________________
परस्य रन्ध्राणि सदा विशन्ति । दशन्ति मर्माणि भयंकराव्हास्ते वर्जनीया झटिति द्विजिव्हाः ॥ ४॥ जुगुप्सनीयाऽभ्यवहाररक्ताः, स्वजातिविद्वेषरता नितान्तम् । श्वाना इव स्युः पिशुना रटन्तो, यथातथं भूरिविषाः सदोषाः॥५॥ यदुक्तम्-"विरसं भसंति सविसं डसंति जे छन्नमंतसुंघता, ते कस्स लद्धछिद्दा, दुजणभसणा सुहं दिति" ॥१॥ इति कारणात् त्वं नाम्नैव धवलः परं कर्मणा महाकालोसि, त्वदर्शनमात्रेणाऽप्यस्माकं मालिन्यं भवति, इत्यादि तिरस्कृतिनिपुणं वचो भणित्वा त्रयोऽपि पित्राः स्वस्थानं गतास्तावता तुर्योऽनार्यमित्रः समागतः, स्थितस्तत्पाचे कुटिलमतिर्भणति धवलं पति, न कथ्यते एतादृशं मन्त्रमेतेषां पुरतो, यदेते प्रत्यर्थीभूतास्त्वदहितं चिन्तयन्त्येव, किं त्वहमेव त्वदीष्टसाधनलिप्सुरिच्छामि त्वत्मियम् , अतो मदीयं वचः कुरुथ। विशेषतः श्रीपालेन समं मैत्री कार्या यथाऽसौ विश्वस्तमना भवति, इति श्रुत्वोल्लसितहृदयकमलो धवलो भणति, सम्यगुक्तं; कथं मम मनोऽभीष्टसिद्धिर्भवेत् ? तदा स कुमित्रो वदति-यदयं प्रवहणोपरि गुणबद्धो मञ्चकोऽस्ति, तदुपरि कथमपि कौतुकविलोकनमिषेणैन प्रस्थाप्य यदि मश्चकदोरकाश्छिद्यन्ते, तदायं समुद्रान्तः पतति, भवति त्वदभीष्टं, न चटति कोऽपि दोषः, तन्निशम्य लब्धोपायः सापायो धवलस्तुष्टः करोति क्रीडां कुमारेण समं, अथाऽन्यदा स्वयमारूढो धवलो मञ्चे तत्रस्थो जल्पति कुमारं प्रति, भोः प्रेमपात्र! मया समुद्रमध्ये अदृष्टपूर्वमाश्चर्य दृष्ट, यात्ययमष्टमुखो मीन, इति जल्पन् उत्तरितस्तूर्ण कथयति कुमारस्य सविशेषतया, तदा कुमारोऽपि अपूर्वकुतूहलं श्रुत्वा 'अपूर्वकौतुकालोको जीवितादपि अधिकः स्मृतः' इति लोकन्यायमङ्गीकृत्य यावता मञ्चके चटितस्तावता तेन कुमन्त्रिणा (कुमित्रेण) मञ्चकदोरकरछेदो: विहितः, पतितः सहसा समुद्रान्तः कुमारः, पतन्नेव नवपदध्यानस्मरणप्रभावात् मकरपृष्ठे स्ववाहनवत स्थितः नवपदध्यानस्मरणप्रभावादौषधीप्रभावाच मकरपृष्ठस्थः क्षणेनैव सुखमात्रं कुकणतटं प्राप्तः ।
For Private & Personal Use Only
Nainelibrary.org