________________
Jain Education
श्रेष्ठिदेवचन्द्र लालभाई - जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीनयविमल अपर नामज्ञानविमलसूरिकृतम्
श्रीश्रीपाल चरित्रम्.
श्री पार्श्वपरमेश्वराय नमः । ऐं नमः ।
सकल कुशलवल्लीसेचने नव्यदेवो भवतु भवभृतां स श्रेयसे पार्श्वदेवः । शठकमठविमुक्तैर्वारिपूरैः समीरै- रधिकमिह यदीयो दिद्युते ध्यानदीपः ॥ १ ॥ श्रीपार्श्वनाथपादाब्ज - मानम्याशु प्रमोदतः ।
तन्यते सिद्धचक्रस्य, माहात्म्यं किञ्चिदुत्तमम् ॥ २ ॥
अस्त्यत्र जम्बूद्वीपे दक्षिणभरतार्द्धमध्यखण्डे बहुधनधान्यसमृद्धो मगधनामा जनपदः, तत्र वैभारसारपरिकरितपरिसरं राजगृहं नाम पुरमासीत्, तत्र जगत्रयविख्यात कीर्तिर्विरजिनपदकमलाविहितभक्तिः श्रेणिको नाम राजास्ति, तस्य प्रथमा पत्नी जगज्जनिता
For Private & Personal Use Only
helibrary.org