाभोऽयं धर्म्मश्चिन्तामणिप्रभः । निर्मलः केवलालीक कारणं भानुवद्भुवि ॥ ४६ ॥ जम्बूद्वीपोपमो धर्मः, सप्तक्षेत्रपवित्रितः । समुद्रालङ्कृतो भाति, प्रणीतः सर्वदर्शिभिः ॥ ४७ ॥ सुवर्णो विबुधैः सेव्यस्पदोन्नतिविराजितः । क्षमाघरो भद्रशाली, मेरूपोऽस्ति च ॥ ४८ ॥ गुणवृक्षान्वितो भूरिरत्नपूरितमध्यगः । सत्कर्णधारः पाथोधितारको धर्मपोतकः ॥ ४९ ॥ " इति | देशनां श्रुत्वा प्रतिबुद्धा भव्यभव्यजनाः, श्रीपालोऽपि हर्षप्रकर्षरोमाञ्चितदेहो गुरुं नत्वा स्वसंशयं पप्रच्छ-स्वामिन्! केन कर्मणा वाल्ये कुष्ठविनष्टदेहो जातः, पुनर्जलधौ मनः, डूम्बकुटम्बसम्बन्धोऽनुभूतः पुनः स्थाने स्थाने ऋद्धिसिद्धिबाहुल्यं प्राप्तस्तत्सर्वं कृपां कृत्वा प्रसादय, तत् श्रुत्वा दशनचन्द्रदीधितिधौतसामाजिकरजः पटलो विमलज्ञानावलोकिताऽतीतानागतवर्त्तमानसमयोऽजित सेनः प्राह- महाभाग ! जीवानां सुखदुःखवैचित्र्यं कर्मणा निर्मितं भवति, अतः पूर्वकर्म्मवशतः सर्वं सम्पद्यते, यतः - " कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १ ॥” इतिकारणान्निशम्यतां पूर्वभवः । अत्रैव भरतक्षेत्रे ational lainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ श्रीपालदेः चरित्रम रश्वशरणं, तुरगासव्य सनदूषितो बहुजीवान् विराज्ञी जिनधर्मरता शुद्धसम्यान नानरापराधास्तृणाशिनः पाचारण लज्जते गृहिणी धरणी नीतिरनीतिपरवशा? हिरण्यपुरं नाम नगरं, तत्र श्रीकान्तो नाम राजा, तस्य श्रीमतीनाम्नी राज्ञी जिनधर्मरता शुद्धसम्यक्त्वशीलगुणकलिता, परं कोकिला श्रीपाल काकगृहे सा, राजा आखेटकव्यसनदूषितो बहुजीवान् हिनस्ति प्रत्यहं, सा शिक्षयति-न युज्यते तवैतादृशं पापकर्मकरणं नरकतैरश्वशरणं, तुरगारूढेन भीषणशस्त्रकरण नश्यन्तः पाणिनो हन्यन्ते स किं क्षत्रियकुलाचारः, अनेनाचारेण लज्जते गृहिणी धरणी च, कृताऽपराधाऽपि मुखे तृणक्षेपे शत्रवो न मार्यन्ते किं पुनर्निरापराधास्तृणाशिनः पशवः निरायुधाः शशकादयश्च नीराहारास्तापसा. इव मीनादयः, केयं नीतिरनीतिपरवशा? तव राज्यादिकं यास्यति क्षयं आत्नापि नरके, यदुक्तं-"हंतूण परप्पाणे, अप्पाणं जे कुणंति | सप्पाणं । अप्पाणं दिवसाणं, कए य नासेइ अप्पाणं ॥ १॥" इत्याद्यागमवचनरुपदेशितोऽपि न मुश्चत्याखेटकसङ्करं, अथान्यदा सप्तशतोलंठपुरुषैर्वेष्टितः प्राप्तश्चैक बनगहनं, तत्र दृष्टश्चैको धर्मध्वजसंयुतो मृर्तिमान संयमधर्म इव मुनिः कुष्ठरोगग्रस्तोऽविहस्तमानस:, तं दृष्ट्वा वक्ति राजा-एष चामरकरः कोऽपि दृश्यतेऽतः कुष्ठत्वादयमुपेक्ष्यः, अस्य हस्ताचामरं ग्रहीतव्यमित्यादिष्टास्ते उल्लण्ठनरास्तैरपि उपसर्गितो मुनिर्लेष्टुयष्टिकाद्युपकरणैस्तथा मुनेः शान्तरसः राज्ञो हास्यरसः स्पर्द्धयेवावर्द्धयेत् , अथ ते कृतसाधूपसा निर्भाग्या | नपतिपृष्ठलग्नाः प्राप्ता निजपुरं, तथैकदा पुनरपि राजा मृगयागतो निजसैन्यं मुक्त्वा एकाक्येव हरिणपृष्ठे प्रधावितो, हरिणस्तु नदीतटनिष्कुटं प्रविष्टस्तं विलोकयति यावत् तावत् नापकण्ठस्थितः साधुदृष्टः, तं दृष्ट्वा समुत्पन्नहास्यद्वषोपमईस्तं निमजापयति स्म N नदीजले, क्षणान्तरे सञ्जातकृपो नृपो निरकाशयत् आत्मानं निन्दमानस्तस्थौ जीवानामतिविषमं भावपरावर्त्त को जानातीति न्यायात्, सन्ध्यायां गृहमागत्य निवेदितवान् स्ववृत्तान्तं राज्ञीपुरस्तात्, तच्छ्रुत्वाऽवक्राज्ञी-"धिक् ते पौरुषमार्यदुःखकरणं दुःस्वामिना IN||३५॥ स्वामिना, विश्वं यातु रसातलं तव मुखं दृष्टं शुभायैव नो । हिंसा श्वभ्रनिबन्धिनी तनुमतां साधोश्च किं कथ्यते, माघूर्णीकृत एव ना. Jain Educatio n al Thinelibrary.org Page #79 -------------------------------------------------------------------------- ________________ Jain Education रकगतावात्मा त्वया भूरिशः ॥ १ ॥ अमरत्वपदोदारं सारं विषं पयो भवेत् । अमर्षवश सञ्जातहिंसा कालुष्यदूषितम् ॥ २ ॥ चारित्र चित्ररचनां, स्वात्मभित्ति निवेशिताम् । क्रोध कूर्चिकयोन्मिश्रं हिंसा दूष्यति कज्जलम् ॥ ३ ॥ दयैव परमो धर्मो, दुदैव परमा क्रिया । दयैव परमं तत्वं तद्भजन्तां दयामिमाम् ॥ ४ ॥ वृथा दानं वृथा ज्ञानं, मुधा निग्रन्धतापि हि । अनार्या योगचर्षापि, न चेज्जीवदया भवेत् ॥ ५ ॥ यदुक्तमागमे - “ चेइयदव्वविणासे, रिसिवाए पवयणस्स उड्डाहे । संजइचउत्थभङ्ग, मूलग्गी बोहिलाभ ॥ १ ॥ मुणिमारणेण जीवा णंत संसारपरिभ्रमण सीका । बोहिफलं दुलहं चिय, होइ दुई तह अकीत्तीय ॥ २ ॥” तत्पत्नीवचः श्रुत्वा किञ्चिदुल्लसितधर्म्मपरिणामो नृपः प्रोचे न करिष्याम्यहमीदृशं पापकर्म कदापि, इत्युक्त्वा निर्गमयति स्म कियत्कालं, पुनरेकदा कियद्दिनानन्तरं गवाक्षस्थितेन दृष्टः कोऽपि मुनिः गोचर्य्या हिण्डमानो मळम्लानतनुः परिहितजुगुप्सनीयवनः पवित्रोऽन्तरात्मतः, पुनरुत्पन्नामर्षो वक्ति कंठपुरुषान्- निष्कासयतेनं नगरात् मलिनमन्त्यजरूपं भ्रमन्तं रथ्यायां, तैः कण्ठे धृत्वा द्रुतं निष्कास्यमानो राज्ञ्या दृष्टः, ततः कुपिता राज्ञी तान निर्भर्त्स्य राजानं भणितवती "राजन् ! मुनिवधो घोरो, मुनिनिन्दापि दुस्तरा । उपेक्षापि मुनीनां च महदुष्कृतहेतवे ॥