________________
श्रीपाल चरित्रम्.
झानवि०
कृतम्
श्रीश्रीपालचरित्रे नयविमलीये जैनपुस्तकोद्धारमुद्रिते द्वादशात्पत्रादेतावन्तं ग्रन्थमनुसंदधतु विद्वद्वर्याः ।
-
वाङ्मात्रसाराः परमार्थशून्याः कदलीस्तम्भवद् बहिः सारा अन्तेः शून्या भवन्ति इति भणित्वा धनूरत्नमास्फाल्य क्षुरपाकारशरप्रेषणेन नृपस्य कीर्तिरिव केतुः पातिता, ततो बर्बरसुभटैः शरमण्डपः कृतस्तदुपरि, परमौषधीप्रभावात् न कोऽपि लग्नः, कुमारस्य चैकोऽपि शरो नवपदध्यानप्रभावात् लक्ष्यता प्राप्तः, तैः कृत्वा केऽपि पतिताः केऽपि नष्टाः केऽपि पदे लग्नाः, अथ महाकालोऽपि कुमाराभिमुखं स्वहस्तेन शस्त्राणि चिक्षेप, परमौषधीमाहात्म्यात् तस्याने एकमपि न लग्नं, ततः कुमारेण बर्बराधिपतिः कर्णग्राहमेडिकवद्धद्धः, | तं दृष्ट्वा सर्वेऽपि बर्बराः प्रणष्टाः, धवलोऽपि बन्धनात् छोटितस्तदा शीघ्र खड्गमाकृष्य महाकालहननार्थ धावितः, तदा श्रीपालो भणति| भोः! श्रेष्ठिन् इदानीं बलं दर्शयसि पूर्व कुत्र गतं तदलं ?, 'शरणप्राप्त गेहागतं च बद्धं च रोगपरिभूतम् । वृद्धं बालं त्रस्तं न ध्नन्ति ।
कदापि सत्पुरुषाः ।।१॥' श्रेष्टिना दशसहस्रभटानामाजीविका भन्ना, ते सर्वेऽपि भटाः श्रीपालमाश्रिताः, स्वकभागलब्धसार्धद्विशत| प्रवहणरक्षाकृते स्थापिताः, महाकालोऽपि श्रीपालेन सपरिकरो वस्त्रशस्त्रादिभिः सन्मान्य गृहे विसर्जितः, तस्य कुमारस्य तादृशं चरितं | दृष्टा चित्ते चमत्कृतो विनयेन भणति-पुरुषोत्तम !
१२॥
Jan Education
For Private
Personal Use Only