________________
अजितसेन पराजयः
श्रीपाल चरित्रम्.
॥३२॥
बीजन्ति ॥ १०॥ कुन्ताकुन्ति शराशरि, मुष्टामुष्टि प्रवर्तितं युद्धम् । दण्डादण्डि च खड्गाखड्गि प्रासादीभः शस्त्रैः ॥ ११ ॥ अन्योऽन्यशस्वभङ्ग, क्षरत्स्फुलिङ्गनभश्च तारकितम् । रात्रीयति दिवसोऽपि, ध्वजिनीरजस्तिमिरपूरेण ॥१२॥” इति, श्रीपालसैन्पेन स्वसैन्य || दैन्यभावं प्राप्तं दृष्ट्वा उत्थितोऽजितसेनो यथार्थ स्वं नाम कुर्वनिव, तावता मदनाविहितसजरूपोद्भटैः सप्तशतभटैः सहसाऽऽगत्य हग्बन्धं विधाय मोक्तं-भो राजन् ! मुश्च मानमद्यापि किंगतं ? प्रणमैनं श्रीपालं वाञ्छितार्थकल्पशालं, न करोति तद्वचः, मानिनो हि तृणवत्पाणांस्त्यजन्ति परं मानं न मुञ्चन्तीति चिन्तयित्वा युद्धाय सज्जीभूतस्तदैव बद्धो जीवन् तै टैरानीतः श्रीपालपाचे, मोचितश्च तेनोचितकर्ता, तात! खेदं मा कुरु, सर्वोऽयं नवपदप्रभावः, सिंहासने स्थापयित्वा पुरो भूत्वा प्रणामपूर्व प्राह-सर्व त्वदायत्तं त्वदधीना वयं अनुभव राज्यविलासं इत्यादि, प्रणयपूर्वकं तद्वचः श्रुत्वा चिन्तयत्यजितसेनः-यदविमृश्य कृतं हासाय भवति, दूतोक्तं न कृतं तदा बन्धनं प्राप्तः, " अजाननात्मशक्तिं यः, कुरुते परकोपनम् । दह्यते शलभन्यायं, वह्नावलाय तप्तिमान् ॥१॥ क्वायमाजन्मतश्चोपकर्ता हर्ता पराऽऽपदाम् । क्वाहमोतुवदाजन्म, द्रोहकृत् परतापनः ॥२॥ न गोत्रद्रोहिणां कीर्तिने राजद्रोहिणां नयः । गतिर्न बालहन्तृणां, मम तु त्रितयं न हि ॥३॥ न निमित्तद्विषां क्षेमो, नायुर्वैद्यकविद्विषाम् । न श्रीर्नीतिद्विषां धर्मद्विषां तु त्रितयं न हि ॥४॥न कोऽपि कुरुते पापं, यत् कृतं तन्मयाऽऽधिया । स्थानं नान्यद्विना श्वभ्रं, तैरश्चं वाऽधमस्य मे ॥ ५॥" इति निर्णीय तदघोद्भवदुःखवल्लीदहनकल्पा शिवसौख्यदुमकन्दपल्लवनपर्जन्यका सिद्धिवनिताकर्षणमन्त्रशक्तिजल्पां भवनिष्कर्षणोच्चाटनविद्या कषायगिरिभेदनपविज्वाला नोकषायवनवन्हिमेघमालां दीक्षा कक्षीचकाराजितसेनो देवतादत्तवेषो मुक्तपद्वेषस्तदैव जातिस्मरणवान् जातः, तं दृष्ट्वा हर्षोत्कर्षपुलकितनम्रभालः श्रीपालः स्तौति-“धन्यस्त्वं कृतपुण्यस्त्वं, क्षीणीभूतभव
॥३२॥
Jain Educationala
For Private Personel Use Only
Villainelibrary.org