१॥" किं नरकातिथिर्भवसि ?, तच्छ्रुत्वा लज्जितो भणति क्षमस्वापराधं, राज्ञा पुनर्मुनिमाकार्य | निजावासे पादयोर्लग्नः नमितः क्षामितः पूजितश्च तदा श्रीमत्या पृष्टं भगवन् ! अनेनाऽज्ञानपरवशेन साधुर्विराधितः, महापापं विहितं, तत्पापपातनार्थं किमप्युपायं कथय, मसीदास्मानुपरि, येन पापात् वियोज्यते, तदा मुनिः प्रोवाच भद्रे ! दुष्कृतमनेन महद्विहितं गुणिन्युपघाते सर्वगुणोपघातो भवेत्, यथा- " कारणं देवधर्माणां, तत्वे भवति सद्गुरुः । स गुरुर्निन्दितो येन, त्रयस्तेनावधूनिताः ॥ १॥ देवदर्शनधर्म्मणां यः कुर्यान्निंदनं नृपः । स चाण्डालभवान् लब्धा, ध्रुवं स्यान्नरकातिथिः ॥२॥ न बोधिवीजं नो मुक्ति-र्न स्वर्गाः सत्कुलं न हि । ainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ श्रीपालदेः पूर्वभवाः ॥ ३६ ॥ Jain Education शुल्कद्रव्यस्य नोट धिर्देवनिन्दापरस्य तु ॥ ३२॥ मूकत्वं काहलत्वं च, लूता कुष्ठादिदोषजाः । मुखरोगाः सप्तषष्टिर्जायंते जिननिन्दनात् ॥ ४ ॥ अयशोऽकालमरणं, दुःक्वं वक्रविगन्धता । लूतातंतुमुखा दोपा, भवन्ति गुरुनिन्दया ॥ ५ ॥ संसारी नरके तिर्यग्भवे स्यात् स पुनः पुनः । धर्माणां निन्दको नैव, लभते मानुषं भवम् ॥ ६ ॥ त्रयाणामपि यस्तेषां निन्दको घोरपातकी । तस्य संसर्गमात्रेण, महिनाः स्युः परेऽपि हि ॥ ७ ॥ " परं कृतदुष्कृतानामपि पूर्वमनायुषो बन्धे पश्चानुतापपरो यदि भावोल्लासो भवति तदा कृतकर्मक्षयो भवति, एकान्तेन निषेद्धुं न शक्यते । तदा तत्पापघातनार्थे अर्हदादिपदनव कमस्थितसिद्धचक्राराधनमुपदिष्टं, यदि त्रिकरणशुद्धया विधिनाऽस्याराधनां करिष्यसि तदा सकलपापनाशो भविष्यति, तं निश्चयं दर्शयित्वा पूजाविधिं तपोविधिमुद्यापनविधिं च शिक्षयित्वा गतः स्वस्थानं साधुः, राजापि सपत्नीकः सिद्धचक्रमाराधयामास, तपसि पूर्णे उद्यापनं कृतं तत्तपोऽनुमोदनादिकं अष्टाभिः श्रीमती - खीभिः कृतं, सप्तशतसेवकैरपि धर्मे प्रवणं स्वनरपतिं वीक्ष्य कदा कदा प्रशंसितं, अन्येद्युस्ते पुरुषा राज्ञा आदिष्टाः पल्लोपतिसिंहनृपस्य ग्रामभञ्जनाय तं भङ्क्त्वा गोधनादिकं गृहीत्वा पश्चादायान्ति स्म तावता पृष्ठसमागतसिंहनृपबहुलसैन्येन ते सप्तशता अपि राजभृत्याः परासुतां प्रापिताः, तेऽपि क्षत्रियपुत्रा जातास्तरुणभावं प्राप्ताः क्रमेण साधूपसर्गपापप्रसादात् कुष्ठिनो जाताः, यः श्रीकान्तो राजा मान् मृत्वा त्वं जातः, श्रीमतीजीवस्तु एषा मनिततत्वा मदना जाता, यत् पूर्वस्मिन्नपि भवे धर्म्मक कलालसाऽभूत् सा इदानीमपि त्वम्मूपट्टेऽभिषिक्ता पट्टराज्ञी जाता, पूर्व्ववत् त्वं धम्र्मे योजितश्वानया, यत्त्वया मुनीनामाशातना जलमज्जनडुम्बात्यजकलमदान पूर्विका कृता तत्फलं सर्वं त्वया लब्धं, श्रीमतीवचनेन सिद्धचक्रस्याराधनं कृतं तत्प्रसादादिमाः सर्वर्द्धयः प्राप्ताः, याभिः श्रीमती सखीभिरनु| मोदना कृतास्ता अष्ट लघुपट्टराइयो जाताः, ते सप्तशता अपि भटास्त्वत्कृतधर्मानुमोदनमभावेणेदानीमपि त्वत्साहाय्यात्साधूपसर्गपापज ional श्रीपाळ चरित्रम् ॥ ३६ ॥ ainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ -नितकुष्ठिनः सुखिनों जाताः, अनया पूर्वभवे सपत्नीनामुक्तं तत्र दशतु सर्प इतिवचोनिबद्धकर्मणा तिलकमञ्जरी अत्र सर्पेण दष्टा, पुनर्यत् सिंहनृपतिर्घातविधुरः कृतः सन् मासमनशनं च दीक्षां पालयित्वा सोऽहं अजितसेनो जातो वाल्यत्वेऽपि त्वद्राज्यहर्त्ता सप्तशतभटैः | पूर्ववैरादहं बद्धः पूर्वाभ्यासवशाच्चारित्रपरिणामो जातः जातिस्मृत्या दृष्टपूर्वभवो भवोच्छेदनोद्यतश्चारित्रं गृहीतवान् उत्पन्नाऽवधिज्ञानः अत्र | सम्प्राप्तः, तस्मात् राजन् ! येन यथा यादृशं कर्म्म शुभमशुभं वा कृतं भवेत् तत्तादृशमत्र परत्र वा समायाति पृष्ठतः, तदुक्तं "यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म्म कर्त्तारमनुगच्छति ॥ १ ॥ कत्तारमेवं अणुजाइ कम्मं ' इत्यागमप्रामाण्यात्, | इत्यादि पूर्वभवावदातं निशम्य वक्ति श्रीपाल :- स्वामिन् ! महद्भवनाटकं यत्र नृत्यन्त्यनेके जीवा मोहरङ्गाजीवशिक्षिता रागादिसंगीतं, नास्ति मम चारित्रशक्तिरतो युक्तप्रतिपत्तिमादिशत, तदा गुरुवक्ति-तब भोग्यफलं महदस्ति, अत इहभत्रे चारित्रं न प्राप्नोषि परं | नवपदसमाराधनतो नवमस्वर्गसुखमनुभविष्यसि ततो नवमभवेऽपवर्गसुखं प्राप्स्यसीतिवचः श्रवणेन रोमाञ्चिततनुर्मुनिं प्रणम्य स्वगृह गत्वा नवपद तपश्वाराधयामास तदा मदना वदति-स्वामिन्! पूर्व तु धनं स्तोकमासीत् साम्प्रतं तु ऋद्धया शक्तोऽसि ततो विशेषतः कार्य उद्यापनमहः, धनविभवसामर्थ्ये सति यन्मनः काये क्रियते तत्फलमाप्तौ नवं जायते, तत्र तपस्यापनं प्रारब्धं नव जिनगृहाणि नव विवानि नव जीर्णोद्धारान् सिद्धप्रतिमापूजनं आचार्योपाध्यायसाधूनां वन्दननमनवसत्यन्नपानवसनस्थान शुश्रूषा| वैयावृत्त्यादिविधिं च तीर्थयात्रां सङ्घसाघम्पिकवात्सल्यं शासनोन्नतिं ज्ञानकोशादीनां लिखनवाचनपालनादिज्ञानाराधनं पठनपाठनकरणकारापणाऽनुमतिभेदेन साहाय्यं सामायिकादिवतानां व्रतवतां च भक्तिं सम्यत्तत्वात्प्रतिपतितमनसां तत्र स्थिरीकरणं चारित्रचारित्रोपकरणचारित्रवतां प्रतिपालनं इहपरलोकाऽऽशंसाकरणं तपस्विनां नमस्कारादिमत्याख्यानभक्तिवात्सल्यमित्यादि jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ पूर्वभवकृत श्रीपाल चरित्रम् मुद्यापन ॥