SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ज्ञानवि० कृतम् ॥१८॥ Jain Education नानीव, कुमारोऽपि लीलामनुभवन् प्रवहणस्थितो याति पालकारूढसुरेन्द्रवत्, रमणद्वियललिविलासश्लिष्टं विशिष्टऋद्विजुष्टं समष्टिं कुमारं विलोक्य दुष्टश्चिन्तयति - अहो प्राकृतमात्रोऽपि कीदृग् ऋद्धिमान जातो?, यद्येतदीया सम्पत् मम भवति तदाऽहं कृतार्थः, अन्यथा त्वकृतार्थजन्मा, ईदृग्दुद्धर्थानपरो रमणीरमणीयतानिकपोत्तेजितमदनशर लब्धप्रसरो न लभते रतिं स्थलगतमनिवत् धवलशफरः, एक तो लोभकतः कामः सपवनो वन्हिरिव ज्वलनंतस्तिष्ठति, रजन्यामप्युभिद्रः पञ्चशरव्यसनमुद्रोपद्रुतो दृष्टी मित्रपुरुषैः, पृष्टश्व किं-त्वदङ्गे व्याधिते येनातुरो ?, कथय स्फुटं निजदुःखं, तदा कथमपि दीर्घ निःश्वस्य कथयति-मदङ्गे व्याधिर्न बाधते, किं त्वाधिर्दुरन्तः, पुनस्तैः पृष्टः- काऽसौ मानसी पीडा ?, तदा तेन सर्वः स्ववृत्तान्तः कथितः तं निशम्य ते चत्वारो मित्रवणिजो भणन्ति - अहो किमिदमुक्तं कर्णशूलोपमं ?, सज्जनानां कस्यापि धनापहरणं न घटते, किं परोपकारिणां, दारुणविपाकफलं धनापहरणं, परस्त्रीसंगोऽपि सतां लोके विकत्थनीयो, यत्स्वामिन्! प्राणधनदारापहरणं तत्तु निरयमूलमेव, अतस्त्वया एतादृशं चिन्तितमेव कथं?, कथंचिच्चिन्तितमपि जिह्वया प्रोक्तं १, कथं एतावत्कालं त्वमस्माकं स्वामी मित्रं चाभवदिदानीं तु त्वं महावैरिवज्जातो, यतोऽसौ कुमारो देवताबद्धप्रवहणवाल नोपकारकृत महाकाल नृपतिबद्धमोचनोपकृतिकृत् विद्याधरतश्च तत्सर्वमप्युपकारप्रकारं विस्मृत्य एवं चिन्तयसि, ज्ञातं तदा। | त्वमेव दुर्जनजनधुर्यो यदेवंविधोपकारकारिणामुपरि द्रोहकृत्, यथा- कृष्णा: परच्छिद्ररता भयङ्करा, अस्तुदो वक्रगता द्विजिव्हाः । प्रायः परमाणविनाशदक्षा, मूर्त्ता द्विजिव्हा इव भोगगृध्राः ॥ १ ॥ मिष्ठा मुखे धातुविशेषशोषिणः, अलब्धमूला: कुशलैश्चिकित्सकैः । परोपतापाय भवन्त्यसज्जनाः, किं राजयक्ष्माण इवातिदुःखदाः ॥ २ ॥ सकण्टकव्याप्तिविषाः सदशाः, न ज्ञापितान्तः सदसद्विशेषाः । नायान्ति वश्यं वरमन्त्रतन्त्रैरसज्जना वृश्चिकवत्स्वभावाः ॥ ३ ॥ मुखेन ये दोषविषं वमन्ति, For Private & Personal Use Only श्रीपाल चरित्रम् ||१८|| inelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy