________________
श्रीपालस्य समुद्रपतनं
श्रीपाल चरित्रम्
तत्र वने चम्पकतरुतले प्रसुप्तो यावज्जागर्ति तावत्सेवाऽऽसक्तसुभटैर्विहितपाञ्जलि पुटैविनयावनतप्रणतैर्विज्ञप्तं, देव? समस्ति सकलसुरसुंदरीमनोहरविलासोपहासप्रदानप्रवीणसीमन्तिनीजनकटाक्ष टाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशः कुङगाभिधानः, तत्र च तुषारगिरिशिखरधवलविमलप्रासादमालापोत्कटकूटकोटिभिरकालेऽपि शारदाभ्रलीलां कुर्वाणमिवाभाति प्रतिष्ठाप्राप्तजनपूर्णप्रतिष्ठं प्रतिष्ठानपुरं नाम नगरं । तस्य पालयिता प्रणताऽशेषमहीपालोऽयत्नसपत्नशिरोधिर्षणशिलोत्तेजितकरालकरवालो वसुपालनामा प्रजापालस्तेन समादिष्टा वयमित्युक्ताः, 'छायातरुवरचम्पकतरुतले यः कोऽपि पुरुषरत्नः सुप्तो भवेदद्य पश्चिमे यामे, तं तुरङ्गारूढं कृत्वा आनयत,' इति राजाऽऽदेशं श्रुत्वा अस्माभिस्त्वमेव पुण्यवशादृष्टस्ततस्त्वं तुरगमारुह्य तत्र दर्शनं देहि, कुमारोऽपि तन्निशम्य हयारूढो यावता सुभटपरिवृतः प्रतिष्ठान पुरं याति, तावता राजाऽपि सचिवादिसमेतस्तदभिमुखमायातः, महामहोत्सवेन पुरप्रवेशः कारापितः तस्य, अशनवसनादिभिः प्रतिपत्तिं कृत्वा सबहुमानं तं राजा जल्पति, पूर्वमेकदा चैको निमित्तज्ञः सभायामागतः पृष्टश्चास्माभिः, मत्पुत्र्याः। मदनमञ्जाः को वरो भावी ? तदा तेनोक्तं निमित्तबलेनः, यो वैशाख शुक्लदशम्यां जलधितटे अचलच्छायचम्पकतरुतले शयितो भवेत् , स वरो भविष्यति । तत्सर्वमद्य सञ्जातं, पूर्णा सन्धा, ततश्चेमा मदनमञ्जरी परिणय, इत्याग्रहपूर्वकं पाणिग्रहणं कारापित्तं दत्तं च गजाश्वरथधनधान्यरत्नस्वर्णमाणिभूषणभवनादि, ततो नरेश्वरेणाऽऽदिष्टे विशिष्टे वासभवने विविधानि सुखानि भुक्ते, पुण्यमेव सुखमूलमिति' । राज्ञा तस्य देशप्रामनगराऽऽधिपत्यं दीयमानमपि स नेहते, एकं स्थगीधरपदं मार्गयति, राजाऽऽपि तदेव हीनमपि कम् तस्य तुष्टीकृते ददाति, सुखेन कालो निर्गच्छति ।
इतश्च यदा समुद्रान्तः पतितः कुमारः, तदा धवलश्रेष्ठी तेन कुमित्रेण समं सन्तुष्टचित्तोऽपि लोकमत्ययार्थ भणति, 'अहो
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org