३७॥ पुण्णं चित्तचजकर सामन्त्रणं उविज्जति ॥ सहियाई ठवियाई द्रव्यभावभेदात् सार्द्धचतुष्कवर्षं यावत् कारयामास,विशेषोद्यापनं लक्ष्मीप्रभावेण यत् कृतं तदपिशृणु-'एवं सिरिपालनिवस्स सिद्धचक्कच्चण कुणंतस्स । अह पंचमवरिसेहिं जा पुण्णं तं तबोकम्मं ॥ १॥ तत्तो रन्ना नियरज लच्छिवित्थार गुरुयसत्तीए । गुरुभत्तीए कारिरिउमारदं तस्स उजवणं ॥२॥ कत्थवि विच्छिणे जिणहरांम काऊं तिवेइ पीढं । विच्छिण्णं वरकुट्टिमधवलं नवरंगकयचित्तं ॥३॥ सालपमुहेहिं धन्नेहि, पंचवण्णेहिं मंतपूएहिं । रइऊण सिद्धचकं, संपुण्णं चित्तचजकरं ॥४॥ तस्य य अरिहंताइसु, सब्बेसु पएसु सप्पिखंडाई । नालियरगोलयाई, सामन्नेणं ठविज्जति ॥ ५॥ तेण पुणो नरवडणा, मयणासहिएण वरविवेएणं । ताइपि गोलयाई, | विसेससहियाई ठवियाई ॥६॥ जहा-अरिहंतपए धवले, चंदणकपूरलेवसियवगे । अडककेयण चउतीसहीरयं गोलयं ठवियं ॥७॥ सिद्धपए पुण रत्ते, इगतीस पवालमट्ठमाणिकं । नवरंगघुसि गविहियप्पलेव गुरुगोळयं ठवियं ॥ ८॥ कणयाभे मूरिपए, गोलं गोमेयपंचरयणजुअं। छत्तीस कणयकुसमं चंदणघुसिणंकियं ठवियं ॥९॥ उवझायपए नीले अहिलयदलनीलगोलयं ठवियं ।। चउरिंदनीलकलियं मरगयपणवीसपयगजुयं ॥१०॥ ( उवज्झाया पणवीसं, नीलमभंगेण पावकरएणं । पणवीस कणयकुसमं, चंदणघुसिणंकियं ठवियं ॥१०॥) साहुपए पुण सामे, समयमयपंचरायपट्टकं । सगवीसा रिटमाण भत्तीए गोलयं उवियं ॥ ११॥ सेसेसु चउपएK, चंदणसियगोलए ठवेइ सया । सगसहिगवण्णासयरि पणासमुचाहलसमेए ॥ १२ ॥ अण्णं च नवपयाणं, उद्देसेणं नरेसरो तत्थ । तत्तव्वन्नाई सुमेरुमालचीराई मंडेइ ॥ १३॥ सोलस अणाहएसु अ गुरुआई सक्कराई लिंगाई। मंडावेट नरिंटो, नाणामणिरयणचित्ताई॥ १४ ।। इगसोळसपंचसु सीई, दोसु च उस हिसरियदखाओ । कणयकचोल्लयाइहिं मंडावड तह अवग्गेस ॥१५॥ मणिकणगनिम्मियाई, नरनाहो अट्ट बीयपूराई । वान्तरायपढमे, परमेछिपयामि ठावेड ॥ १६॥ सहसा नसरी तत्थ । तत्तव्यन्ना ॥ १४ ॥ इगसोळसपा बायपूराई । वगन्तरायपढमे, LOG 30 Jain Educati o nal Wihinelibrary.org Page #83 -------------------------------------------------------------------------- ________________ खारिकपुंजयाई, ठावइ अडयाल लद्धिठाणेसु । गुरुपाउयासु अहसु, नाणाविहदाडिमफलाई ॥ १७॥ नारिंगाई फलाई, जयाइठाणेसु असुंठवइ । चत्तारि य कोहलाए, चक्काहिहायगपएसु ॥ १८ ॥ आसनदेसपत्ताण देवीणं बार माउलिंगाई । विजसिरिजक्खजक्खिणी, चउसहिपए य पूगाई, ॥ १९॥ पीयबलीकूडाई चत्तारि दुवारपालगपएसुं । कसिणवलीकूडाई, चउवीरपएसु ठवियाई ॥२०॥ नवनिहिपएसु कंचणकलसाई विचित्तरयणपुण्णाई । गहदिसिवालपएसु य, फलफुल्लाई सुवण्णाई ॥२१॥ इच्चाइ चारुवित्थरसहियं मंडाविऊणमुज्जमणं । न्हवणुस्सवं नरिंदो, काऊणं वित्थरविहीए ।॥ २२ ॥ विहियाए पूयाए, अट्ठपयाराई मंगलावसरे । संघेण तिलयमाला, मंगलकरणं कयं रना ।। २३ ॥ इत्यमुना विधिना उद्यापनं कृतं, तपःकरणे तदुद्यापने च यो वीर्योल्लासस्तदेव मुक्तिबीजं, अभव्यादिजीवास्तपादिकं कुर्वन्ति परं प्रणिधानं नायाति, " दर्शनज्ञानचरित्रतपस्सु प्रणिधानयुक् । वीर्योल्लासः कृतानंदः, प्रोक्तो मोक्षनिदानकः ॥ १॥ क्रियाः फलन्ति सर्वास्ताः, प्राणिनां लघुकर्मणाम् । कूपोद्यमः सिराभूम्यां. कृतः साफल्यमश्रुते ॥२॥ स्वातौ शुक्तिगतं वारि, मुक्ताभं ताम्रपणिगम् । तदेव वारि चित्रायां, सर्वनाशकरं स्मृतम् ॥ ३॥ द्रव्यभावेन शुद्धात्मा, यो भवेत्तेन निम्मितम् । सर्व धर्मादिकं कार्य, स्यान्महोदयसम्पद ॥४॥' सर्वजनसमक्षं श्रीपालप्रजापाल: सिद्धचक्रं स्तोतुमारेभे-यस्याऽर्हत्पदमूलकं दृढतरं श्रद्धालवालान्वितं, सिद्धाचार्यसुवाचका गुणभृतः शाखाः प्रशाखाः पुनः। बोधिज्ञानचरित्रशुद्धसुतपोमुख्याः स्वराढ्याक्षरप्रश्ना लब्धिपदादयो दलभराः छायावरा ऋद्धयः ॥ १॥ स्तम्बास्तद्गुणराजयः सदुदय: पुण्यानुबन्धी फलं, दिकपालान्वितयक्षयक्षिणिसुरवातः प्रमूनोत्करः । सौभाग्यप्रियतादि गन्धानेकरः श्रीसिद्धचक्राभिधो, दद्यात्ककल्पतरुः स्थितो हितमसौ जैनागमे नन्दने ॥२॥' इति स्तुत्वा तूर्यध्वनिपूर्वकं गीयमानो धवलमङ्गलैः प्रशस्यमानः साधम्मिकजनैः IMTwainelibrary.org JainEdar Page #84 -------------------------------------------------------------------------- ________________ श्रीपालकृ. नवपद स्तुतिः ॥३८॥ वीज्यमानश्चामरैः सपरिच्छदः सभायामागत्य यथोचितं पुनः सवस्य वस्त्रादिभक्ति विधाय सुखेन राज्यं पालयति स्म, तस्य मदनादिकासु नवान्तःपुरीषु त्रिभुवनपालादयो नव नन्दना जाताश्चक्रिणो निधय इव नवसहस्राणि रथा नवसहस्राणि गजः तुरङ्गाणां चरित्रम्, नवलक्षं संजातं, नवकोटयः पदातीनामित्याद्यनेकसौख्यसंस्थापितदेहस्य नववर्षशतानि व्यतिचक्रमुः, त्रिभुवनपालं स्वपदे संस्थाप्य राजा नवपदध्यानमग्नो जातः, स च कीदृग्रूपः ? 'विंशतिस्थानकेनेदं, तीर्थकृनामकर्मसद् । तस्योदयेन संजातस्तीर्थकद्यः स कथ्यते ॥१॥ चतुष्षष्टिसुरेन्द्राणामसजल्यातसुपर्वणाम् । अर्हणामहते तस्मै, नमः क्षीणाष्टकर्मणे ॥२॥ यस्य कल्याणघस्रेषु, मोदन्ते | नारका अपि । चतुर्दशसु लोकेपूयोतो जायते संततम् ॥३॥ यस्य ज्ञानत्रयं सार्धमायाति च्यवनावधेः। यथा रवेरिवालोकः, सहभावी तथा स्फुटम् ॥ ४॥ गृहवासेऽपि सद्भोगान् , सेवमानोऽपि निर्जरी। गृह्णाति दीक्षा लोकानां, शिक्षायै जीतमित्यतः ॥ ५॥ महानिर्यामको गोपो, माहनः सार्थपो महान । दीयते झुपमा यस्य, स वन्द्यो जगतां विभुः ॥ ६॥पातिहार्याष्टकैजुष्टः, पञ्चत्रिंशदचोगुणैः। जगज्जनारविन्दाना, विवोधनकरो जिनः ॥७॥ चत्वारोऽतिशया यस्य, जन्मतस्सहचारिणः । घातिकर्मक्षयादेकादशाप्य तिशयाः पुनः॥८॥ एकोनविंशं देवेन, विहितातिशयाः परे । जगच्छरण्यो रूपस्थध्याने ध्यातो मनीषिभिः ॥९॥ तद्ध्यानादाप्त तद्रूपा, याता यास्यन्ति यांति च। जीवाः संसारिणोऽने के, मरुदेवेव सत्वरम् ॥ १०॥ यदुक्तं श्री शत्रुञ्जयमाहात्म्ये श्रीधनेश्वरमरिणा सातिशयसम्पूर्ण, जिनं चित्ते जिनप्रमः । सुतप्रेम्णाऽपि ध्यायन्ती, तन्मयत्वमवाप सा ॥ १ ॥ व्यापारमखिलं देवी, विमृज्य भवस म्भवम् । चिन्तयन्ती जिनं प्राप, तन्मयत्वमथ क्षणात् ॥ २॥ हृदये दृक्पुरः पार्थे, पश्चाद्वचसि सर्वतः । अपश्यजिनमेवासी,dnsar शिवसौख्यनिबन्धनम् ॥ ३॥ आरुढा क्षपकश्रेणी, कर्मक्षपककारिणां । सा नानाश्रुतविचारं, चैकश्रुतविचारकम् ॥ ४॥ मूक्ष्माक्र Jan Education For Private Personel Use Only Page #85 -------------------------------------------------------------------------- ________________ याभिधानं च, समुच्छिन्नक्रियं ततः । यथाक्रम शुक्लध्यानमवाप मरुदेव्यथ ॥५॥ अंतकृत्केवलित्वेन, कृत्वा कर्मक्षयं ततः। स्वामिनी केवलोत्पत्तिसमकालं क्षयं ययौ ॥६॥ इति, ते जिना ध्यायमानाः स्युः, संसारोच्छित्तयेऽनिशं । पूर्व पदमिति ध्यायन्, सिद्धस्तुतिमुपक्रमे ॥७॥ सितं ध्मातं च यः कर्माष्टप्रकारं तपोऽग्निना । सिद्धा बुद्धाः परम्पारं, प्राप्ताः संसारनारधेः ॥ ८॥ अस्पृ. | शद्गतिकाः कालप्रदेशान्तरसम्भवात् । इतोऽवगाहनाकारास्त्रिभागानस्वभूधनाः ॥ ९ ॥ पूर्वप्रयोगतोऽसङ्गभावाद्वन्धविमुक्तितः । एकेन समयेनोर्ध्वगतिकाः कालजीविकाः ॥ १० ॥ पक्कैरण्डफलाजिह्मचक्रभ्रमनिदर्शनात् । प्राप्ताः सिद्धशिला साद्य| नन्तस्थितिविराजिताः ॥ ११॥ जात्यर्जुनमयी सा चोत्तानच्छत्राकृतिः शिला । ईषत्प्राग्भारिकानाम्नी, समयक्षेत्रसंमिता ॥ १२ ॥ योजनान्यष्ट बाहल्ये, तत्रान्त्ये योजने स्थिताः । चतुर्विंशतिभागनं, क्षेत्रमारुह्य भासुराः ॥ १३ ॥ यत्सौख्यं चक्रिशक्रादिपदवीभोगजं धनं । तेभ्योऽनन्तगुणं मानातिगं तत्र स्थितात्मनाम् ॥ १४ ॥ ज्ञेयं ज्ञानेन तद्वाच्यं, वचसा नोपमा क्षितेः । यथा पुरगुणान् म्लेच्छो, जानन् वक्तुं हि नाऽशकत् ॥१५॥ अनन्ताष्टकसंयुक्ताः, सर्वोपाधिविरामतः । ज्योतिरुद्योतिताशेषदिग्भागा ध्यानसंस्थिताः ॥ १६॥ रूपातीता अनाबाधा, विगुणा अपुनर्भवाः । दर्शनज्ञानचारित्रवीर्यानन्तचतुष्टयाः ॥१७॥ पटुिंशत्सद्गुणैः शोभमाना मानातिगप्रभाः । लब्ध्वा युगप्रधानत्वं, विहरन्ति धरातले ॥१८॥ स्मारणावारणाचारुनोदनाप्रतिनोदनाः । शिक्षयन्ति जनानां ये, विमलाशयमाजिनः ॥ १९ ॥ श्रीमज्जिनेन्द्रनिस्तन्द्रशासनाधारदिग्गजाः । मातृतुल्यहिताः शुद्धमार्गगानां जयंतु ते ॥२०॥ सिद्धिसीमन्तिनीलीलाविलासार्थगताऽईता । स्थापिता आत्मरूपा ये, मूरयो ज्ञानसिन्धवः ॥२१॥ अप्रमत्ताश्च मत्ता ये, व्याख्यानादिषु कर्मसु । अषायाः परद्रोहद्रह शोषणकुम्भजाः ॥२२॥ जातिदेशकुलाचार Jain Educaton International For Private & Personel Use Only Page #86 -------------------------------------------------------------------------- ________________ श्रीपाळकृ. नवपद स्तुतिः श्रीपाल चरित्रम् ॥३९॥ रूपलावण्यसद्गुणैः । प्राप्त सूरिपदं यैस्ते, जयंतु जगदिष्टदाः ॥ २३ ॥ स्वाध्याय द्वादशाङ्गाना, कुर्वते पारगामिनः । सूत्रार्थ- विस्तराम्भोजप्रबोधनदिवाकराः ॥ २४ ॥ उपसमीपेऽधीयन्ते, जनैः शास्त्रार्थविस्तरम् । उपाध्याया यदीयाङ्ग, गुणाः स्युः| | पञ्चविंशतिः ॥२५॥ यत्मसादाज्जडाश्मानसदृशाः पुरुषा अपि । नवपल्लवतां यान्ति, दक्षत्वेन जयन्तु ते ॥ २१ ॥ मूत्रार्थदा नभागेन, मूरयः सत्यवाचकाः । भवे तृतीये ये नित्यं, लभंते शिवसम्पदः ॥ २७ ॥ युवराजसदृशा गच्छचिन्ताचिन्तनतत्पराः। | आचार्यपदयोग्या हि, यथानुत्तरवासिनः ॥ २८ ॥ मोहाहिगरलाघातचेतनानां नजन्मनां । ददते ज्ञानचैत्यन्यं, वचोऽमृतरसेन ये ॥ २९ ॥ अज्ञानव्याधिवैधूर्यबोधितानां निरामयम् । कुर्वन्ति देशनादानमृगाऽन्न जयन्तु ते ॥३०॥ कुवादिदर्पमातङ्ग| पाटने नखरायुधाः । वाचका वाक्सुधासारैः, शमयत्यङ्गिन्दुष्कृतम् ॥ ३१॥ यथा द्विरेफाः पुष्पाणां, रसं गृह्णति नातुराः । नोत्पादयन्ति पीडां च, प्रणयन्ति निजं तथा ॥ ३२॥ ये स्थानोपधिमाहारं, गृह्णन्त्येषणया सदा । कापोततिं कुर्वाणाः, जीयासुस्ते मुनीश्वराः ॥ ३३ ॥ गुणानां सप्तविंशत्या, भूषिता दूषिता न च । रागद्वेषादिभिर्दृष्यैर्वन्यास्ते भुवि साधवः ॥ ३४ ॥ तप्यमानास्तपस्ती, द्वादशं सदभिग्रहाः । दुष्कर्ममर्मशैलैकपवयो मुनयो वराः ॥३५॥ पाल्यमानाः सदा सप्तदशभेदेन संयमम् । यमाद्यष्टाङ्गयोगैश्च, युक्ता मुक्तास्तथाऽऽश्रवैः॥३६॥ पदकायजीवरक्षासु, दक्षाः कक्षीकृतक्षमाः। गुप्तिभिस्तिमृभिर्गुप्ताः, युताः समितिपश्चकैः ॥ ३७ ॥ सदा चारित्रसौवर्णकषपट्टकसन्निभाः । ग्रहणासेवनाशिक्षाद्विकं ध्यायन्ति येऽनिशम् ॥ ३८॥ | दशर्नज्ञानचारित्रवीर्यरत्नत्रयेण ये । साधयन्ति पदं सिद्धेः, सिद्धार्था वतिनो वराः॥ ३९ ॥ दुष्टं ध्यानद्वयं मुक्त्वा, ध्यायंत्यग्रे| तनं द्वयम् । धर्म शुक्लं च यद्धयानं, निर्ग्रन्थास्ते जयंत्वमी ॥ ४० ॥ मुक्ताः सावद्ययोगाये, युक्ता निष्पापयोगकैः । बन्धने | ॥३९॥ Jan Education International For Private Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ Jain Education द्विविधे नैव, लीनाश्चारित्रधर्म्मणि ॥ ४१ ॥ दण्डगारवशल्यैश्व त्यक्ताः प्रोति पार्श्वकाः । कथयन्ति चतुर्भेदं धर्मं त्यक्तकपायकाः ॥ ४२ ॥ पञ्चा ( त्यक्ता )व्रतप्रमादाश्च त्यक्तसङ्गाः कृतादराः । महाव्रतेषु पञ्चस्वेतेष्वाचारेषु सङ्गताः ॥ ४३ ॥ त्यक्तहास्यादिषट्काच, रक्षन्तः षट्कमङ्गिनाम् । हर्त्तारो भयसप्तानां ज्ञातारो नयसन्ततेः ॥ ४४ ॥ निम्नन्तश्च मदानष्टौ पालयन्तः प्रसूः श्रुतेः । वारयन्तो निदानानि, नवब्रह्मधारकाः ॥ ४५ ॥ वहन्तो दशधाधर्म्म, क्षान्तिमुख्यं जिनोदितम् । इत्याद्यसङ्ख्यसङ्ख्यावद्वयस्ते मुनयोऽजयन् ॥ ४६ ॥ जनानां भवपाथोधौ, मज्जतां तारणाय ये । मूर्त्ताः पोतायमानाः किं, दृश्यन्ते साधवो हामी ॥ ४७ ॥ गते जिने जिनाभासाः, विहृताः कर्म्मभूमिषु । शुद्धोक्त्या तपसा चाप्ताज्ञापालनकृतोद्यमाः ॥ ४८ ॥ भवलभ्येऽर्थे प्रीतिर्नैवास्तिक्यं विदोषवाक्येषु । नाव्यक्तं मित्थात्वं सदयत्वं सत्क्रिया गुणिषु ॥ ४९ ॥ यस्यैते पञ्चगुणा, गुणानुबन्धित्वमेव जनयन्ति । अपुनर्बन्धकताया, बीजं सदर्शनं नाम ॥ ५० ॥ सुदेवः सुगुरुः शुद्धधम्मों ज्ञायेत येन तत् । दर्शनं वासनारूपं, सत्तत्वश्रद्दधानतः ॥ ५१ ॥ तत्रौपशमिकं क्षायोपशमं क्षायिकं तथा । सास्वादनं वेदकं च पञ्चधा तत् प्रकीर्त्तितम् ।। ५२ ।। | स्यादर्द्धपुद्गलावर्त्तमानाविशेषिते भवे । लभ्यं निर्याणसम्प्राप्तिप्रतिभूसममीरितम् ॥ ५३ ॥ आसंसारं भवेदोपशमिकं दर्शनं तथा । पञ्चवारं भवेत् क्षायोशमं स्यादसङ्ख्यशः ॥ ५४ ॥ वेदकं क्षायिकं चैकवारं स्यादात्मरूपनम् । अपौगलिकमाख्यातं, | दर्शनं सर्वदर्शिभिः ॥ ५५ ॥ यद्विना ज्ञानमज्ञानं, चारित्रं भवनाटकम् | वेषमात्रं क्रियाकष्टकारि हारि बहिः सुखैः ॥ ५६ ॥ दर्शनेन विना प्राप्तं, चारित्रं स्यादनन्तशः । महोदयपदप्राप्तिहेतुकं नो गतं कदा ॥ ५७ ॥ लभ्यते तूपशमिकं, पूर्व तदनु चापरम् । क्षायोपशमं क्षायिकं वा मिथ्यात्वं यथाभवम् ॥ ५८ ॥ ज्ञानचारित्रयोर्मूलं निदानं शिवशर्मणः । सप्तषष्टिमितैर्भेदैर्भूषितं दर्शनं मतम् helibrary.org Page #88 -------------------------------------------------------------------------- ________________ श्रीपालकृ. । श्रीपाल नवपद स्तुति: ॥४०॥ ॥ ५९ ॥ भक्ष्याऽभक्ष्यं तथा, पेयापेयं चाकृत्यकृत्ययोः । गम्यागम्यं तथा ज्ञेयहेयोपादेयतादिकम् ॥६०॥ यद्विना ज्ञायते नैव सर्व सर्वज्ञशासनम् । ज्ञानादनु अहिंसाद्याचरणं ज्ञानमुच्यते ॥ ६१ ॥ क्रियामूलं हि श्रद्धानं, ज्ञानमास्तिक्यकारणम् । अर्हदादिपदाः पूज्या, ज्ञानेनैवान्यथा युगे ॥६२ ॥ अनभिनिवेशोऽवितथपवादनं तथ्यदर्शनं गुणतः । अश्रान्तिरक्षयत्वं ज्ञानस्य ते गुणाः पञ्च ॥ ६३ ॥ स्वपरप्रकाशकं यद्दीपकल्पं हि कथ्यते । भुवनोपकृतिकृत् ज्ञानं, यथा चन्द्रार्कतोयदाः ॥ ६४ ॥ मतिश्रुताऽवधिज्ञानमनःपर्यायकेवलम् । पञ्चधा मूलतः प्रोक्तपेकपञ्चाशदुत्तरम् ॥ ६५ ॥ स्यादष्टाविंशतिचतुर्दशषट्कद्वयैककम् । भेदं मत्यादिकं ज्ञेयं, साध्यं तद्विनयेन हि ॥ ६६ ॥ अन्त्यं ज्ञानत्रयं लोके, वचोभिरुपकर्तृकम् । मतिश्रुतं तु सर्वेषां, कुरुते हितमन्वहम् ॥६७॥ द्वादशाङ्गमयं वर्णरूपं श्रुतमिहोदितम् । दुष्षमायामपि पुनः, कल्पद्रुवदभीष्टदम् ॥ ६८॥ वर्णनीयोदिताः पूज्याः , प्रष्टव्या दक्षसाक्षिणः । यत्प्रसादाजिनास्तुल्ये, नृत्वेऽवि सम्भवन्त्यमी ॥ ६९ ॥ यत्प्रसादादिमे लोकविचारा जिनभाषिताः । साक्षादिव विलोक्यन्ते, धर्मकर्मक्रियाञ्जनैः ॥७०॥ रिक्तीकरोत्यष्टकापचयं यनिरुक्तितः । चारित्रं तन्जिनैः प्रोक्तं, ज्ञानदर्शनसंयुतम् ॥ ७१ ॥ विनियोगस्तथा ऋद्धिः, सिद्धिः पुष्टिश्च सर्वतः । क्षयश्चाविरतेरेवं, चारित्रस्य गुणा अमी ॥ ७२ ॥ द्विभेदं सर्वसावधविरतियतिनां तथा । सामायिकादिभेदेन, स्याजन्माधि पञ्चधा ॥ ७३ ॥ आसंसारं भवेदष्टवारं सद्दर्शनान्वितम् । शुद्ध भावक्रियोपेतमशुद्या तदनन्तशः ॥ ७४ ॥ गृहिणां देशतः तत्स्यात्, द्वादशवतभेदतः । क्षेत्रपल्योपमासङ्ख्यभागमानमितं भवे ॥ ७५॥ त्यक्त्वा षट्खण्डनाथत्वं, यदङ्गीक्रियते मुदा । चक्रवत्यादिभिः शश्वत् , संसारोच्छेदकांक्षिाभिः ॥ ७६ ॥ यत्प्रसादादपूज्योऽपि, पूज्यते सजनैः पुनः । वन्यते यदवन्योऽपि, पापः पापाद्विमुच्यते ॥ ७७॥ यत्प्रासादाद्वराकोऽपि, याति शेख. ॥४०॥ Jain Education Jhelibrary.org Page #89 -------------------------------------------------------------------------- ________________ रता जने । अशरण्यः शरण्यं स्यादजातिश्च सुजातिमान् ॥ ७८ ॥ तत्सप्ततिविधर्मेंदर्भिन्नं तु चरणादिमैः । क्षान्त्यादिमूल सद्गुप्तिगुप्तं रागादिविद्विषः ॥ ७९ ॥ यदनन्तगुणं लोके, वर्णितं दशधा तथा । भेदैः सप्तदशैः पूर्ण, तच्चारित्रं जयेदिह ॥ ८॥ प्रीतिभॊग्येऽप्यर्थे विरतिरनिच्छा पुनः कृते नार्याः । त्यागो भवाभिनन्दौ, सचेतः परगुणावाप्तौ ॥ ८१॥ परदोषेक्षोपेक्षा, तपसः षडमी गुणा गुणकभुवः । तत्माप्यं सम्यक्त्वानन्तर्य संयताराध्यम् ॥ ८२॥ यन्त्रिकाचितकर्मनं, क्षमायुक्तमगर्वकम् । अनिदानं निदानं हि, सिद्धेस्तप्यं सदा तपः ॥ ८३ ॥ ज्ञानत्रययुतैवीरैः, तद्भवे मुक्तिगामिभिः । जानद्भिरपि सर्वज्ञैराहतं यत्तपोऽनिशम् ॥८४ ॥ यत्प्रसादात् महासिद्धिः, लब्धयश्चारणादिकाः । अणिमादयश्च सिध्यन्ति, तत्तपः शस्यते जनैः ॥ ८५ ॥ दूरस्थितं दुराराध्य, दुष्प्रधयं सुरैरपि । तपेन साध्यं तत् सर्व, द्वादशं बाह्यपन्यदः ॥८६॥ पञ्चाशता भेदभिन्नं, चोत्तरं कथितं जिनः। यत्फलं सिद्धिसौख्यं स्यान्नृदेवसुखपुष्पकम् ॥ ८७॥ शमादयो गुणा यस्य, मरन्दस्तत्तपो जनाः । यत्नादाद्रीयतां सद्यः, सहायं | शिववमनि ।। ८८ ॥ जीवहेम्नः कर्ममलस्तक्षणं चापनीयते । तपोऽनलेन भव्यानां, तत्तपो वन्द्यते जनैः॥ ८९ ।। यदुक्तं श्रीसिद्धिचक्रचरित्रेऽप्यस्य माहात्म्यं “ उप्पन्नसन्माणमहोमयाणं, समाडिहरा सणसंठियाणं । सद्देसणाणंदियसज्जणाणं, नमो नमो होउ सया जिणाणं ॥ १॥ सिद्धाणमाणंदरमालयाणं, णमोऽणमोऽगंतच उक्कयाणं । भूरीण दूरीकयकुग्णहाणं, नमो नमो सूरसमप्पहाणं ॥२॥ सुत्तत्थवित्थारणतणराणं, णमो णमो वायगहुंजराणं । साहूण संसाहियसंयमाणं, नमो नमो सुद्धदयादमाणं ॥३॥ जिणुत्ततत्ते रुइलक्खणस, नमो नमो निम्मलदंसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो नमो नाणदिवायरस्स ॥४॥ आराहियाखंडियक्कियस्स, नमो नमो संयमवीरियस्त । कम्मदुमुम्मूलणकुंजरस्स, नमो नमो तिव्वतवोहरस्स ॥ ५॥ इय Jain Education in For Private & Personel Use Only O nelibrary.org Page #90 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम् श्रपिालकृ. नवपयसिद्धं लद्धिविज्जासमिद्धं, पयडियसुरवगं हीतिरेहासमग्गं । दिसिवइसुरसारं खोणिपीढावयार, तिजयविजयचकं सिद्धचकं | नवपद नमामि ॥ ६॥" इत्यादि नवपदध्यानं ध्यायन् तल्लीनमानसस्तदैव पूर्णे आयुषि नवमानतकल्पे एकोनविंशतिसागरायुः समुत्पन्नः स्तुतिः सुरप्रभनामा सुरः, तदनु कियता कालेन ध्यानेनैव माता मदनादयो नवापि स्त्रियस्तत्रैवोत्पन्नाः सुरसुखानि भुजयामासुः, ततश्छ्युत्वा नरभवं प्राप्य पुनस्तदेव स्वर्ग पुनर्नरभवमित्येकान्तरितसुरभवयुक्तं नृभवं प्राप्य अष्टौ भवान् पूरयित्वा नवमे भवे मोक्षं यास्यति, इतिश्रीपालवार्ता गौतुममुखान्निशम्य मगधेश्वरः प्राह-गणीन्द्र ! अचिन्त्योऽयं नवपदमाहिमा आश्चर्यकृत सिद्धचक्रमाहात्म्यं कर्णसुधार| सोपमं श्रुतं,पुनर्गणी पाह-किं वय॑ते बहुधा ? एकैकपदभक्तिमभावाद्देवपालादयो महानन्द प्राप्ताः अत्सिदपरमध्यानादैश्वर्यं शक्रसम्पदम् । सम्पाप्य देवपालोऽपि, गतः सिद्धिमहालयम् ॥१॥ ध्यायन्तः सिद्धपदध्यान के के शिवं न सम्पाप्ताः । श्रीपुण्डरीकपाण्डवपद्ममुखाः पाणिनो लोके ॥२॥ नास्तिकवादसमर्जितपापभरोऽपि प्रदेशिनरनाथः । सूर्याभव प्राप्तः मूरिपदानां प्रभावोऽयम् ॥ ३॥ लध्वपि गुरूपदिष्टं व्यलीकमामृज्य सिंहगिरिशिष्यः । श्रीरत्नपाठकांत, सुरपदवीं तत्क्षणात्माप्तः॥४॥ साधुपदाराधनतो, मदनभ्रमघातकः शिवं प्राप्तः । दुःखं तदुःखानां, दानादासाहयन्ति जनाः ॥ ५॥ सम्यक्त्वाराधनतः सुराः समायान्ति | दासभावेन । किं कथ्यते जिनोऽपि श्लाघामकरोच सुलसायाः॥६॥ ज्ञानपदाराधनतो, मापतुषः साधुरन्तकृत ज्ञानी । जातो मलयाद्या अपि जीवाः सद्ज्ञानां प्राप्ताः ॥७॥ शीलक्षमाद्यलङ्कत चरणाज्जम्बूकुमार इव भव्यः । सौभाग्यज्ञानशाली शिव-IN माली स्यान्न सन्देहः ॥८॥ वीरमतीभवविहितात, जिनभक्तियुतात्तपःप्रभावाद्या। भूत्वा कनकवतीता, केवलभावं गृहस्थापि ॥९॥ Kला कि बहुना मोक्तेन ?, त्वमपि श्रेणिक ! नरोऽपि भविताऽसि । तीर्थकरोऽग्रिमजन्मान, पदनवकध्यानभक्तिवशात् ॥१०॥" इति गौतमो-IN in Education International For Private & Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ Jain Educati तमभाषितं निशम्य यावदुत्तिष्ठति तावद्वर्द्धापितो वनपालकेन वद्धर्थसे दिष्ट्या श्रीमन्महावीरजिनचरणकमला गमनवार्त्तया, प्रमुदितो भूकान्तो रोमाञ्चकञ्चुकितनुस्तस्मै सार्द्धद्वादशकोटिप्रमाणं पारितोषिकं धनमर्पयित्वा गतस्तत्र समवसरणे देवनिर्मिते विस्तारितायोजन जानु प्रमितसुरतरुकुसुमाच्छादिते शालत्रयालङ्कृते दिव्यदुन्दुभिध्वनिनादिते सर्व समागत्य पञ्चाभिगमविधान विधिपूर्वकं स्तोतुमुपक्रमते, कीदृश: ? ' उद्गिरन्निव भावस्थं, तमेवानन्दमात्मना । श्रेणिकः श्रीमहावीरं जितमारं मृदूक्तिभिः ॥ १ ॥ ध्येयस्त्वं सर्वसत्वानामन्यं न ध्यायास प्रभो ! । पूज्यस्त्वं विबुधेशानामन्यः पूज्यो न तेऽस्ति यत् ॥ २ ॥ सेव्यस्त्वं जगतां नाथ !, न सेव्यः कोsपि ते प्रभो ! | स्तुत्यस्त्वं स्तूयसे नान्यो, जगत्साम्राज्यलब्धितः ॥ ३ ॥ शरण्यस्त्वं हि सर्वेषां न कोऽपि शरणं तव । त्वं प्रभुर्विश्वविश्वेषामन्यो नास्ति तव प्रभुः ॥ ४ ॥ सिद्धिसौख्यं त्वदायत्तं नापरस्तस्य दायक: । परात्परतरस्त्वं हि त्वत्तो नास्ति परः क्वचित् ॥ ५ ॥ त्वमनादिरनन्तस्त्वं, ज्योतीरूपं परात्परम् । त्वामामनंति विबुधा, जगत्रितयदर्शिनम् ॥ ६ ॥ नमस्तुभ्यं भवाम्भोधियानपात्राय तायिने । त्वत्तोऽहं परमानन्दं प्रार्थये प्रार्थितप्रद ! ॥ ७ ॥ तव प्रेष्योऽस्मि नाथाहं त्वत्तो नाथामि नाथताम् | जगच्छरण्य ! मां रक्ष, प्रसीद परमेश्वरः ॥ ८ ॥ इति जगन्नाथं स्तुत्वा महिनाथ शिरोमणी यथोचितस्थानमुपविष्टः शिष्टमूर्द्धन्यो धन्यं मन्यमानो जिनाननेन्दुमभिमुखं स्वनयनच कोरकिशोरं प्रस्थापयति, भगवानपि तत्पानाय देशनासुधां ववर्ष, तत्रापि नवपदध्यानमाहात्म्यमात्मस्वरूपतया निवेदितं यथा 'ध्याता ध्येयं तथा ध्यानमात्मैव विभुनामतः । ज्ञानदर्शनचारित्रतपोवीर्ययः पुनः ॥ १ ॥ द्रव्यैर्गुणैश्च पर्यायैर्भेदच्छेदक्रियादिभिः । रूपपिण्डस्थताध्यानं, ध्यायन्नात्मा जिनः स्मृतः ॥ २ ॥ रूपातीतस्वभायो यः केवलज्ञानदर्शन: । कम्र्म्मोपाधिविहीनस्तु, सैष सिद्ध इतीरितः ॥ ३ ॥ पञ्चाचारविभेदेन पञ्च प्रस्थानचिन्मयः । सूरिध्यानपदारूढा - national 040404ma w.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ श्रेणिककृ. श्रीपाल चरित्रम् चार्याः क्षेत्रज्ञ एव सः॥४॥ महाप्राणादिकं ध्यानं, द्वादशाङ्गी तथा पुनः। ध्यायनात्मा जिनैः प्रोक्तः, उपाध्यायोऽर्थतन्त्रवित् ॥५॥ नवपदार्भा अप्रमत्तः शमो मुक्ती, भवे च विगतस्पृहः । स एवात्मा मुनिः प्रोक्तः, किं केशैमुण्डनादिकैः ? ॥ ६॥ रत्नत्रिके लयः सिद्धपन्थानं वीरस्तुतिः साधयन् सदा । युक्तस्त्रियोगयत्नेन, साधुरात्मा भवेद् ध्रुवम् ॥ ७॥ मोहक्षयोपशान्तिभ्यां, दर्शनं वेदयन् परम् । संवेगादि गुणोयो यः, स आत्मा दर्शनं स्मृतः ॥ ८॥ क्षयोपशमयोर्ज्ञानावरणीयस्य कर्मणः । बोधताया भवेदात्मा, ज्ञानवान् सैव वाङ्मये ॥४२॥ ॥९॥ रमते सच्चिदारामे, श्लेषितः शुकुलेश्यया । अभ्रामन मोहविपिने, आत्मैव चरणं मतम् ॥१०॥ संलयन समतायोगे, इच्छा|रोधेन संवरी । वत्तते यस्तपोभावे, आत्मैव कथितस्तपः॥११॥ आगमश्चागमज्ञाता, आत्मैव कथितो जिनः। अविनाशी स्थिरस्थेयान् , नान्यदा स्नेहचेतनात् ॥ १२ ॥ यदुक्तमागमे “आया सामाइयं, एगे आया, जे एगं जाणइ से सव्वं जाणइ" इत्याद्यागमप्रामाण्यादात्मैव संसारः सिद्धिश्चेति, नवपदध्यानं असङ्ख्ययोगजन्यविविधालम्बनेन विधीयते, परं बहव उपाया मोक्षसाधने, साधयन्ति जनाः, 'शीलव्रतेन सौभाग्यं, भोगाः सत्पात्रदानतः । देवार्चनेन साम्राज्यं, तपसा चेन्द्रतादिकम् ॥१॥ तेषां भेदास्तु बहवस्सन्ति ते भवसौख्यदाः । सेविता भविनामेव, तत्तत्सौख्याभिलाषिणाम् ॥२॥ भावना यदि जायेत, तेषामन्तरवर्तिनी। निरुपाधितया मुद्रा, याति चेत्स्यात्करे शिवम् ॥ ३॥ क्षणमात्र सेविता सा, प्राप्ता चिन्मयतां यदा । भावनैकापि सर्वस्वरूपापरमयोगिनाम् ॥४॥ सापि श्रेष्ठा तदा प्रोक्ताsनुभवे स्वरसं युता । सद्विवेकयुता क्षान्तिभूषणाऽस्पृहताम्बरा ॥५॥ विनाऽनुभवभळसा, न भवेत्कार्यसाधिनी । यथाभिमुखमायाता, न शस्या विधवा वशा॥६॥ इत्यादिदेशनां सुधासध्रीची ज्ञात्वाऽनुभवरसलीनतया भाव्यं भव्यजनैः, अनुभव एव सर्वत्र श्रेयान , स च की KC दृग् ? 'वृद्धिहेतुर्यथांगुष्ठो, गौतमस्यार्थवस्तुषु । तथोक्तोऽनुभवः सर्वक्रियासु सफलासु च ॥शा पयःसुधाज्यादि पेयं, प्रधानमुत्तरात्तरम्।। ॥४२॥ Jain Education a l For Private & Personel Use Only Rilinelibrary.org Page #93 -------------------------------------------------------------------------- ________________ Jain Education तथा ज्ञानक्रियाश्रद्धाऽनुभवः तेषु परः परः ॥ १ ॥ यथा रसालदण्डेषु ग्रन्थिर्भवति नीरसः । ज्ञानादयोऽपि सरसाः, तं विना ग्रन्थिसन्निभाः ॥ २ ॥ सर्वाऽनिन्द्यप्रतीकेऽङ्गे, नरो नको न सुन्दरः । ज्ञानादिगुणयुक्तोऽपि तं विना नैव शोभते ॥ ३ ॥ ज्ञाने सत्यपि नो वेत्ता, भवेदनुभवं विना । वितण्डावादमातन्वन्नपि स्थान जिताहवः ॥ ४ ॥ बहुश्रुतजनैः सङ्घैर्मान्योऽप्यनुभवं विना । ख्यातोऽईच्छासनस्यायं वैरी सुरिस्तथा तथा ॥ ५ ॥ यदुक्तं "जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समये, तह तह सिद्धंतपडिणीओ ॥ ६ ॥ लिखनैर्वाचनैरध्यापनैरध्ययनैस्तथा । किमेभिर्यदि हृनेहे, नायात्यनुभवेश्वरः ॥ ७ ॥ योगो ध्यानं लयस्नातः, समाधिः समता धृतिः । सम्यग्ज्ञानं च पर्यायाः, एते तस्योदिता जिनैः ॥ ८ ॥ लोकोक्तिरियमप्याप्तो, यैस्तैराच्छादितो जनैः । ज्ञायतेऽनुभवैः साक्षात्, साम्यनिर्वेदनादिभिः ॥ ९ ॥ स्तोकेनापि हि दम्भेन, दुष्टाः पीठवलादयः । विशुद्धा अपि दुःखत्वं प्राप्ताः किमितरे जनाः १ ॥ १० ॥ परं यदहृदयारामे, लसत्यनुभवो हरिः । दम्भमोहादयो नागा, नायान्त्यभिमुखं हि तान् ॥ ११ ॥ अर्हदादिपदान्येवं, भावितानि परस्परं । स्फुटानुभवतो नूनं तन्मयान्येककान्यपि ॥ १२ ॥ विनानुभवमेतानि, गुणहीनानि नामतः । सेविता नार्थकारीणि भवन्ति भवहेतवे ॥ १३ ॥ अनुभूतिसुधासारः, पीतो यैर्भव्यकेकिभिः । तैः प्राप्तः परमानन्दः, प्राप्स्यन्ति प्राप्नुवन्ति ते ॥ १४ ॥ सुरदुमणिकुम्भाद्या, भावा: मापुरदृश्यताम् । जाने अनुभवेनैव धिक्कृतास्तेऽत्र सौख्यदाः ।। १५ ।। इति श्रीमन्महावीरवदनविनिर्गतदेशनासुधारसं समापीय पूर्णोत्कण्डः श्रेणिकः सपरिच्छदो नवपदाराधने निश्चयं कृत्वा त्रैलोक्यगुरुं प्रणम्य प्राप्तो राजगृह, भगवानपि दिनकरवत् कुग्रहपथं निवारयमाणो भव्यकमलकाननं प्रबोधयन विहृतवान ainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ श्रेणिककृ. नवपदार्भा वीरस्तुतिः ॥४३॥ धरावलये, क्रमेण निवृत्तिपुरं प्राप्तः । श्रेणिकोऽपि तदाराध्यार्जिततीर्थरनामका पूर्वबद्धनरकायुस्तेन गतः प्रथमपृथिव्यां प्रथम- श्रीपाल प्रस्तटे, चतुरशीतिवर्षसहस्रायुः प्रपाल्यातनोत्सपिण्यां शतद्वारि पुरि श्रीवर्द्धमानजिनतुल्यो देहमानवर्णलाञ्छनगणधरशिष्यादिपरि- चरित्रम् करायुःकल्याणकदिनादिभिः श्रीपद्मनाभजिनो भावी । इतिश्रीपालचरितं निशम्य भव्यजनाः सोद्यमा भवत सिद्धचक्राराधने, श्रीपालवदमेयसौख्यभाजो भवन्तु इति । अथ प्रशस्तिः-जीयात्स्वच्छतपाख्यदुग्धजलधिप्रोल्लासने पार्वणः, श्रीमश्रीविजयप्रभाख्यसुगुरुः सूरीशशीतद्युतिः । चित्रं मित्रहितः सदा कुवलयोल्लासं दधानः सतां, पक्षी नो जडमः कृतान्तजनको दोषाकरो नोकदा ॥१॥ तद्धस्तदत्तोत्कटपट्टपूर्वाचलेषु भास्वद्युमणीसमानः । जयत्यनूचानसुचक्रवर्ती, हीरोद्भवोऽयं विजयादिरत्नः ॥२॥ तद्गच्छे कविराजिकीर्तिवनिताभाले ललामायितः, श्रीविनयाद्विमलाभिधानसुधियः स्फूर्ति पर विभ्रति । यदृष्टे जनतामनस्सु निहिता धन्यादयस्साधवः, साक्षात् संस्मरणस्य भावमखिला दृष्टा इवाभासते ॥३॥ तद्रूपोऽस्ति गुणैश्च धीरविमलाह्वानो निदानं सदापार-INT स्फारशुभस्य पुद्गलवतां यदर्शनं साम्पतम् । चक्रे तच्छिशुना नयादिविमलेनेदं चरित्रं महत, श्रीश्रीपालनरेशितुः पुनारिदं हृद्यंत सुगद्यान्वितम् ॥ ४ ॥ पूर्वप्राकृतगाथाबन्धचरित्रात्ततोऽपि विज्ञाय । श्रीविनयविजयवाचककृतरासकतश्च सम्बन्धम् ॥ ५॥ उपजीव्य विहितमेतत् , व्याख्यानकृते च सभ्यजनतानाम् । तत्कर्तव्यं शुद्धं, सद्भिरिदं मैत्र्यमाधाय ॥६॥ श्रीज्ञानविजयसुकवेः शिष्याः सन्यायबुद्धिपारीणाः। प्राज्ञा नयादिविजयास्तेनेदं शोधितं सम्यक् ॥७॥ प्रथमादर्श लिखितं, शरवेदमुनींदु (१७४५) ७ ॥४३॥ | संमिते वर्षे । राधासितद्वितीयादिवसे श्रीउन्नताख्यपुरे ॥८॥ श्रीविजयप्रभसूरीश्वरगुरुचरणप्रसादतो भव्याः। एतच्छ्रवणानुभवाद्भवन्तु | For Private & Personel Use Only Page #95 -------------------------------------------------------------------------- ________________ सन्मङ्गलालीनाः॥९॥ एतद्वाचनलिखनश्रवणात्पुण्यं समजयन्तु जनाः । आचामाम्लादितपःकरणादधिकं च तद्भक्त्या॥१०॥ सद्भिरहं नो हास्यो, दृष्ट्वा रचनां विसंस्थुलामस्य । उद्योगः कर्त्तव्यः, सद्गुणकथने बदन्ति ते एव ॥ ११ ॥ उपगीतिः । तस्माद्विस्तर भावं, प्रामोतु चरित्रमेतदाख्यातं । सद्भिः सुपरिगृहीतादानंदायेति कल्याणम् ॥१९॥ अष्टादशशतमान, ग्रन्थाग्रमनुष्टुभां च सञ्जातम् । IN अस्य चरित्रस्येदं, त्यक्त्वाऽऽलस्यं सदा वाच्यम् ॥ २० ॥ इतिश्रीपालचरित्रं पवित्रं सम्पूर्णम् । ७ इति श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-५६. । Printed by c. S. Deole at the Bembay Vaibhav Press, Servants of India Bociety's Home, Sandhurat Road Girgaon, Bombay. Published by Sash Naginbhai Gholabhai Javori, for Sheth Derehand Lalbhai Jain Pustakoddhar Fund, 426 Javeri Bazar, Bombay. Jain Educ a tional For Private Personal Use Only Iww.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ A 3 38 330SASSASSA303 SSANASIA AINA! RAM RAO A GET // इति श्रीज्ञानविमलसूरिविरवितं श्रीश्रीपालचरित्रं सम्पूर्णम् // इति श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः 56. papapapapapapapapapapapapapagaa ముందు వారి కాలంలో జల ల ల లో లాభాలు రావడంలో పాల వంపులు జరుపు For Private Personel Use Only www.ainelorry.org